Adiparva Adhyaya 52 (आदिपर्वणि अध्यायः ५२)

From Dharmawiki
Jump to navigation Jump to search

सौतिरुवाच

ततः कर्म प्रववृते सर्पसत्रविधानतः।

पर्यक्रामंश्च विधिवत्स्वे स्वे कर्मणि याजकाः॥ 1-52-1

प्रावृत्य कृष्णवासांसि धूम्र[म]संरक्तलोचनाः।

जुहुवुर्मन्त्रवच्चैव समिद्धं जातवेदसम्॥ 1-52-2

कम्पयन्तश्च सर्वेषामुरगाणां मनांसि च।

सर्पानाजुहुवुस्तत्र सर्वानग्निमुखे तदा॥ 1-52-3

ततः सर्पाः समापेतुः प्रदीप्ते हव्यवाहने।

विचेष्टमानाः कृपणमाह्वयन्तः परस्परम्॥ 1-52-4

विस्फुरन्तः श्वसन्तश्च वेष्टयन्तः परस्परम्।

पुच्छैः शिरोभिश्च भृशं चित्रभानुं प्रपेदिरे॥ 1-52-5

श्वेताः कृष्णाश्च नीलाश्च स्थविराः शिशवस्तथा।

नदन्तो विविधान्नादान्पेतुर्दीप्ते विभावसौ॥ 1-52-6

क्रोशयोजनमात्रा हि गोकर्णस्य प्रमाणतः।

पतन्त्यजस्रं वेगेन वह्नावग्निमतां वर॥ 1-52-7

एवं शतसहस्राणि प्रयुतान्यर्बुदानि च।

अवशानि विनष्टानि पन्नगानां तु तत्र वै॥ 1-52-8

तुरगा इव तत्रान्ये हस्तिहस्ता इवापरे।

मत्ता इव च मातङ्गा महाकाया महाबलाः॥ 1-52-9

उच्चावचाश्च बहवो नानावर्णा विषोल्बणाः।

घोराश्च परिघप्रख्या दन्दशूका महाबलाः।

प्रपेतुरग्नावुरगा मातृवाग्दण्डपीडिताः॥ 1-52-10

इति श्रीमहाभारते आदिपर्वणि आस्तीकपर्वणि सर्पसत्रोपक्रमे द्विपञ्चाशत्तमोऽध्यायः॥ 52 ॥