Adiparva Adhyaya 17 (आदिपर्वणि अध्यायः १७)

From Dharmawiki
Revision as of 15:06, 22 August 2019 by Pṛthvī (talk | contribs) (Created page with "सूत उवाच एतस्मिन्नेव काले तु भगिन्यौ ते तपोधन। अपश्यतां समायाते...")
(diff) ← Older revision | Latest revision (diff) | Newer revision → (diff)
Jump to navigation Jump to search

सूत उवाच

एतस्मिन्नेव काले तु भगिन्यौ ते तपोधन।

अपश्यतां समायाते उच्चैःश्रवसमन्तिकात्॥ 1-17-1

यं तं देवगणाः सर्वे हृष्टरूपमपूजयन्।

मथ्यमानेऽमृते जातमश्वरत्नमनुत्तमम्॥ 1-17-2

अमोघबलमश्वानामुत्तमं जगतां वरम्।

श्रीमन्तमजरं दिव्यं सर्वलक्षणपूजितम्॥ 1-17-3

शौनक उवाच

कथं तदमृतं देवैर्मथितं क्व च शंस मे।

यत्र जज्ञे महावीर्यः सोऽश्वराजो महाद्युतिः॥ 1-17-4

सौतिरुवाच

ज्वलन्तमचलं मेरुं तेजोराशिमनुत्तमम्।

आक्षिपन्तं प्रभां भानोः स्वशृङ्गेः काञ्चनोज्ज्वलैः॥ 1-17-5

कनकाभरणं चित्रं देवगन्धर्वसेवितम्।

अप्रमेयमनाधृष्यमधर्मबहुलैर्जनैः॥ 1-17-6

व्यालैरावारितं घोरैर्दिव्यौषधिविदीपितम्।

नाकमावृत्य तिष्ठन्तमुच्छ्रयेण महागिरिम्॥ 1-17-7

अगम्यं मनसाप्यन्यैर्नदीवृक्षसमन्वितम्।

नानापतगसङ्घैश्च नादितं सुमनोहरैः॥ 1-17-8

तस्य शृङ्गमुपारुह्य बहुरत्नाचितं शुभम्।

अनन्त कल्पमुद्विद्धं सुराः सर्वे महौजसः॥ 1-17-9

ते मन्त्रयितुमारब्धास्तत्रासीना दिवौकसः।

अमृताय समागम्य तपोनियमसंयुताः॥ 1-17-10

तत्र नारायणो देवो ब्रह्माणमिदमब्रवीत्।

चिन्तयत्सु सुरेष्वेवं मन्त्रयत्सु च सर्वशः॥ 1-17-11

देवैरसुरसङ्घैश्च मथ्यतां कलशोदधिः।

भविष्यत्यमृतं तत्र मथ्यमाने महोदधौ॥ 1-17-12

सर्वौषधीः समावाप्य सर्वरत्नानि चैव ह।

मन्थध्वमुदधिं देवा वेत्स्यध्वममृतं ततः॥ 1-17-13

इति श्रीमहाभारते आदिपर्वणि आस्तीकपर्वणि अमृतमन्थने सप्तदशोऽध्यायः॥ 17 ॥