Difference between revisions of "Adiparva Adhyaya 136 (आदिपर्वणि अध्यायः १३६)"

From Dharmawiki
Jump to navigation Jump to search
(Created page with "वैशम्पायन उवाच ततः स्रस्तोत्तरपटः सप्रस्वेदः सवेपथुः। विवेशात...")
 
(No difference)

Latest revision as of 15:21, 22 August 2019

वैशम्पायन उवाच

ततः स्रस्तोत्तरपटः सप्रस्वेदः सवेपथुः।

विवेशाति[धि]रथो रङ्गं यष्टिप्राणो ह्वयन्निव॥ 1-136-1

तमालोक्य धनुस्त्यक्त्वा पितृगौरवयन्त्रितः।

कर्णोऽभिषेकार्द्रशिराः शिरसा समवन्दत॥ 1-136-2

ततः पादाववच्छाद्य पटान्तेन ससम्भ्रमः।

पुत्रेति परिपूर्णार्थमब्रवीद्रथसारथिः॥ 1-136-3

परिष्वज्य च तस्याथ मूर्धानं स्नेहविक्लवः।

अङ्गराज्याभिषेकार्द्रमश्रुभिः सिषिचे पुनः॥ 1-136-4

तं दृष्ट्वा सूतपुत्रोऽयमिति सञ्चिन्त्य पाण्डवः।

भीमसेनस्तदा वाक्यमब्रवीत्प्रहसन्निव॥ 1-136-5

न त्वमर्हसि पार्थेन सूतपुत्र रणे वधम्।

कुलस्य सदृशस्तूर्णं प्रतोदो गृह्यतां त्वया॥ 1-136-6

अङ्गराज्यं च नार्हस्त्वमुपभोक्तुं नराधम।

श्वा हुताशसमीपस्थं पुरोडाशमिवाध्वरे॥ 1-136-7

एवमुक्तस्ततः कर्णः किञ्चित्प्रस्फुरिताधरः।

गगनस्थं विनिःश्वस्य दिवाकरमुदैक्षत॥ 1-136-8

ततो दुर्योधनः कोपादुत्पपात महाबलः।

भ्रातृपद्मवनात्तस्मान्मदोत्कट इव द्विपः॥ 1-136-9

सोऽब्रवीद्भीमकर्माणं भीमसेनमवस्थितम्।

वृकोदर न युक्तं ते वचनं वक्तुमीदृशम्॥ 1-136-10

क्षत्रियाणां बलं ज्येष्ठं योद्धव्यं क्षत्रबन्धुना।

शूराणां च नदीनां च दुर्विदाः प्रभवाः किल॥ 1-136-11

सलिलादुत्थितो वह्निर्येन व्याप्तं चराचरम्।

दधीचस्यास्थितो वज्रं कृतं दानवसूदनम्॥ 1-136-12

आग्नेयः कृत्तिकापुत्रो रौद्रो गाङ्गेय इत्यपि।

श्रूयते भगवान्देवः सर्वगुह्यमयो गुहः॥ 1-136-13

क्षत्रियेभ्यश्च ये जाता ब्राह्मणास्ते च ते श्रुताः।

विश्वामित्रप्रभृतयः प्राप्ता ब्रह्मत्वमव्ययम्॥ 1-136-14

आचार्यः कलशाज्जातो द्रोणः शस्त्रभृतां वरः।

गौतमस्यान्ववाये च शरस्तम्बाच्च गौतमः॥ 1-136-15

भवतां च यथा जन्म तदप्यागमितं मया।

सकुण्डलं सकवचं सर्वलक्षणलक्षितम्॥ 1-136-16

कथमादित्यसदृशं मृगी व्याघ्रं जनिष्यति।

(कथमादित्यसङ्काशं सूतोऽमुं जनयिष्यति।

एवं क्षत्रगुणैर्युक्तं शूरं समितिशोभनम्॥)

पृथिवीराज्यमर्होऽयं नाङ्गराज्यं नरेश्वरः॥ 1-136-17

अनेन बाहुवीर्येण मया चाज्ञानुवर्तिना।

यस्य वा मनुजस्येदं न क्षान्तं मद्विचेष्टितम्॥ 1-136-18

रथमारुह्य पद्भ्यां स विनामयतु कार्मुकम्।

ततः सर्वस्य रङ्गस्य हाहाकारो महानभूत्॥ 1-136-19

साधुवादानुसम्बद्धः सूर्यश्चास्तमुपागमत्।

ततो दुर्योधनः कर्णमालम्ब्याग्रकरे नृपः॥ 1-136-20

दीपिकाग्निकृतालोकस्तस्माद्रङ्गाद्विनिर्ययौ।

पाण्डवाश्च सहद्रोणाः सकृपाश्च विशाम्पते॥ 1-136-21

भीष्मेण सहिताः सर्वे ययुः स्वं स्वं निवेशनम्।

अर्जुनेति जनः कश्चित्कश्चित्कर्णेति भारत॥ 1-136-22

कश्चिद्दुर्योधनेत्येवं ब्रुवन्तः प्रस्थितास्तदा।

कुन्त्याश्च प्रत्यभिज्ञाय दिव्यलक्षणसूचितम्॥ 1-136-23

पुत्रमङ्गेश्वरं स्नेहाच्छन्ना प्रीतिरजायत।

दुर्योधनस्यापि तदा कर्णमासाद्य पार्थिव।

भयमर्जुनसञ्जातं क्षिप्रमन्तरधीयत॥ 1-136-24

स चापि वीरः कृतशस्त्रनिश्रमः परेण साम्नाभ्यवदत्सुयोधनम्।

युधिष्ठिरस्याप्यभवत्तदा मतिर्न कर्णतुल्योऽस्ति धनुर्धरः क्षितौ॥ 1-136-25

इति श्रीमहाभारते आदिपर्वणि सम्भवपर्वणि अस्त्रदर्शने षट्त्रिंशदधिकशततमोऽध्यायः॥ 136॥