Balakanda Sarga 1 (बालकाण्डे प्रथमसर्गः)

From Dharmawiki
Jump to navigation Jump to search

Purushottama lakshana, Virtues of a Person

तपस्स्वाध्यायनिरतं तपस्वी वाग्विदां वरम् ।
नारदं परिपप्रच्छ वाल्मीकिर्मुनिपुङ्गवम् ।।1.1.1।।
कोन्वस्मिन्साम्प्रतं लोके गुणवान्कश्च वीर्यवान् ।
धर्मज्ञश्च कृतज्ञश्च सत्यवाक्यो दृढव्रत:।।1.1.2।।
चारित्रेण च को युक्तस्सर्वभूतेषु को हित: ।
विद्वान्क: कस्समर्थश्च कश्चैकप्रियदर्शन: ।।1.1.3।।
आत्मवान्को जितक्रोधो द्युतिमान्कोऽनसूयक: । 
 कस्य बिभ्यति देवाश्च जातरोषस्य संयुगे ।।1.1.4।।
एतदिच्छाम्यहं श्रोतुं परं कौतूहलं हि मे ।
महर्षे त्वं समर्थोऽसि ज्ञातुमेवंविधं नरम् ।।1.1.5।।
श्रुत्वा चैतत्ित्रलोकज्ञो वाल्मीकेर्नारदो वच: ।
श्रूयतामिति चामन्त्त्र्य प्रहृष्टो वाक्यमब्रवीत् ।।1.1.6।।
बहवो दुर्लभाश्चैव ये त्वया कीर्तिता गुणा: ।
मुने वक्ष्याम्यहं बुद्ध्वा तैर्युक्तश्श्रूयतान्नर: ।।1.1.7।। 
Virtues of a Person Purushottama lakshana 

Rama's Virtues, Physical Appearance of Rama

इक्ष्वाकुवंशप्रभवो रामो नाम जनैश्श्रुत: ।
नियतात्मा महावीर्यो द्युतिमान्धृतिमान् वशी ।।1.1.8।। 
बुद्धिमान्नीतिमान्वाग्मी श्रीमान् शत्रुनिबर्हण: ।
विपुलांसो महाबाहु: कम्बुग्रीवो महाहनु: ।।1.1.9।।
महोरस्को महेष्वासो गूढजत्रुररिन्दमः ।
आजानुबाहुस्सुशिरास्सुललाटस्सुविक्रमः ।।1.1.10।।
समस्समविभक्ताङ्गस्स्निग्धवर्ण: प्रतापवान् । 
पीनवक्षा विशालाक्षो लक्ष्मीवान् शुभलक्षणः ।। 1.1.11।।
Rama's Virtues Physical Appearance of Rama

Rama's Virtues, Gunas of Rama

धर्मज्ञस्सत्यसन्धश्च प्रजानां च हिते रतः ।
यशस्वी ज्ञानसम्पन्नश्शुचिर्वश्यस्समाधिमान् ।।1.1.12।।
प्रजापतिसमश्श्रीमान् धाता रिपुनिषूदनः ।
रक्षिता जीवलोकस्य धर्मस्य परिरक्षिता ।।1.1.13।।
रक्षिता स्वस्य धर्मस्य स्वजनस्य च रक्षिता ।
वेदवेदाङ्गतत्त्वज्ञो धनुर्वेदे च निष्ठितः ।।1.1.14।।
सर्वशास्त्रार्थतत्त्वज्ञस्स्मृतिमान्प्रतिभानवान् ।
सर्वलोकप्रियस्साधुरदीनात्मा विचक्षणः ।।1.1.15।।
सर्वदाभिगतस्सद्भिस्समुद्र इव सिन्धुभिः ।
आर्यस्सर्वसमश्चैव सदैकप्रियदर्शनः ।।1.1.16।।
स च सर्वगुणोपेत: कौसल्यानन्दवर्धन: ।
समुद्र इव गाम्भीर्ये धैर्येण हिमवानिव ।।1.1.17।।
विष्णुना सदृशो वीर्ये सोमवत्प्रियदर्शन: ।
कालाग्निसदृश: क्रोधे क्षमया पृथिवीसम: ।।1.1.18।।
धनदेन समस्त्यागे सत्ये धर्म इवापर: ।
तमेवं गुणसम्पन्नं रामं सत्यपराक्रमम् ।।1.1.19।।
Rama's Virtues Gunas of Rama 

ज्येष्ठं श्रेष्ठगुणैर्युक्तं प्रियं दशरथस्सुतम् ।

प्रकृतीनां हितैर्युक्तं प्रकृतिप्रियकाम्यया ।।1.1.20।।

यौवराज्येन संयोक्तुमैच्छत्प्रीत्या महीपति: ।

तस्याभिषेकसम्भारान्दृष्ट्वा भार्याऽथ कैकयी ।।1.1.21।।

पूर्वं दत्तवरा देवी वरमेनमयाचत ।

विवासनं च रामस्य भरतस्याभिषेचनम् ।।1.1.22।।

स सत्यवचनाद्राजा धर्मपाशेन संयत: ।

विवासयामास सुतं रामं दशरथ: प्रियम् ।।1.1.23।।