Adiparva Adhyaya 4 (आदिपर्वणि अध्यायः ४)
Jump to navigation
Jump to search
कथाप्रवेशः रो[लो]महर्षणपुत्र उग्रश्रवाः सौतिः पौराणिको नैमिषारण्ये शौनकस्य कुलपतेर्द्वादशवार्षिके सत्रे ऋषीनभ्यागतानुपतस्थे॥ 1-4-1 पौराणिकः पुराणे कृतश्रमः स कृताञ्जलिस्तानुवाच॥ किं भवन्तः श्रोतुमिच्छन्ति किमहं ब्रवाणीति॥ 1-4-2 तमृषय ऊचुः परमं रौ[लौ]महर्षणे वक्ष्यामस्त्वां न प्रतिवक्ष्यसि वचः शुश्रूषतां कथायोगं नः कथायोगे॥ 1-4-3 तत्र भवान्कुलपतिस्तु शौनकोऽग्निशरणमध्यास्ते॥ 1-4-4 योऽसौ दिव्याः कथा वेद देवतासुरसंश्रिताः। मनुष्योरगगन्धर्वकथा वेद च सर्वशः॥ 1-4-5 स चाप्यस्मिन्मखे सौते विद्वान्कुलपतिर्द्विजः। दक्षो धृतव्रतो धीमाञ्छास्त्रे चारण्यके गुरुः॥ 1-4-6 सत्यवादी शमपरस्तपस्वी नियतव्रतः। सर्वेषामेव नो मान्यः स तावत्प्रतिपाल्यताम्॥ 1-4-7 तस्मिन्नध्यासति गुरावासनं परमार्चितम्। ततो वक्ष्यसि यत्त्वां स प्रक्ष्यति द्विजसत्तम॥ 1-4-8 सौतिरुवाच एवमस्तु गुरौ तस्मिन्नुपविष्टे महात्मनि। तेन पृष्टः कथाः पुण्या वक्ष्यामि विविधाश्रयाः॥ 1-4-9 सोऽथ विप्रर्षभः सर्वं कृत्वा कार्यं यथाविधि। देवान्वाग्भिः पितॄनद्भिस्तर्पयित्वाऽऽजगाम ह॥ 1-4-10 यत्र ब्रह्मर्षयः सिद्धाः सुखासीना धृतव्रताः। यज्ञायतनमाश्रित्य सूतपुत्रपुरःसराः॥ 1-4-11 ऋत्विक्ष्वथ सदस्येषु स वै गृहपतिस्तदा। उपविष्टेषूपविष्टः शौनकोऽथाब्रवीदिदम्॥ 1-4-12 इति श्रीमहाभारते आदिपर्वणि पौलोमपर्वणि कथाप्रवेशो नाम चतुर्थोऽध्यायः॥ 4 Ugrashrava talks Naimisharanya sages Shaunak उग्रश्रवा नैमिषारण्य़ ऋषि संवाद प्रतीक्षा