Adiparva Adhyaya 22 (आदिपर्वणि अध्यायः २२)
Jump to navigation
Jump to search
सौतिरुवाच नागाश्च संविदं कृत्वा कर्तव्यमिति तद्वचः। निःस्नेहा वै दहेन्माता असम्प्राप्तमनोरथा॥ 1-22-1 प्रसन्ना मोक्षयेदस्मांस्तस्माच्छापाच्च भामिनी। कृष्णं पुच्छं करिष्यामस्तुरगस्य न संशयः॥ 1-22-2 तथा हि गत्वा ते तस्य पुच्छे वाला इव स्थिताः। एतस्मिन्नन्तरे ते तु सपत्न्यौ पणिते तदा॥ 1-22-3 ततस्ते पणितं कृत्वा भगिन्यौ द्विजसत्तम। जग्मतुः परया प्रीत्या परं पारं महोदधेः॥ 1-22-4 कद्रूश्च विनता चैव दाक्षायण्यौ विहायसा। आलोकयन्त्यावक्षोभ्यं समुद्रं निधिमम्भसाम्॥ 1-22-5 वायुनातीव सहसा क्षोभ्यमाणं महास्वनम्। तिमिङ्गिलसमाकीर्णं मकरैरावृतं तथा॥ 1-22-6 संयुतं बहुसाहस्रैः सत्त्वैर्नानाविधैरपि। घोरैर्घोरमनाधृष्यं गम्भीरमतिभैरवम्॥ 1-22-7 आकरं सर्वरत्नानामालयं वरुणस्य च। नागानामालयं चापि सुरम्यं सरितां पतिम्॥ 1-22-8 पातालज्वलनावासमसुराणां तथाऽऽलयम्। भयंकराणां सत्त्वानां पयसो निधिमव्ययम्॥ 1-22-9 शुभ्रं दिव्यममर्त्यानाममृतस्याकरं परम्। अप्रमेयमचिन्त्यं च सुपुण्यजलसम्मितम्॥ 1-22-10 महानदीभिर्बह्वीभिस्तत्र तत्र सहस्रशः। आपूर्यमाणमत्यर्थं नृत्यन्तमिव चोर्मिभिः॥ 1-22-11 इत्येवं तरलतरोर्मिसंकुलं तं गम्भीरं विकसितमम्बरप्रकाशम्। पातालज्वलनशिखाविदीपिताङ्गं गर्जन्तं द्रुतमभिजग्मतुस्ततस्ते॥ 1-22-12 इति श्रीमहाभारते आदिपर्वणि आस्तीकपर्वणि सौपर्णे समुद्रदर्शनं नाम द्वाविंशोऽध्यायः॥ 22 ॥ Ucchaishrava Tail of Ucchaishrava Tail Black Tail of Ucchaishrava Black snakes nagas उच्चैश्रवाकी पूँछ काली पूँछ काली पूँछ नागोद्वारा उच्चैश्रवाकी काली पूँछ नाग