Adiparva Adhyaya 9 (आदिपर्वणि अध्यायः ९)
Jump to navigation
Jump to search
सौतिरुवाच तेषु तत्रोपविष्टेषु ब्राह्मणेषु महात्मसु। रुरुश्चुक्रोश गहनं वनं गत्वातिदुःखितः॥ 1-9-1 शोकेनाभिहतः सोऽथ विलपन्करुणं बहु। अब्रवीद्वचनं शोचन्प्रियां स्मृत्वा प्रमद्वराम्॥ 1-9-2 शेते सा भुवि तन्वङ्गी मम शोकविवर्धिनी। बान्धवानां च सर्वेषां किं नु दुःखमतः परम्॥ 1-9-3 यदि दत्तं तपस्तप्तं गुरवो वा मया यदि। सम्यगाराधितास्तेन संजीवतु मम प्रिया॥ 1-9-4 यथा च जन्मप्रभृति यतात्माहं धृतव्रतः। प्रमद्वरा तथा ह्येषा समुत्तिष्ठतु भामिनी॥ 1-9-5 (कृष्णे विष्णौ हृषीकेशे लोकेशेऽसुरविद्विषि। यदि मे निश्चला भक्तिर्मम जीवतु सा प्रिया॥) एवं लालप्यतस्तस्य भार्यार्थे दुःखितस्य च। देवदूतस्तदाभ्येत्य वाक्यमाह रुरुं वने॥ 1-9-6 देवदूत उवाच अभिधत्से ह यद्वाचा रुरो दुःखेन तन्मृषा। यतो मर्त्यस्य धर्मात्मन्नायुरस्ति गतायुषः॥ 1-9-7 गतायुरेषा कृपणा गन्धर्वाप्सरसोः सुता। तस्माच्छोके मनस्तात मा कृथास्त्वं कथंचन॥ 1-9-8 उपायश्चात्र विहितः पूर्वं देवैर्महात्मभिः। तं यदीच्छसि कर्तुं त्वं प्राप्स्यसीह प्रमद्वराम्॥ 1-9-9 रुरुरुवाच क उपायः कृतो देवैर्ब्रूहि तत्त्वेन खेचर। करिष्येऽहं तथा श्रुत्वा त्रातुमर्हति मां भवान्॥ 1-9-10 देवदूत उवाच आयुषोऽर्धं प्रयच्छ त्वं कन्यायै भृगुनन्दन। एवमुत्थास्यति रुरो तव भार्या प्रमद्वरा॥ 1-9-11 रुरुरुवाच आयुषोऽर्धं प्रयच्छामि कन्यायै खेचरोत्तम। शृङ्गाररूपाभरणा समुत्तिष्ठतु मे प्रिया॥ 1-9-12 सौतिरुवाच ततो गन्धर्वराजश्च देवदूतश्च सत्तमौ। धर्मराजमुपेत्येदं वचनं प्रत्यभाषताम्॥ 1-9-13 धर्मराजायुषोऽर्धेन रुरोर्भार्या प्रमद्वरा। समुत्तिष्ठतु कल्याणी मृतैवं यदि मन्यसे॥ 1-9-14 धर्मराज उवाच प्रमद्वरां रुरोर्भार्यां देवदूत यदीच्छसि। उत्तिष्ठत्वायुषोऽर्धेन रुरोरेव समन्विता॥ 1-9-15 सौतिरुवाच एवमुक्ते ततः कन्या सोदतिष्ठत्प्रमद्वरा। रुरोस्तस्यायुषोऽर्धेन सुप्तेव वरवर्णिनी॥ 1-9-16 एतद्दृष्टं भविष्ये हि रुरोरुत्तमतेजसः। आयुषोऽतिप्रवृद्धस्य भार्यार्थेऽर्धमलुप्यत॥ 1-9-17 तत इष्टेऽहनि तयोः पितरौ चक्रतुर्मुदा। विवाहं तौ च रेमाते परस्परहितैषिणौ॥ 1-9-18 स लब्ध्वा दुर्लभां भार्यां पद्मकिञ्जल्कसुप्रभाम्। व्रतं चक्रे विनाशाय जिह्मगानां धृतव्रतः॥ 1-9-19 स दृष्ट्वा जिह्मगान्सर्वांस्तीव्रकोपसमन्वितः। अभिहन्ति यथासत्त्वं गृह्य प्रहरणं सदा॥ 1-9-20 स कदाचिद्वनं विप्रो रुरुभ्यागमन्महत्। शयानं तत्र चापश्यद्डुण्डुभं वयसान्वितम्॥ 1-9-21 तत उद्यम्य दण्डं स कालदण्डोपमं तदा। जिघांसुः कुपितो विप्रस्तमुवाचाथ डुण्डुभः॥ 1-9-22 नापराध्यामि ते किंचिदहमद्य तपोधन। संरम्भाच्च किमर्थं मामभिहंसि रुषान्वितः॥ 1-9-23 इति श्रीमहाभारते आदिपर्वणि पौलोमपर्वणि प्रमद्वराजीवने नवमोऽध्यायः॥ 9 ॥ Ruru Pramdvara alive coming alive anger snake anger over snake sarp रुरु प्रमद्वरा पुनर्जन्म प्रमद्वराका पुनर्जन्म प्रमद्वराका पुनर्जीवित होना पुनर्जीवित सर्पक्रोध रुरुका सर्पक्रोध