Padarthas (पदार्थाः)

From Dharmawiki
Jump to navigation Jump to search

Padarthas (Samskrit : पदार्थाः) or entities (substances) are of sixteen categories according to Nyaya Darshana, the true knowledge of which leads to attainment of the Nihshreyasa. Nyaya Darshana begins with Gautama's exposition of the nature of an entity or substance which belongs to the one of these sixteen categories. Vaiseshika also propounds the similar concept of Padarthas but vary in the number of categories accepted.

परिचयः॥ Introduction

The concept of Padarthas is introduced by Nyaya and Vaiseshika darshanas. Padarthas are entities of whose knowledge is essential for attaining the ultimate goal of life. The very first sutra of Nyaya given by Gautama expounds sixteen categories that leads to the attainment of Nihshreyasa.[1] Kanada on the other hand divides all nameable things into six classes by a subtle process of analysis and synthesis.[2]

List of Padarthas of Nyaya and Vaiseshika
Nyaya Pramana (प्रमाणम्) Prameya (प्रमेयम् ) Samsaya (संशयः ) Prayojana (प्रयोजनम्) Drsthanta (दृष्टान्तम्) Siddhanta (सिद्धान्तम्) Avayava (अवयवः)

Tarka (तर्कः Nirnaya (निर्णयः) Vada (वादः) Jalpa (जल्पः) Vitanda (वितण्डा) Hetvabhasa (हेत्वाभासः ) Chala (च्छलः ) Jati (जतिः) Nigraha (निग्रहः )

Vaiseshika Dravya (द्रव्यः) Guna (गुणः) Karma (कर्म) Samanya (सामान्यः) Visesha (विशेषः) Samavayi (समवायी)

षोडशपदार्थाः ॥ Sixteen Categories

Nyaya expounds the

प्रमाणप्रमेयसंशयप्रयोजनदृष्टान्तसिद्धान्तावयवतर्कनिर्णयवादजल्पवितण्डाहेत्वाभासच्छलजातिनिग्रहस्थानानाम्तत्त्वज्ञानात्निःश्रेयसाधिगमः ।।१।। {पदार्थोद्देशसूत्रम्} (Nyaya. Sutr. 1.1.1)[3]

Vastyayana Bhashya (Vats. Bhas. Nyay. Sutr. 1.1.1) (Page 14 of Reference [4])

आत्मादेः खलु प्रमेयस्य तत्वस्य ज्ञानान्निःश्रेयसाधिगमः। तच्चैतदुत्तरसूत्रेणानूद्यत इति । हेयं, तस्य निर्वर्त्तकं, हानमात्यन्तिकं, तस्योपायोऽधिगन्तव्य इत्येतानि चत्वार्य्यपदानि सम्यक्बुद्ध्वा निःश्रेयसमधिगच्छति ।

तत्त्र संशयादीनां पृथक्वचनमनर्थकम्। संशयादयो यथासंभवं प्रमाणेषु प्रमेयेषु चान्तर्भवन्तो न व्यतिरिच्यन्त इति। सत्यमेतत् । इमास्तु च तिस्रो विद्याः पृथक्प्रस्थानाः प्राणभृतामनुग्रहायोपदिश्यन्ते, यासां चतुर्थीयमान्विक्षिकी न्यायविद्या। तस्याः पृथक्प्रस्थानाः संशयादयः पदार्थाः। तेषां पृथग्वचनमन्तरेणाध्यात्मविद्यामात्रमियं स्यात्, यथोपनिषदः । तस्मात् संशयादिभिः पदार्थैः पृथक् प्रस्थाम्यते । तत्र नानुपलब्धे न निर्णीते अर्थे न्यायः प्रवर्तते, किन्तर्हि, संशयिते अर्थे । यथोक्तं - विमृश्य पक्षप्रतिपक्षाभ्यामर्थावधारणं निर्णयः इति। विमर्शः संशयः । पक्षप्रतिपक्षौ न्यायप्रवृत्तिः। अर्थावधारणं निर्णयः तत्वज्ञानमिति। स चायं किं स्विदिति वस्तुविमर्शमात्रमनवधारणं ज्ञानं संशयः प्रमेये अन्तर्भवन्नेवमर्थं पृथगुच्यते। अथ प्रयोजनम्। येन प्रयुक्तः प्रवर्त्तते, तत् प्रयोजनम्। यमर्थमभीप्सन् जिहासन् वा कर्माऽऽरभते, तेनानेन सर्व्वे प्रणिनः सर्वाणि कर्माणि सर्वाश्च विद्या व्याप्ताः, तदाश्रयश्च न्यायः प्रवर्तते। कः पुनरयं न्यायः - प्रमाणैरर्थपरीक्षणं न्यायः। प्रत्यक्षाऽऽगमाश्रितमनुमानं, साऽन्वीक्षा, प्रत्यक्षाऽऽगमाभ्यामीक्षितस्यान्वीक्षणमन्वीक्षा तया प्रवर्तत इत्यन्वीक्षिकी न्यायविद्या न्यायशास्त्रम्। यत्पुनरनुमानं प्रत्यक्षाऽऽगमविरुद्धं न्यायाभासः स इति। तत्र वादजल्पौ सप्रयोजनौ। वितण्डा तु परीक्ष्यते। वितण्डया प्रवर्तमानो वैतण्डिकः। स प्रयोजनमनुयुक्तो यदि प्रतिपद्यते, सोऽस्य पक्षः सोऽस्य सिद्धान्तः इति वैतण्डिकत्वं जहाति।

English Translation of Sutra and Bhasya (Page 20 of Reference [1])

  1. प्रमाणम् : प्रत्यक्षानुमानोपमानशब्दाः प्रमाणानि ।। ३ ।। {प्रमाणौद्देशसूत्रम्}
  2. प्रमेयम् : आत्मशरीरेन्द्रियार्थबुद्धिमनःप्रवृत्तिदोषप्रेत्यभावफलदुःखापवर्गाः तु प्रमेयम्।। ९ ।।{प्रमेयौद्देशसूत्रम्}
  3. संशयः : समानानेकधर्मोपपत्तेः विप्रतिपत्तेः उपलब्ध्यनुपलब्ध्यव्यवस्थातः च विशेषापेक्षः विमर्शः संशयः ।। २३ ।। {संशयलक्षणम्}
  4. प्रयोजनम् : यं अर्थं अधिकृत्य प्रवर्तते तत्प्रयोजनम् ।। २४ ।। {प्रयोजनलक्षणम्}
  5. दृष्टान्तम् : लौकिकपरीक्षकाणां यस्मिनर्थे बुद्धिसाम्यं सः दृष्टान्तः ।। २५ ।। {दृष्टान्तलक्षणम्}
  6. सिद्धान्तम् : तन्त्राधिकरणाभ्युपगमसंस्थितिः सिद्धान्तः ।। २६ ।। {अभ्युपगमसिद्धान्तलक्षणम्} सः चतुर्विधः सर्वतन्त्रप्रतितन्त्राधिकरणाभ्युपगमसंस्थित्यर्थान्तरभावात् ।। २७ ।। {तन्त्रभेदौद्देशसूत्रम्} सर्वतन्त्राविरुद्धः तन्त्रे अधिकृतः अर्थः सर्वतन्त्रसिद्धान्तः ।। २८ ।। {सर्वतन्त्रसिद्धान्तलक्षणम्} समानतन्त्रसिद्धः परतन्त्रासिद्धः प्रतितन्त्रसिद्धान्तः ।। २९ ।। {प्रतितन्त्रसिद्धान्तलक्षणम्} यत्सिद्धौ अन्यप्रकरणसिद्धिः सः अधिकरणसिद्धान्तः ।। ३० ।। {अधिकरणसिद्धान्तलक्षणम्} अपरीक्षिताभ्युपगमात्तद्विशेषपरीक्षणं अभ्युपगमसिद्धान्तः ।। ३१ ।। {अभ्युपगमसिद्धान्तलक्षणम्}
  7. अवयवः प्रतिज्ञाहेतूदाहरणोपनयनिगमनानि अवयवाः ।। ३२ ।। {अवयवौद्देशसूत्रम्} साध्यनिर्देशः प्रतिज्ञा ।। ३३ ।। {प्रतिज्ञालक्षणम्} उदाहरणसाधर्म्यात्साध्यसाधनं हेतुः ।। ३४ ।। {हेतुलक्षणम्} तथा वैधर्म्यात् ।। ३५ ।। {हेतुलक्षणम्} साध्यसाधर्म्यात्तद्धर्मभावी दृष्टान्तः उदाहरणम् ।। ३६ ।। {उदाहरणलक्षणम्} तद्विपर्ययात्वा विपरीतम् ।। ३७ ।। {उदाहरणलक्षणम्} उदाहरणापेक्षः तथा इति उपसंहारः न तथा इति वा साध्यस्य उपनयः ।। ३८ ।। {उपनयलक्षणम्} हेत्वपदेशात्प्रतिज्ञायाः पुनर्वचनं निगमनम् ।। ३९ ।। {निगमनलक्षणम्}
  8. तर्कः : अविज्ञाततत्वे अर्थे कारणोपपत्तितः तत्त्वज्ञानार्थं उहः तर्कः ।। ४० ।। {तर्कलक्षणम्}
  9. निर्णयः : विमृश्य पक्षप्रतिपक्षाभ्यां अर्थावधारणं निर्णयः ।। ४१ ।। {निर्णयलक्षणम्}
  10. वादः : प्रमाणतर्कसाधनोपालम्भः सिद्धान्ताविरुद्धः पञ्चावयवोपपन्नः पक्षप्रतिपक्षपरिग्रहः वादः ।। १ ।। {वादलक्षणम्}
  11. जल्पः : यथोक्तोपपन्नः छलजातिनिग्रहस्थानसाधनोपालम्भः जल्पः ।। २ ।। {जल्पलक्षणम्}
  12. वितण्डा : सः प्रतिपक्षस्थापनाहीनः वितण्डा ।। ३ ।। {वितण्डालक्षणम्}
  13. हेत्वाभासः : सव्यभिचारविरुद्धप्रकरणसमसाध्यसमकालातीताः हेत्वाभासाः ।। ४ ।। {हेत्वाभासौद्देशसूत्रम्} अनैकान्तिकः सव्यभिचारः ।। ५ ।। {सव्यभिचारलक्षणम्} सिद्धान्तं अभ्युपेत्य तद्विरोधी विरुद्धः ।। ६ ।। {विरुद्धलक्षणम्} यस्मात्प्रकरणचिन्ता सः निर्णयार्थमपदिष्टः प्रकरणसमः ।। ७ ।। {प्रकरणसमलक्षणम्} साध्याविशिष्टः साध्यत्वात्साध्यसमः ।। ८ ।। {साध्यसमलक्षणम्} कालात्ययापदिष्टः कालातीतः ।। ९ ।। {कालातीतलक्षणम्}
  14. च्छलः : वचनविघातः अर्थविकल्पोपपत्त्या छलम् ।। १० ।। {छललक्षणम्} तत्त्रिविधं वाक्छलं सामान्यच्छलं उपचारच्छलं च इति ।। ११ ।। {छलभेदौद्देशसूत्रम्} अविशेषाभिहिते अर्थे वक्तुः अभिप्रायातर्थान्तरकल्पना वाक्छलम् ।। १२ ।। {वाक्छललक्षणम्} सम्भवतः अर्थस्य अतिसामान्ययोगातसम्भूतार्थकल्पना सामान्यच्छलम् ।। १३ ।। {सामान्यच्छललक्षणम्} धर्मविकल्पनिर्देशे अर्थसद्भावप्रतिषेधः उपचारच्छलम् ।। १४ ।। {उपचारच्छललक्षणम्} वाक्छलं एव उपचारच्छलं ततविशेषात् ।। १५ ।। {उपचारच्छलपूर्वपक्षलक्षणम्} न ततर्थान्तरभावात् ।। १६ ।। {उपचारच्छललक्षणम्} अविशेषे वा किञ्चित्साधर्म्यातेकच्छलप्रसङ्गः ।। १७ ।। {उपचारच्छललक्षणम्}
  15. जातिः : साधर्म्यवैधर्म्याभ्यां प्रत्यवस्थानं जातिः ।। १८ ।। {जातिलक्षणम्}
  16. निग्रहः : विप्रतिपत्तिः अप्रतिपत्तिः च निग्रहस्थानम् ।। १९ ।। {निग्रहस्थानलक्षणम्} तद्विकल्पात्जातिनिग्रहस्थानबहुत्वम् ।। २० ।। {निग्रहस्थानबहुत्वसूत्रम्}

Vaiseshika Padarthas

6 Padarthas definition and translation

धर्मविशेष प्रसूतात् द्रव्यगुणकर्मसामान्य विशेषसमवायानां पदार्थानां साधर्म्यवैधर्म्याभ्यां तत्त्वज्ञानान्निःश्रेयसम् । वैशेषिक-१,१.४ ।

Dravya : पृथिव्यापस्तेजो वायुराकाशं कालो दिगात्मा मन इति द्रव्याणि । वैशेषिक-१,१.५ ।

Gunas : रुपरसगन्धस्पर्शाः संख्याः परिमाणानि पृथक्त्वं संयोगविभागौ परत्वापरत्वे बुद्धयः सुखदुःखे इच्छाद्वेषौ प्रयत्नाश्च गुणाः । वैशेषिक-१,१.६ ।

Karma : उत्क्षेपणमवक्षेपणं आकुञ्चनं प्रसारणं गमनमिति कर्माणि । वैशेषिक-१,१.७ ।

Samanya : सामान्यविशेष इति बुद्ध्यपेक्षम् । वैशेषिक-१,२.३ । भावो ऽनुवृत्तेरेव हेतुत्वात् सामान्यमेव । वैशेषिक-१,२.४ ।

Visesha : Proved by inference from above sutra 1.2.4

Samavaya : इहेदमिति यतः कार्यकारणयोः स समवायः । वैशेषिक-७,२.२६ ।

References

  1. 1.0 1.1 Mm. Ganganatha Jha. (1939) Gautama's Nyayasutras With Vatsyayana Bhashya. Poona : Oriental Book Agency. (Page no 20)
  2. Sinha, Nandalal. (1923) The Vaiseshika Sutras of Kanada. Allahabad : The Panini Office
  3. Nyaya Sutras (Adhyaya 1 Ahnika 1)
  4. Pt. Gangadhara Sastri Tailanga. (1896) The Nyayasutras with Vatsayana's Bhashya and Extracts from the Nyayavarttika and the Tatparyatika. (Page 48 of PDF) Benares : E. J. Lazarus & Co