Adiparva Adhyaya 28 (आदिपर्वणि अध्यायः २८)
Jump to navigation
Jump to search
सौतिरुवाच इत्युक्तो गरुडः सर्पैस्ततो मातरमब्रवीत्। गच्छाम्यमृतमाहर्तुं भक्ष्यमिच्छामि वेदितुम्॥ 1-28-1 विनतोवाच समुद्रकुक्षावेकान्ते निषादालयमुत्तमम्। निषादानां सहस्राणि तान्भुक्त्वामृतमानय॥ 1-28-2 न च ते ब्राह्मणं हन्तुं कार्या बुद्धिः कथञ्चन। अवध्यः सर्वभूतानां ब्राह्मणो ह्यनलोपमः॥ 1-28-3 अग्निरर्को विषं शस्त्रं विप्रो भवति कोपितः। गुरुर्हि सर्वभूतानां ब्राह्मणः परिकीर्तितः॥ 1-28-4 एवमादिस्वरूपैस्तु सतां वै ब्राह्मणो मतः। स ते तात न हन्तव्यः संक्रुद्धेनापि सर्वथा॥ 1-28-5 ब्राह्मणानामभिद्रोहो न कर्तव्यः कथञ्चन। न ह्येवमग्निर्नादित्यो भस्म कुर्यात्तथानघ॥ 1-28-6 यथा कुर्यादभिक्रुद्धो ब्राह्मणः संशितव्रतः। तदेतैर्विविधैर्लिङ्गैस्त्वं विद्यास्तं द्विजोत्तमम्। भूतानामग्रभूर्विप्रो वर्णश्रेष्ठः पिता गुरुः॥ 1-28-7 गरुड उवाच किंरूपो ब्राह्मणो मातः किंशीलः किंपराक्रमः। किंस्विदग्निनिभो भाति किंस्वित्सौम्यप्रदर्शनः॥ 1-28-8 यथाहमभिजानीयां ब्राह्मणं लक्षणैः शुभैः। तन्मे कारणतो मातः पृच्छतो वक्तुमर्हसि॥ 1-28-9 विनतोवाच यस्ते कण्ठमनुप्राप्तो निगीर्णं बडिशं यथा। दहेदङ्गारवत्पुत्रं तं विद्या ब्राह्मणर्षभम्॥ 1-28-10 विप्रस्त्वया न हन्तव्यः संक्रुद्धेनापि सर्वदा। प्रोवाच चैनं विनता पुत्रहार्दादिदं वचः॥ 1-28-11 जठरे न च जीर्येद्यस्तं जानीहि द्विजोत्तमम्। पुनः प्रोवाच विनता पुत्रहार्दादिदं वचः॥ 1-28-12 जानन्त्यप्यतुलं वीर्यमाशीर्वादपरायणा। प्रीता परमदुःखार्ता नागैर्विप्रकृता सती॥ 1-28-13 विनतोवाच पक्षौ ते मारुतः पातु चन्द्रसूर्यौ च पृष्ठतः। शिरश्च पातु वह्निस्ते वसवः सर्वतस्तनुम्॥ 1-28-14 अहं च ते सदा पुत्र शान्तिस्वस्तिपरायणा। इहासीना भविष्यामि स्वस्तिकारे रता सदा। अरिष्टं व्रज पन्थानं पुत्र कार्यार्थसिद्धये॥ 1-28-15 सौतिरुवाच ततः स मातुर्वचनं निशम्य वितत्य पक्षौ नभ उत्पपात। ततो निषादान्बलवानुपागतो बुभुक्षितः काल इवान्तकोऽपरः॥ 1-28-17 स तान्निषादानुपसंहरंस्तदा रजः समुद्धूय नभःस्पृशं महत्। समुद्रकुक्षौ च विशोषयन्पयः समीपजान्भूधरजान्विचालयन्॥ 1-28-18 ततः स चक्रे महदाननं तदा निषादमार्गं प्रतिरुध्य पक्षिराट्। ततो निषादास्त्वरिताः प्रवव्रजुः यतो मुखं तस्य भुजङ्गभोजिनः॥ 1-28-19 तदाननं विवृतमतिप्रमाणवत्समभ्ययुर्गगनमिवार्दिताः खगाः। सहस्रशः पवनरजोविमोहिता यथानिलप्रचलितपादपे वने॥ 1-28-20 ततः खगो वदनममित्रतापनः समाहरत्परिचपलो महाबलः। निषूदयन्बहुविधमत्स्यजीविनो बुभुक्षितो गगनचरेश्वरस्तदा॥ 1-28-21 इति श्रीमहाभारते आदिपर्वणि आस्तीकपर्वणि सौपर्णे अष्टाविंशोऽध्यायः॥ 28 ॥ Garuda Amrut Nectar outcaste devour devouring of outcaste गरुड अमृत निषाद भक्षण निषादोका भक्षण जिवहिंसक Brahman angry brahman angry ब्राह्मण कुपित ब्राह्मण