Changes

Jump to navigation Jump to search
Line 8: Line 8:  
आत्मादेः खलु प्रमेयस्य तत्वस्य ज्ञानान्निःश्रेयसाधिगमः। तच्चैतदुत्तरसूत्रेणानूद्यत इति । हेयं, तस्य निर्वर्त्तकं, हानमात्यन्तिकं, तस्योपायोऽधिगन्तव्य इत्येतानि चत्वार्य्यपदानि सम्यक्बुद्ध्वा निःश्रेयसमधिगच्छति ।   
 
   −
तत्त्र संशयादीनां पृथक्वचनमनर्थकम्। संशयादयो यथासंभवं प्रमाणेषु प्रमेयेषु चान्तर्भवन्तो न व्यतिरिच्यन्त इति। सत्यमेतत् । इमास्तु च तिस्रो विद्याः पृथक्प्रस्थानाः प्राणभृतामनुग्रहायोपदिश्यन्ते, यासां चतुर्थीयमान्विक्षिकी न्यायविद्या। तस्याः पृथक्प्रस्थानाः संशयादयः पदार्थाः। तेषां पृथग्वचनमन्तरेणाध्यात्मविद्यामात्रमियं स्यात्, यथोपनिषदः । तस्मात् संशयादिभिः पदार्थैः पृथक् प्रस्थाम्यते । तत्र नानुपलब्धे न निर्णीते अर्थे न्यायः प्रवर्तते, किन्तर्हि, संशयिते अर्थे । यथोक्तं   
+
तत्त्र संशयादीनां पृथक्वचनमनर्थकम्। संशयादयो यथासंभवं प्रमाणेषु प्रमेयेषु चान्तर्भवन्तो न व्यतिरिच्यन्त इति। सत्यमेतत् । इमास्तु च तिस्रो विद्याः पृथक्प्रस्थानाः प्राणभृतामनुग्रहायोपदिश्यन्ते, यासां चतुर्थीयमान्विक्षिकी न्यायविद्या। तस्याः पृथक्प्रस्थानाः संशयादयः पदार्थाः। तेषां पृथग्वचनमन्तरेणाध्यात्मविद्यामात्रमियं स्यात्, यथोपनिषदः । तस्मात् संशयादिभिः पदार्थैः पृथक् प्रस्थाम्यते । तत्र नानुपलब्धे न निर्णीते अर्थे न्यायः प्रवर्तते, किन्तर्हि, संशयिते अर्थे । यथोक्तं - विमृश्य पक्षप्रतिपक्षाभ्यामर्थावधारणं निर्णयः इति। विमर्शः संशयः । पक्षप्रतिपक्षौ न्यायप्रवृत्तिः। अर्थावधारणं निर्णयः तत्वज्ञानमिति। स चायं किं स्विदिति वस्तुविमर्शमात्रमनवधारणं ज्ञानं संशयः प्रमेये अन्तर्भवन्नेवमर्थं पृथगुच्यते। अथ प्रयोजनम्। येन प्रयुक्तः प्रवर्त्तते, तत् प्रयोजनम्। यमर्थमभीप्सन् जिहासन् वा कर्माऽऽरभते, तेनानेन सर्व्वे प्रणिनः सर्वाणि कर्माणि सर्वाश्च विद्या व्याप्ताः, तदाश्रयश्च न्यायः प्रवर्तते। कः पुनरयं न्यायः - प्रमाणैरर्थपरीक्षणं न्यायः। प्रत्यक्षाऽऽगमाश्रितमनुमानं, साऽन्वीक्षा,  प्रत्यक्षाऽऽगमाभ्यामीक्षितस्यान्वीक्षणमन्वीक्षा तया प्रवर्तत इत्यन्वीक्षिकी न्यायविद्या न्यायशास्त्रम्। यत्पुनरनुमानं प्रत्यक्षाऽऽगमविरुद्धं न्यायाभासः स इति। तत्र वादजल्पौ सप्रयोजनौ। वितण्डा तु परीक्ष्यते। वितण्डया प्रवर्तमानो वैतण्डिकः। स प्रयोजनमनुयुक्तो यदि प्रतिपद्यते, सोऽस्य पक्षः सोऽस्य सिद्धान्तः इति वैतण्डिकत्वं जहाति।    
    
English Translation of Sutra and Bhasya (Page 20 of Reference <ref name=":6">Mm. Ganganatha Jha. (1939) Gautama's Nyayasutras With Vatsyayana Bhashya. Poona : Oriental Book Agency. ([https://archive.org/details/GautamasNyayasutras/page/n20 Page no 20])</ref>)
 
Navigation menu