Adiparva Adhyaya 32 (आदिपर्वणि अध्यायः ३२)
Jump to navigation
Jump to search
सौतिरुवाच ततस्तस्मिन्द्विजश्रेष्ठ समुदीर्णे तथाविधे। गरुडः पक्षिराट्तूर्णं सम्प्राप्तो विबुधान्प्रति॥ 1-32-1 तं दृष्ट्वातिबलं चैव प्राकम्पन्त सुरास्ततः। परस्परं च प्रत्यघ्नन्सर्वप्रहरणान्युत॥ 1-32-2 तत्र चासीदमेयात्मा विद्युदग्निसमप्रभः। भौमनः सुमहावीर्यः सोमस्य परिरक्षिता॥ 1-32-3 स तेन पतगेन्द्रेण पक्षतुण्डनखक्षतः। मुहूर्तमतुलं युद्धं कृत्वा विनिहतो युधि॥ 1-32-4 रजश्चोद्धूय सुमहत्पक्षवातेन खेचरः। कृत्वा लोकान्निरालोकांस्तेन देवानवाकिरत्॥ 1-32-5 तेनावकीर्णा रजसा देवा मोहमुपागमन्। न चैवं ददृशुश्छन्ना रजसामृतरक्षिणः॥ 1-32-6 एवं संलोडयामास गरुडस्त्रिदिवालयम्। पक्षतुण्डप्रहारैस्तु देवान्स विददार ह॥ 1-32-7 देवः सहस्राक्षस्तूर्णं वायुमचोदयत्। विक्षिपेमां रजोवृष्टिं तवेदं कर्म मारुत॥ 1-32-8 अथ वायुरपोवाह तद्रजस्तरसा बली। ततो वितिमिरे जाते देवाः शकुनिमार्दयन्॥ 1-32-9 ननादोच्चैः स बलवान्महामेघ इवाम्बरे। वध्यमानः सुरगणैः सर्वभूतानि भीषयन्॥ 1-32-10 उत्पपात महावीर्यः पक्षिराट्परवीरहा। समुत्पत्यान्तरिक्षस्थं देवानामुपरि स्थितम्॥ 1-32-11 न[व]र्मिणो विबुधाः सर्वे नानाशस्त्रैरवाकिरन्। पट्टनैः[ट्टिशैः] परिघैः शूलैर्गदाभिश्च सवासवाः॥ 1-32-12 क्षुरप्रैर्ज्वलितैश्चापि चक्रैरादित्यरूपिभिः। नानाशस्त्रविसर्गैस्तैर्ब[र्व]ध्यमानः समन्ततः॥ 1-32-13 कुर्वन्सुतुमुलं युद्धं पक्षिराण्न व्यकम्पत। निर्दहन्निव चाकाशे वैनतेयः प्रतापवान्॥ 1-32-14 पक्षाभ्यामुरसा चैव समन्ताद्व्याक्षिपत्सुरान्। ते विक्षिप्तास्ततो देवा दुद्रुवुर्गरुडार्दिताः॥ 1-32-15 नखतुण्डक्षताश्चैव सुस्रुवुः शोणितं बहु। साध्याः प्राचीं सगन्धर्वा वसवो दक्षिणां दिशम्॥ 1-32-16 प्रजग्मुः सहिता रुद्राः पतगेन्द्रप्रधर्षिताः। दिशं प्रतीचीमादित्या नासत्यावुत्तरां दिशम्॥ 1-32-17 मुहुर्मुहुः प्रेक्षमाणा युध्यमाना महौजसः। अश्वक्रन्देन वीरेण रेणुकेन च पक्षिराट्॥ 1-32-18 क्रथनेन च शूरेण तपनेन च खेचरः। उलूकश्वसनाभ्यां च निमेषेण च पक्षिराट्॥ 1-32-19 क्रथनेन च शूरेण पतनेन च खेचरः प्ररुजेन च संग्रामं चकार पुलिनेन च। तान्पक्षनखतुण्डाग्रैरभिनद्विनतासुतः॥ 1-32-20 युगान्तकाले संक्रुद्धः पिनाकीव परन्तपः। महाबला महोत्साहास्तेन ते बहुधा क्षताः॥ 1-32-21 रेजुरभ्रघनप्रख्या रुधिरौघप्रवर्षिणः। तान्कृत्वा पतगश्रेष्ठः सर्वानुत्क्रान्तजीवितान्॥ 1-32-22 अतिक्रान्तोऽमृतस्यार्थे सर्वतोऽग्निमपश्यत। आवृण्वानं महाज्वालमर्चिर्भिः सर्वतोऽम्बरे[रम्]। दहन्तमिव तीक्ष्णांशुं चण्डवायुसमीरितम्॥ 1-32-23 ततो नवत्या नवतीर्मुखानां कृत्वा महात्मा गरुडस्तपस्वी। नदीः समापीय मुखैस्ततस्तैः सुशीघ्रमागम्य पुनर्जवेन॥ 1-32-24 ज्वलन्तमग्निं तममित्रतापनः समास्तरत्पत्ररथो नदीभिः। ततः प्रचक्रे वपुरन्यदल्पं प्रवेष्टुकामोऽग्निमभिप्रशाम्य॥ 1-32-25 इति श्रीमहाभारते आदिपर्वणि आस्तीकपर्वणि सौपर्णे द्वात्रिंशोऽध्यायः॥ 32 ॥ Garuda Devta War War between Garuda and Devtas गरुड देवता युद्ध गरुडका देवताओंसे युद्ध