Adiparva Adhyaya 21 (आदिपर्वणि अध्यायः २१)
Jump to navigation
Jump to search
सौतिरुवाच ततो रजन्यां व्युष्टायां प्रभातेऽभ्युदिते रवौ। कद्रूश्च विनता चैव भगिन्यौ ते तपोधन॥ 1-21-1 अमर्षिते सुसंरब्धे दास्ये कृतपणे तदा। जग्मतुस्तुरगं द्रष्टुमुच्चैः श्रवसमन्तिकात्॥ 1-21-2 ददृशातेऽथ ते तत्र समुद्रं निधिमम्भसाम्। महान्तमुदकागाधं क्षोभ्यमाणं महास्वनम्॥ 1-21-3 तिमिङ्गिलझषाकीर्णं मकरैरावृतं तथा। सत्त्वैश्च बहुसाहस्रैर्नानारूपैः समावृतम्॥ 1-21-4 भीषणैर्विकृतैरन्यैर्घोरैर्जलचरैस्तथा। उग्रैर्नित्यमनाधृष्यं कूर्मग्राहसमाकुलम्॥ 1-21-5 आकरं सर्वरत्नानामालयं वरुणस्य च। नागानामालयं रम्यमुत्तमं सरितां पतिम्॥ 1-21-6 पातालज्वलनावासमसुराणां च बान्धवम्। भयंकरं च सत्त्वानां पयसां निधिमर्णवम्॥ 1-21-7 शुभं दिव्यममर्त्यानाममृतस्याकरं परम्। अप्रमेयमचिन्त्यं च सुपुण्यजलमद्भुतम्॥ 1-21-8 घोरं जलचरारावरौद्रं भैरवनिःस्वनम्। गम्भीरावर्तकलिलं सर्वभूतभयंकरम्॥ 1-21-9 वेलादोलानिलचलं क्षोभोद्वेगसमुच्छ्रितम्। वीचीहस्तैः प्रचलितैर्नृत्यन्तमिव सर्वतः॥ 1-21-10 चन्द्रवृद्धिक्षयवशादुद्वत्तोर्मिसमाकुलम्। पाञ्चजन्यस्य जननं रत्नाकरमनुत्तमम्॥ 1-21-11 गां विन्दता भगवता गोविन्देनामितौजसा। वराहरूपिणा चान्तर्विक्षोभितजलाविलम्॥ 1-21-12 ब्रह्मर्षिणा व्रतवता वर्षाणां शतमत्रिणा। अनासादितगाधं च पातालतलमव्ययम्॥ 1-21-13 अध्यात्मयोगनिद्रां च पद्मनाभस्य सेवतः। युगादिकालशयनं विष्णोरमिततेजसः॥ 1-21-14 वज्रपातनसंत्रस्तमैनाकस्य अभयप्रदम्। डिम्बाहवार्दितानां च असुराणां परायणम्॥ 1-21-15 वडवामुखदीप्ताग्नेस्तोयहव्यप्रदं शिवम्। अगाधपारं विस्तीर्णमप्रमेयं सरित्पतिम्॥ 1-21-16 महानदीभिर्वह्वीभिः स्पर्धयेव सहस्रशः। अभिसार्यमाणमनिशं ददृशाते महार्णवम्। आपूर्यमाणमत्यर्थं नृत्यमानमिवोर्मिभिः॥ 1-21-17 गम्भीरं तिमिमकर उग्रसंकुलं तं गर्जन्तं जलचररावरौद्रनादैः। विस्तीर्णं ददृशतुरम्बरप्रकाशं तेऽगाधं निधिमुरुमम्भसामनन्तम्॥ 1-21-18 इत्येवं झषमकरोर्मिसङ्कुलं तं गम्भीरं विकसितमम्बरप्रकाशम्। पातालज्वलनशिखाविदीपितान्तं पश्यन्त्यौ द्रुतमभिपेततुस्तदानीम्॥ इति श्रीमहाभारते आदिपर्वणि आस्तीकपर्वणि सौपर्णे एकविंशतितमोऽध्यायः॥ 21 ॥ Description of ocean ocean description समुद्रका वर्णन समुद्र वर्णन Timi Fish Timingalo Fish Timi Timingalo तिमिंङ्गिलौं तिमिंङ्गिलौं मत्स्य तिमि तिमि मत्स्य मत्स्य