Adiparva Adhyaya 4 (आदिपर्वणि अध्यायः ४)

From Dharmawiki
Revision as of 23:03, 1 August 2019 by Pṛthvī (talk | contribs) (Created page with "कथाप्रवेशः रो[लो]महर्षणपुत्र उग्रश्रवाः सौतिः पौराणिको नैमिषार...")
(diff) ← Older revision | Latest revision (diff) | Newer revision → (diff)
Jump to navigation Jump to search

कथाप्रवेशः

रो[लो]महर्षणपुत्र उग्रश्रवाः सौतिः पौराणिको नैमिषारण्ये शौनकस्य कुलपतेर्द्वादशवार्षिके सत्रे ऋषीनभ्यागतानुपतस्थे॥ 1-4-1

पौराणिकः पुराणे कृतश्रमः स कृताञ्जलिस्तानुवाच॥ किं भवन्तः श्रोतुमिच्छन्ति किमहं ब्रवाणीति॥ 1-4-2

तमृषय ऊचुः परमं रौ[लौ]महर्षणे वक्ष्यामस्त्वां न प्रतिवक्ष्यसि वचः शुश्रूषतां कथायोगं नः कथायोगे॥ 1-4-3

तत्र भवान्कुलपतिस्तु शौनकोऽग्निशरणमध्यास्ते॥ 1-4-4

योऽसौ दिव्याः कथा वेद देवतासुरसंश्रिताः।

मनुष्योरगगन्धर्वकथा वेद च सर्वशः॥ 1-4-5

स चाप्यस्मिन्मखे सौते विद्वान्कुलपतिर्द्विजः।

दक्षो धृतव्रतो धीमाञ्छास्त्रे चारण्यके गुरुः॥ 1-4-6

सत्यवादी शमपरस्तपस्वी नियतव्रतः।

सर्वेषामेव नो मान्यः स तावत्प्रतिपाल्यताम्॥ 1-4-7

तस्मिन्नध्यासति गुरावासनं परमार्चितम्।

ततो वक्ष्यसि यत्त्वां स प्रक्ष्यति द्विजसत्तम॥ 1-4-8

सौतिरुवाच

एवमस्तु गुरौ तस्मिन्नुपविष्टे महात्मनि।

तेन पृष्टः कथाः पुण्या वक्ष्यामि विविधाश्रयाः॥ 1-4-9

सोऽथ विप्रर्षभः सर्वं कृत्वा कार्यं यथाविधि।

देवान्वाग्भिः पितॄनद्भिस्तर्पयित्वाऽऽजगाम ह॥ 1-4-10

यत्र ब्रह्मर्षयः सिद्धाः सुखासीना धृतव्रताः।

यज्ञायतनमाश्रित्य सूतपुत्रपुरःसराः॥ 1-4-11

ऋत्विक्ष्वथ सदस्येषु स वै गृहपतिस्तदा।

उपविष्टेषूपविष्टः शौनकोऽथाब्रवीदिदम्॥ 1-4-12

इति श्रीमहाभारते आदिपर्वणि पौलोमपर्वणि कथाप्रवेशो नाम चतुर्थोऽध्यायः॥ 4 ॥