Adiparva Adhyaya 21 (आदिपर्वणि अध्यायः २१)

From Dharmawiki
Revision as of 22:20, 3 September 2019 by Pṛthvī (talk | contribs) (new)
(diff) ← Older revision | Latest revision (diff) | Newer revision → (diff)
Jump to navigation Jump to search

सौतिरुवाच

ततो रजन्यां व्युष्टायां प्रभातेऽभ्युदिते रवौ।

कद्रूश्च विनता चैव भगिन्यौ ते तपोधन॥ 1-21-1

अमर्षिते सुसंरब्धे दास्ये कृतपणे तदा।

जग्मतुस्तुरगं द्रष्टुमुच्चैः श्रवसमन्तिकात्॥ 1-21-2

ददृशातेऽथ ते तत्र समुद्रं निधिमम्भसाम्।

महान्तमुदकागाधं क्षोभ्यमाणं महास्वनम्॥ 1-21-3

तिमिङ्गिलझषाकीर्णं मकरैरावृतं तथा।

सत्त्वैश्च बहुसाहस्रैर्नानारूपैः समावृतम्॥ 1-21-4

भीषणैर्विकृतैरन्यैर्घोरैर्जलचरैस्तथा।

उग्रैर्नित्यमनाधृष्यं कूर्मग्राहसमाकुलम्॥ 1-21-5

आकरं सर्वरत्नानामालयं वरुणस्य च।

नागानामालयं रम्यमुत्तमं सरितां पतिम्॥ 1-21-6

पातालज्वलनावासमसुराणां च बान्धवम्।

भयंकरं च सत्त्वानां पयसां निधिमर्णवम्॥ 1-21-7

शुभं दिव्यममर्त्यानाममृतस्याकरं परम्।

अप्रमेयमचिन्त्यं च सुपुण्यजलमद्भुतम्॥ 1-21-8

घोरं जलचरारावरौद्रं भैरवनिःस्वनम्।

गम्भीरावर्तकलिलं सर्वभूतभयंकरम्॥ 1-21-9

वेलादोलानिलचलं क्षोभोद्वेगसमुच्छ्रितम्।

वीचीहस्तैः प्रचलितैर्नृत्यन्तमिव सर्वतः॥ 1-21-10

चन्द्रवृद्धिक्षयवशादुद्वत्तोर्मिसमाकुलम्।

पाञ्चजन्यस्य जननं रत्नाकरमनुत्तमम्॥ 1-21-11

गां विन्दता भगवता गोविन्देनामितौजसा।

वराहरूपिणा चान्तर्विक्षोभितजलाविलम्॥ 1-21-12

ब्रह्मर्षिणा व्रतवता वर्षाणां शतमत्रिणा।

अनासादितगाधं च पातालतलमव्ययम्॥ 1-21-13

अध्यात्मयोगनिद्रां च पद्मनाभस्य सेवतः।

युगादिकालशयनं विष्णोरमिततेजसः॥ 1-21-14

वज्रपातनसंत्रस्तमैनाकस्य अभयप्रदम्।

डिम्बाहवार्दितानां च असुराणां परायणम्॥ 1-21-15

वडवामुखदीप्ताग्नेस्तोयहव्यप्रदं शिवम्।

अगाधपारं विस्तीर्णमप्रमेयं सरित्पतिम्॥ 1-21-16

महानदीभिर्वह्वीभिः स्पर्धयेव सहस्रशः।

अभिसार्यमाणमनिशं ददृशाते महार्णवम्।

आपूर्यमाणमत्यर्थं नृत्यमानमिवोर्मिभिः॥ 1-21-17

गम्भीरं तिमिमकर उग्रसंकुलं तं गर्जन्तं जलचररावरौद्रनादैः।

विस्तीर्णं ददृशतुरम्बरप्रकाशं तेऽगाधं निधिमुरुमम्भसामनन्तम्॥ 1-21-18

इत्येवं झषमकरोर्मिसङ्कुलं तं गम्भीरं विकसितमम्बरप्रकाशम्।

पातालज्वलनशिखाविदीपितान्तं पश्यन्त्यौ द्रुतमभिपेततुस्तदानीम्॥

इति श्रीमहाभारते आदिपर्वणि आस्तीकपर्वणि सौपर्णे एकविंशतितमोऽध्यायः॥ 21 ॥