Changes

Jump to navigation Jump to search
creating Saptarshi page
Saptarshis ()

'''पुलस्त्यः''', पुं, सप्तर्षीणां मध्ये ऋषिविशेषः । इति शब्दरत्नावली ॥ स ब्रह्मणः कर्णाभ्यां जातः ।
: तस्य भार्य्या हविर्भूः कर्द्दमकन्या । तस्य पुत्त्रः अगस्त्यः विश्रवाश्च । इति श्रीभागवतम् ॥ यथा, हरिवंशे । ७ । ८ ।
: “मरीचिरत्रिर्भगवानङ्गिराः पुलहः क्रतुः ।
: पुलस्त्यश्च वशिष्ठश्च सप्तैते ब्रह्मणः सुताः ॥”
'''पुलहः''', पुं, सप्तर्षीणां मध्ये ऋषिविशेषः । इति शब्दरत्नावली ॥ स च ब्रह्मणो नाभितो जातः तस्य भार्य्या कर्द्दममुनिकन्या गतिः । तस्य पुत्त्राः कर्म्मश्रेष्ठः यवीयान् सहिष्णुश्च । इति
: श्रीभागवतम् ॥

Navigation menu