Vanaparva Adhyaya 8 (वनपर्वणि अध्यायः ८)

From Dharmawiki
Jump to navigation Jump to search

व्यास उवाच

धृतराष्ट्र महाप्राज्ञ निबोध वचनं मम।
वक्ष्यामि त्वां कौरवाणां सर्वेषां हितमुत्तमम्॥ 3-8-1
न मे प्रियं महाबाहो यद्गताः पाण्डवा वनम्।
निकृत्या निकृताश्चैव दुर्योधनपुरोगमैः॥ 3-8-2
ते स्मरन्तः परिक्लेशान्वर्षे पूर्णे त्रयोदशे।
विमोक्ष्यन्ति विषं क्रुद्धाः कौरवेयेषु भारत॥ 3-8-3
Maharishi Veda Vyasa advises Dhrtarashatra
तदयं किं नु पापात्मा तव पुत्र सुमन्दधीः।
पाण्डवान्नित्यसंक्रुद्धो राज्यहेतोर्जिघांसति॥ 3-8-4
वार्यतां साध्वयं मूढः शमं गच्छतु ते सुतः।
वनस्थांस्तानयं हन्तुमिच्छन्प्राणान्विमोक्ष्यति॥ 3-8-5
Duryodhana
यथा हि विदुरः प्राज्ञो यथा भीष्मो यथा वयम्। 
यथा कृपश्च द्रोणश्च तथा साधुर्भवानपि॥ 3-8-6
Saintly people

विग्रहो हि महाप्राज्ञ स्वजनेन विगर्हितः।
अधर्म्यमयशस्यं च मा राजन्प्रतिपद्यताम्॥ 3-8-7
समीक्षा यादृशी ह्यस्य पाण्डवान्प्रति भारत।
उपेक्ष्यमाणा सा राजन्महान्तमनयं स्पृशेत्॥ 3-8-8
Conflict

अथवायं सुमन्दात्मा वनं गच्छतु ते सुतः।
पाण्डवैः सहितो राजन्नेह एवासहायवान्॥ 3-8-9
ततः संसर्गजः स्नेहः पुत्रस्य तव पाण्डवैः।
यदि स्यात्कृतकार्योऽद्य भवेस्त्वं मनुजेश्वर॥ 3-8-10
Association
अथवा जायमानस्य यच्छीलमनुजायते।
श्रूयते तन्महाराज नामृतस्यापसर्पति॥ 3-8-11
कथं वा मन्यते भीष्मो द्रोणोऽथ विदुरोऽपि वा।
भवान्वात्र क्षमं कार्यं पुरा वोऽर्थोऽभिवर्धते॥ 3-8-12
Svabhava at birth

इति श्रीमहाभारते वनपर्वणि अरण्यपर्वणि व्यासवाक्ये अष्टमोऽध्यायः॥ 8 ॥