Bahuvrihi Samasa (बहुव्रीहिसमासः)

From Dharmawiki
Jump to navigation Jump to search

अनेकम् अन्यपदार्थे (2-2-24)

The समास happenning between सुबन्त-पदऽ where the meaning of the समस्तपद is other than the meaning of the participating सुबन्तऽ is called बहुब्रीहि-समास.

Eg :

पीतम् अम्बरं यस्य (विष्णोः) सः (विष्णुः) => पीताम्बरः (विष्णुः)

चक्रं पाणौ यस्य (कृष्णस्य) सः (कृष्णः) => चक्रपाणिः (कृष्णः)

० बहुव्रीहि-समास is prescribed in the meanings of all विभक्तिऽ other than the meaning of प्रथमा-विभक्ति.

Eg :

प्राप्तम् उदकं यं ग्रामं सः ग्रामः => प्राप्तोदकः

कृतः अभ्यासः येन सः => कृताभ्यासः

उपहृतः पशुः यस्मै रुद्राय सः रुद्रः => उपहृतपशुः

उद्धृतः ओदनः यस्मात् पात्रात् तत् पात्रम् => उद्धृतोदनम्

वीराः पुरुषाः यस्मिन् देशे सः देशः => वीरपुरुषः[1]

अभ्यास I

1.गङ्गा भार्या यस्य सः                 1. धृतानि पुष्पाणि यया सा

2.                                             2.

3.                                             3.

4. गङ्गाभार्यः (शन्तनुः)                      4. धृतपुष्पा (लता)

1.गलितानि पुष्पाणि यस्याः सा     1. उद्धतः ओदनः यस्याः सा

2.                                             2.

3.                                             3.

4. गलितपुष्पा (लता)                       4. उद्धतौदना (स्थाली)

अभ्यास II

1.दृढा भक्तिः यस्य सः    1. पतितपर्णः

2.                                 2.

3.                                 3.

4. दृढाभक्तिः (सेवकः)          4. पतितानि पर्णानि यस्मात् सः वृक्षः

1.अधीतकाव्या              1. तपोधनः

2.                                 2.

3.                                 3.

4. अधीतं काव्यं यया सा बालिका    4. तपः धनं यस्य सः

अभ्यास III

1. बहुब्रीहिः                   1. विद्यास्वम्

2.                                 2.

3.                                 3.

4. बहवः व्रीहयः यस्य सः पुरुषः  4. विद्या स्वम् यस्मात् तत् अध्ययनम्

० We observed that in the previous examples, the words that are participating in the सामास are in समानाधिकरण to each other. That is the most common बहुब्रीहि, hence called सामान्यबहुब्रीहिः

० Rarely, व्यधिकरण-सुबन्त words also can have बहुब्रीहि-समास, they are called व्यधिकरण-बहुव्रीहिः

Eg :

गदा पाणौ यस्य नारायणस्य सः नारायणः => गदापाणिः

भाले चन्द्रः यस्य गणेशः सः गणेशः =>भालचन्द्रः[1]

अभ्यास I

1.गडुः कण्ठे यस्य सः     1. पद्मं नाभौ यस्य सः

2.                                 2.

3.                                 3.

4. गडुकण्ठः (पुरुषः)            4. पद्मनाभः (विष्णुः)

1.चन्द्रमौलिः                  1. शस्त्रपाणयः

2.                                 2.

3.                                 3.

4. चन्द्रः मौलौ यस्य रुद्रस्य सः रुद्रः  4. शस्त्रं पाणौ येषां सैनिकानां ते

Bahuvrihi v/s Tatpurusha

Recognizing Bahuvriihi vs Tatpurusha samaasa

• Consider

• "विष्णुः(१) पीताम्बरे(२) धारयति” (Vishnu wears a yellow robe)

• पीतम्(१) अम्बरं(१) तद्(२) => पीताम्बरम्(२) => विशेषणपूर्वपद-कर्मधारय-तत्पुरुष-समासः।

• पीताम्बर here refers to अम्बर itself (उत्तरपदार्थप्रधान) - it is not in समानाधिकरण with विष्णु

• The लिङ्ग is नियतलिङ्ग and that of अम्बर (नपुं.)

• Another example: "विष्णोः(६) पीताम्बर(१) शोभनम् (अस्ति)" (Vishnu’s yellow robe is beautiful)

• Versus...

• "विष्णुः(१) पीताम्बरः(१) (अस्ति)" (Vishnu is one who wears a yellow robe)

• पीतम् (१) अम्बरं (१) यस्य (६) सः(१) => पीताम्बरः(१) => बहुव्रीहि-समासः।

• पीताम्बर here refers to neither पीत nor अम्बर but विष्णु (अन्यपदार्थप्रधान) - and it is in समानाधिकरण with विष्णु

• The लिङ्ग is विशेष्यनिघ्र and that of विष्णु due to समानाधिकरण

• Another example: "विष्णवे(४) पीताम्बराय(४) नमः(१) (अस्तु)" (Greetings to Vishnu who wears a yellow robe)[2]

सङ्क्षेपरामायणतः उदाहरणानि ॥ Examples from Sankshepa Ramayana

Example 1.

इक्ष्वाकुवंशप्रभवो  रामो नाम जनैः श्रुतः ।

नियतात्मा महावीर्यो द्युतिमान्धृतिमान्वशी ||८||

=> पदच्छेदः

इक्ष्वाकुवंशप्रभवः , रामः, नाम, जनैः, श्रुतः,

नियतात्मा , महावीर्यः , द्युतिमान, धृतिमान्, वशी।

=> बहुव्रीहिसमासाः

इक्ष्वाकुवंशप्रभवः, नियतात्मा, महावीर्यः -

विग्रहवाक्यम् किम्? प्रकार: कः? (Expansion/type?)

Solution 1.

समस्तपदम् = इक्ष्वाकुवंशप्रभवः (पुं. १,१) [=रामः]। प्रातिपदिके = इक्ष्वाकु, वंश, प्रभव।

विग्रहवाक्यम् = इक्ष्वाकोः वंशः इक्ष्वाकुवंशः (षष्ठीतत्पुरुषः)।

इक्ष्वाकुवंशः प्रभवः यस्य सः इक्ष्वाकुवंशप्रभवः (बहुव्रीहिः)।

समस्तपदम् = नियतात्मा(पुं. १,१) [=रामः]। प्रातिपदिके = नियत, आत्मा।

विग्रहवाक्यम् = नियतः आत्मा यस्य सः नियतात्मा (बहुब्रीहिः)।

समस्तपदम् = महावीर्यः (पुं. १,१) [=रामः]। प्रातिपदिके = महद्, वीर्य।

विग्रहवाक्यम् = महद् वीर्यं यस्य सः महावीर्यः (बहुव्रीहिः)।

Example 2.

आर्यः सर्वसमश्चैव सदैकप्रियदर्शनः।

स च सर्वगुणोपेतः कौसल्यानन्दवर्धनः ।।१६।।

=> पदच्छेदः

आर्यः, सर्वसमः, च, एव, सदा, एकप्रियदर्शनः ,

स, च, सर्वगुणोपेतः, कौसल्यानन्दवर्धनः।

=> बहुव्रीहिसमासाः

एकप्रियदर्शनः -

विग्रहवाक्यम् किम्? प्रकारः क? (Expansion/type?)

Solution 2.

समस्तपदम् = एकप्रियदर्शनः (पुं. १, १) [=रामः]।

प्रातिपदिके = एक, प्रिय, दर्शन।

विग्रहवाक्यम् = एकं (केवलं) प्रियम् एकप्रियम् (कर्मधारयः)

एकप्रियं दर्शनं यस्य सः एकप्रियदर्शनः (बहुव्रीहिः)।

He whose sight is only pleasing.

अथवा

प्रियं दर्शनं यस्य सः प्रियदर्शनः (बहुव्रीहिः)।

एकः (अनन्यः) प्रियदर्शनः एकप्रियदर्शनः (कर्मधारयः)।

Unique one whose sight is pleasing.

Example 3.

बुद्धिमान्नीतिमान्वाग्मी श्रीमाञ्छत्रुनिबर्हणः।

विपुलांसो महाबाहु: कंबुग्रीवो महाहनुः ।।९।।

=> पदच्छेदः

बुद्धिमान्, नीतिमान्, वाग्मी, श्रीमान्, शत्रुनिबर्हणः, विपुलांसः , महाबाहुः , कंबुग्रीवः , महाहनुः ।

=> बहुव्रीहिसमासाः

विपुलांसः, महाबाहुः, कंबुग्रीवः, महाहनुः-

विग्रहवाक्यम् किम्? प्रकारः क? (Expansion/type?)

Solution 3.

समस्तपदम = विपुलांसः (पुं.१,१) [=रामः]। प्रातिपदिके = विपुल,अंस।

विग्रहवाक्यम् = विपुलौ अंसौ यस्य सः विपुलांसः। (बहुव्रीहिः)।

समस्तपदम् = महाबाहुः (पुं.१,१) [-रामः]। प्रातिपदिके = महद्, बाहु।

विग्रहवाक्यम् = महान्तौ बाहू यस्य सः महाबाहुः। (बहुव्रीहिः)

समस्तपदम् = कंबुग्रीवः (पुं. १,१) [ रामः] | प्रातिपदिके = कंबु, ग्रीवा।

विग्रहवाक्यम् = कम्बुः इव ग्रीवा यस्य सः कम्बुग्रीवः। (बहुव्रीहिः)

समस्तपदम् = महाहनुः (पुं.१,१) [=रामः]। प्रातिपदिके = महद्, हनु।

विग्रहवाक्यम् = महान् हनुः यस्य सः महाहनुः। (बहुव्रीहिः)।[2]

बहुव्रीहिसमासः - a few more examples...

बहुव्रीहिसमासः - a few more examples...[2]
समस्तपदम् न्वयः/सन्दर्भः विग्रहवाक्यम्
राजीवलोचनः ... रामः राजीवम् इव लोचने यस्य सः राजीवलोचनः ।
जितक्रोधः ... रामः जितः क्रोधः येन सः जितक्रोधः ।
जातरोषस्य कस्य ... संयुगे देवाः बिभ्यति जातः रोषः यस्मिन् सः जातरोषः । तस्य ।
बहूदकाः ते ... नदीः तीर्त्वा बहूनि उदकानि यासु ताः बहूदकाः (नद्यः) ।
महातेजाः ... रामः महद् तेजः यस्य सः महातेजाः ।
वसिष्ठप्रमुखैः ... द्विजैः राज्याय नियुज्यमानः भरतः वसिष्ठः प्रमुखः येषां ते वसिष्ठप्रमुखाः । तैः वसिष्ठप्रमुखैः ।

References

  1. 1.0 1.1 Sridhar Subbanna, Samasa, Samskritadhyayana Karyashala, Vidyasvam.
  2. 2.0 2.1 2.2 Amit Rao, Bahuvrihi Samasa Review, Vidyasvam.