Adiparva Adhyaya 16 (आदिपर्वणि अध्यायः १६)
Jump to navigation
Jump to search
शौनक उवाच सौते त्वं कथयस्वेमां विस्तरेण कथां पुनः। आस्तीकस्य कवेः साधोः शुश्रुषा परमा हि नः॥ 1-16-1 मधुरं कथ्यते सौम्य श्लक्ष्णाक्षरपदं त्वया। प्रीयामहे भृशं तात पितेवेदं प्रभाषसे॥ 1-16-2 अस्मच्छुश्रूषणे नित्यं पिता हि निरतस्तव। आचष्टैतद्यथाख्यानं पिता ते त्वं तथा वद॥ 1-16-3 सौतिरुवाच आयुष्मन्निदमाख्यानमास्तीकं कथयामि ते। यथाश्रुतं कथयतः सकाशाद्वै पितुर्मया॥ 1-16-4 पुरा देवयुगे ब्रह्मन्प्रजापतिसुते शुभे। आस्तां भगिन्यौ रूपेण समुपेतेऽद्भुतेऽनघ॥ 1-16-5 ते भार्ये कश्यपस्यास्तां कद्रूश्च विनता च ह। प्रादात्ताभ्यां वरं प्रीतः प्रजापतिसमः पतिः॥ 1-16-6 कश्यपो धर्मपत्नीभ्यां मुदा परमया युतः। वरातिसर्गं श्रुत्वैवं कश्यपाद् उत्तमं च ते॥ 1-16-7 हर्षादप्रतिमां प्रीतिं प्रापतुः स्म वरस्त्रियौ। वव्रे कद्रूः सुतान्नागान्सहस्रं तुल्यवर्चसः॥ 1-16-8 द्वौ पुत्रौ विनता वव्रे कद्रूपुत्राधिकौ बले। तेजसा वपुषा चैव विक्रमेणाधिकौ च तौ॥ 1-16-9 तस्यै भर्ता वरं प्रादादत्यर्थं पुत्रमीप्सितम्। एवमस्त्विति तं चाह कश्यपं विनता तदा॥ 1-16-10 यथावत्प्रार्थितं लब्ध्वा वरं तुष्टाभवत्तदा। कृतकृत्या तु विनता लब्ध्वा वीर्याधिकौ सुतौ॥ 1-16-11 कद्रूश्च लब्ध्वा पुत्राणां सहस्रं तुल्यवर्चसाम्। धार्यौ प्रयत्नतो गर्भावित्युक्त्वा स महातपाः। ते भार्ये वरसंतुष्टे कश्यपो वनमाविशत्॥ 1-16-12 सौतिरुवाच कालेन महता कद्रूरण्डानां दशतीर्दश। जनयामास विप्रेन्द्र द्वे चाण्डे विनता तदा॥ 1-16-13 तयोरण्डानि निदधुः प्रहृष्टाः परिचारिकाः। सोपस्वेदेषु भाण्डेषु पञ्चवर्षशतानि च॥ 1-16-14 ततः पञ्चशते काले कद्रूपुत्रा विनिःसृताः। अण्डाभ्यां विनतायास्तु मिथुनं न व्यदृश्यत॥ 1-16-15 ततः पुत्रार्थिनी देवी व्रीडिता च तपस्विनी। अण्डं बिभेद विनता तत्र पुत्रमपश्यत॥ 1-16-16 पूर्वार्धकायसम्पन्नमितरेणाप्रकाशता। स पुत्रः क्रोधसंरब्धः शशापैनामिति श्रुतिः॥ 1-16-17 योऽहमेवं कृतो मातस्त्वया लोभपरीतया। शरीरेणासमग्रेण तस्माद्दासी भविष्यसि॥ 1-16-18 पञ्चवर्षशतान्यस्या यया विस्पर्धसे सह। एष च त्वां सुतो मातर्दासीत्वान्मोचयिष्यति॥ 1-16-19 यद्येनमपि मातस्त्वं मामिवाण्डविभेदनात्। न करिष्यस्यनङ्गं वा व्यङ्गं वापि तपस्विनम्॥ 1-16-20 प्रतिपालयितव्यस्ते जन्मकालोऽस्य धीरया। विशिष्टं बलमीप्सन्त्या पञ्चवर्षशतात्परः॥ 1-16-21 एवं शप्त्वा ततः पुत्रो विनतामन्तरिक्षगः। अरुणो दृश्यते ब्रह्मन्प्रभातसमये सदा॥ 1-16-22 आदित्यरथमध्यास्ते सारथ्यं समकल्पयत्। गरुडोऽपि यथाकालं जज्ञे पन्नगभोजनः॥ 1-16-23 स जातमात्रो विनतां परित्यज्य खमाविशत्। आदास्यन्नात्मनो भोज्यमन्नं विहितमस्य यत्। विधात्रा भृगुशार्दूल क्षुधितः पतगेश्वरः॥ 1-16-24 इति श्रीमहाभारते आदिपर्वणि आस्तीकपर्वणि सर्पादीनामुत्पत्तौ षोडशोऽध्यायः॥ 16 ॥ Kadru Arun Birth of Arun Birth Birth of Garuda Garuda अरुण अरुणका जन्म गरुड गरुडका जन्म