9,648 bytes added
, 15:30, 22 August 2019
वैशम्पायन उवाच
ततः सुबलपुत्रस्तु राजा दुर्योधनश्च ह।
दुःशासनश्च कर्णश्च दुष्टं मन्त्रममन्त्रयन्॥ 1-140-1
ते कौरव्यमनुज्ञाप्य धृतराष्ट्रं नराधिपम्।
दहने तु सपुत्रायाः कुन्त्या बुद्धिमकारयन्॥ 1-140-2
तेषामिङ्गितभावज्ञो विदुरस्तत्त्वदर्शिवान्।
आकारेण च तं मन्त्रं बुबुधे दुष्टचेतसाम्॥ 1-140-3
ततो विदितवेद्यात्मा पाण्डवानां हिते रतः।
पलायने मतिं चक्रे कुन्त्याः पुत्रैः सहानघः॥ 1-140-4
ततो वातसहां नावं यन्त्रयुक्तां पताकिनीम्।
ऊर्मिक्षमां दृढं कृत्वा कुन्तीमिदमुवाच ह॥ 1-140-5
एष जातः कुलस्यास्य कीर्तिवंशप्रणाशनः।
धृतराष्ट्रः परीतात्मा धर्मं त्यजति शाश्वतम्॥ 1-140-6
इयं वारिपथे युक्ता तरङ्गपवनक्षमा।
नौर्यया मृत्युपाशात्त्वं सपुत्रा मोक्ष्यसे शुभे॥ 1-140-7
तच्छ्रुत्वा व्यथिता कुन्ती पुत्रैः सह यशस्विनी।
नावमारुह्य गङ्गायां प्रययौ भरतर्षभ॥ 1-140-8
ततो विदुरवाक्येन नावं विक्षिप्य पाण्डवाः।
धनं चादाय तैर्दत्तमरिष्टं प्राविशन्वनम्॥ 1-140-9
निषादी पञ्चपुत्रा तु जातुषे तत्र वेश्मनि।
कारणाभ्यागता दग्धा सह पुत्रैरनागसा॥ 1-140-10
स च म्लेच्छाधमः पापो दग्धस्तत्र पुरोचनः।
वञ्चिताश्च दुरात्मानो धार्तराष्ट्राः सहानुगाः॥ 1-140-11
अविज्ञाता महात्मानो जनानामक्षतास्तथा।
जनन्या सह कौन्तेया मुक्ता विदुरमन्त्रिताः॥ 1-140-12
ततस्तस्मिन्पुरे लोका नगरे वारणावते।
दृष्ट्वा जतुगृहं दग्धमन्वशोचन्त दुःखिताः॥ 1-140-13
राज्ञे च प्रेषयामासुर्यथावृत्तं निवेदितुम्।
संवृत्तस्ते महान्कामः पाण्डवान्दग्धवानसि॥ 1-140-14
सकामो भव कौरव्य भुङ्क्ष्व राज्यं सपुत्रकः।
तच्छ्रुत्वा धृतराष्ट्रस्तु सह पुत्रेण शोचयन्॥ 1-140-15
प्रेतकार्याणि च तथा चकार सह बान्धवैः।
पाण्डवानां तथा क्षत्ता भीष्मश्च कुरुसत्तमः॥ 1-140-16
जनमेजय उवाच
पुनर्विस्तरशः श्रोतुमिच्छामि द्विजसत्तम।
दाहं जतुगृहस्यैव पाण्डवानां च मोक्षणम्॥ 1-140-17
सुनृशंसमिदं कर्म तेषां क्रूरोपसंहितम्।
कीर्तयस्व यथावृत्तं परं कौतूहलं मम॥ 1-140-18
वैशम्पायन उवाच
शृणु विस्तरशो राजन्वदतो मे परन्तप।
दाहं जतुगृहस्यैतत्पाण्डवानां च मोक्षणम्॥ 1-140-19
प्राणाधिकं भीमसेनं कृतविद्यं धनञ्जयम्।
दुर्योधनो लक्षयित्वा पर्यतप्यत दुर्मनाः॥ 1-140-20
ततो वैकर्तनः कर्णः शकुनिश्चापि सौबलः।
अनेकैरभ्युपायैस्ते जिघां सन्ति स्म पाण्डवान्॥ 1-140-21
पाण्डवा अपि तत्सर्वं प्रतिचक्रुर्यथागतम्।
उद्भावनमकुर्वन्तो विदुरस्य मते स्थिताः॥ 1-140-22
गुणैः समुदितान्दृष्ट्वा पौराः पाण्डुसुतांस्तदा।
कथयाञ्चक्रिरे तेषां गुणान्संसत्सु भारत॥ 1-140-23
राज्यप्राप्तिं च सम्प्राप्तं ज्येष्ठं पाण्डुसुतं तदा।
कथयन्ति स्म सम्भूय चत्वरेषु सभासु च॥ 1-140-24
प्रज्ञाचक्षुरचक्षुष्ट्वाद्धृतराष्ट्रो जनेश्वरः।
राज्यं न प्राप्तवान्पूर्वं स कथं नृपतिर्भवेत्॥ 1-140-25
तथा शान्तनवो भीष्मः सत्यसन्धो महाव्रतः।
प्रत्याख्याय पुरा राज्यं न स जातु ग्रहीष्यति॥ 1-140-26
ते वयं पाण्डवज्येष्ठं तरुणं यु[वृ]द्धशीलिनम्।
अभिषिञ्चाम साध्वद्य सत्यकारुण्यवेदिनम्॥ 1-140-27
स हि भीष्मं शान्तनवं धृतराष्ट्रं च धर्मवित्।
सपुत्रं विविधैर्भोगैर्योजयिष्यति पूजयन्॥ 1-140-28
तेषां दुर्योधनः श्रुत्वा तानि वाक्यानि जल्पताम्।
युधिष्ठिरानुरक्तानां पर्यतप्यत दुर्मतिः॥ 1-140-29
स तप्यमानो दुष्टात्मा तेषां वाचो न चक्षमे।
ईर्ष्यया चापि सन्तप्तो धृतराष्ट्रमुपागमत्॥ 1-140-30
ततो विरहितं दृष्ट्वा पितरं प्रतिपूज्य सः।
पौरानुरागसन्तप्तः पश्चादिदमभाषत॥ 1-140-31
दुर्योधन उवाच
श्रुता मे जल्पतां तात पौराणामशिवा गिरः।
त्वामनादृत्य भीष्मं च पतिमिच्छन्ति पाण्डवम्॥ 1-140-32
मतमेतच्च भीष्मस्य न स राज्यं बुभुक्षति।
अस्माकं तु परां पीडां चिकीर्षन्ति पुरे जनाः॥ 1-140-33
पितृतः प्राप्तवान्राज्यं पाण्डुरात्मगुणैः पुरा।
त्वमन्धगुणसंयोगात्प्राप्तं राज्यं न लब्धवान्॥ 1-140-34
स एष पाण्डोर्दायाद्यं यदि प्राप्नोति पाण्डवः।
तस्य पुत्रो ध्रुवं प्राप्तस्तस्य तस्यापि चापरः॥ 1-140-35
ते वयं राजवंशेन हीनाः सह सुतैरपि।
अवज्ञाता भविष्यामो लोकस्य जगतीपते॥ 1-140-36
सततं निरयं प्राप्ताः परपिण्डोपजीविनः।
न भवेम यथा राजंस्तथा नीतिर्विधीयताम्॥ 1-140-37
यदि त्वं हि पुरा राजन्निदं राज्यमवाप्तवान्।
ध्रुवं प्राप्स्याम च वयं राज्यमप्यवशे जने॥ 1-140-38
इति श्रीमहाभारते आदिपर्वणि जतुगृहपर्वणि दुर्योधनेर्ष्यायां चत्वारिंशदधिकशततमोऽध्यायः॥ 140 ॥