Adiparva Adhyaya 139 (आदिपर्वणि अध्यायः १३९)

From Dharmawiki
Jump to navigation Jump to search

वैशम्पायन उवाच

श्रुत्वा पाण्डुसुतान्वीरान्बलोद्रिक्तान्महौजसः।

धृतराष्ट्रो महीपालश्चिन्तामगमदातुरः॥ 1-139-1

तत आहूय मन्त्रज्ञं राजशास्त्रार्थवित्तमम्।

कणिकं मन्त्रिणां श्रेष्ठं धृतराष्ट्रोऽब्रवीद्वचः॥ 1-139-2

धृतराष्ट्र उवाच

उत्सिक्ताः पाण्डवा नित्यं तेभ्योऽसूये द्विजोत्तम।

तत्र मे निश्चिततमं सन्धिविग्रहकारणम्।

कणिक त्वं ममाचक्ष्व करिष्ये वचनं तव॥ 1-139-3

वैशम्पायन उवाच

स प्रसन्नमनास्तेन परिपृष्टो द्विजोत्तमः।

उवाच वचनं तीक्ष्णं राजशास्त्रार्थदर्शनः[म्]।

शृणु राजन्निदं तत्र प्रोच्यमानं मयानघ॥ 1-139-4

न मेऽभ्यसूया कर्तव्या श्रुत्वैतत्कुरुसत्तम।

नित्यमुद्यतदण्डः स्यान्नित्यं विवृतपौरुषः॥ 1-139-5

अच्छिद्रश्छिद्रदर्शी स्यात्परेषां विवरानुगः।

नित्यमुद्यतदण्डाद्धि भृशमुद्विजते जनः॥ 1-139-6

तस्मात्सर्वाणि कार्याणि दण्डेनैव विधारयेत्।

नास्यच्छिद्रं परः पश्येच्छिद्रेण परमन्वियात्॥ 1-139-7

गूहेत्कूर्म इवाङ्गानि रक्षेद्विवरमात्मनः।

नासम्यक्कृतकारी स्यादुपक्रम्य कदाचन॥ 1-139-8

कण्टको ह्यपि दुश्छिन्न आस्रावं जनयेच्चिरम्।

वधमेव प्रशंसन्ति शत्रूणामपकारिणाम्॥ 1-139-9

सुविदीर्णं सुविक्रान्तं सुयुद्धं सुपलायितम्।

आपद्यापदि काले च कुर्वीत न विचारयेत्॥ 1-139-10

नावज्ञेयो रिपुस्तात दुर्बलोऽपि कथञ्चन।

अल्पोऽप्यग्निर्वनं कृत्स्नं दहत्याश्रयसंश्रयात्॥ 1-139-11

अन्धः स्यादन्धवेलायां बाधिर्यमपि चाश्रयेत्।

कुर्यात्तृणमयं चापं शयीत मृगशायिकाम्॥ 1-139-12

सान्त्वादिभिरुपायैस्तु हन्याच्छत्रुं वशे स्थितम्।

दया न तस्मिन्कर्तव्या शरणागत इत्युत॥ 1-139-13

निरुद्विग्नो हि भवति न हताज्जायते भयम्।

हन्यादमित्रं दानेन तथा पूर्वापकारिणम्॥ 1-139-14

हन्यात्त्रीन्पञ्च सप्तेति परपक्षस्य सर्वशः।

मूलमेवादितश्छिन्द्यात्परपक्षस्य नित्यशः॥ 1-139-15

ततः सहायांस्तत्पक्षान्सर्वांश्च तदनन्तरम्।

छिन्नमूले ह्यधिष्ठाने सर्वे तज्जीविनो हताः॥ 1-139-16

कथं नु शाखास्तिष्ठेरंश्छिन्नमूले वनस्पतौ।

एकाग्रः स्यादविवृतो नित्यं विवरदर्शकः॥ 1-139-17

राजन्नित्यं सपत्नेषु नित्योद्विग्नः समाचरेत्।

अग्न्याधानेन यज्ञेन काषायेण जटाजिनैः॥ 1-139-18

लोकान्विश्वासयित्वैवं[व] ततो लुम्पेद्यथा वृकः।

अङ्कुशं शौचमित्याहुरर्थानामुपधारणे॥ 1-139-19

आनाम्य फलितां शाखां पक्वं पक्वं प्रशातयेत्।

फलार्थोऽयं समारम्भो लोके पुंसां विपश्चिताम्॥ 1-139-20

वहेदमित्रं स्कन्धेन यावत्कालस्य पर्ययः।

ततः प्रत्यागते काले भिन्द्याद्घटमिवाश्मनि॥ 1-139-21

अमित्रो न विमोक्तव्यः कृपणं बह्वपि ब्रुवन्।

कृपा न तस्मिन्कर्तव्या हन्यादेवापकारिणम्॥ 1-139-22

हन्यादमित्रं सान्त्वेन तथा दानेन वा पुनः।

तथैव भेददण्डाभ्यां सर्वोपायैः प्रशातयेत्॥ 1-139-23

धृतराष्ट्र उवाच

कथं सान्त्वेन दानेन भेदैर्दण्डेन वा पुनः।

अमित्रः शक्यते हन्तुं तन्मे ब्रूहि यथातथम्॥ 1-139-24

कणिक उवाच

शृणु राजन्यथावृत्तं वने निवसतः पुरा।

जम्बुकस्य महाराज नीतिशास्त्रार्थदर्शिनः॥ 1-139-25

अथ कश्चित्कृतप्रज्ञः शृगालः स्वार्थपण्डितः।

सखिभिर्न्यवसत्सार्धं व्याघ्राखुवृकबभ्रुभिः॥ 1-139-26

तेऽपश्यन्विपिने तस्मिन्बलिनं मृगयूथपम्।

अशक्ता ग्रहणे तस्य ततो मन्त्रममन्त्रयन्॥ 1-139-27

जम्बुक उवाच

असकृद्यतितो ह्येष हन्तुं व्याघ्र वने त्वया।

युवा वै जवसम्पन्नो बुद्धिशाली न शक्यते॥ 1-139-28

मूष[षि]कोऽस्य शयानस्य चरणौ भक्षयत्वयम्।

अ[य]थैनं भक्षितैः पादैर्व्याघ्रो गृह्णातु वै ततः॥ 1-139-29

ततो वै भक्षयिष्यामः सर्वे मुदितमानसाः।

जम्बुकस्य तु तद्वाक्यं तथा चक्रुः समाहिताः॥ 1-139-30

मूषिकाभक्षितैः पादैर्मृगं व्याघ्रोऽवधीत्तदा।

दृष्ट्वैवाचेष्टमानं तु भूमौ मृगकलेवरम्॥ 1-139-31

स्नात्वाऽऽगच्छत भद्रं वो रक्षामीत्याह जम्बुकः।

शृगालवचनात्तेऽपि गताः सर्वे नदीं ततः॥ 1-139-32

स चिन्तापरमो भूत्वा तस्थौ तत्रैव जम्बुकः।

अथाजगाम पूर्वं तु स्नात्वा व्याघ्रो महाबलः।

ददर्श जम्बुकं चैव चिन्ताकुलितमानसम्॥ 1-139-33

व्याघ्र उवाच

किं शोचसि महाप्राज्ञ त्वं नो बुद्धिमतां वरः।

अशित्वा पिशितान्यद्य विहरिष्यामहे वयम्॥ 1-139-34

जम्बुक उवाच

शृणु मे त्वं महाबाहो यद्वाक्यं मूष[षि]कोऽब्रवीत्।

धिग्बलं मृगराजस्य मयाद्यायं मृगो हतः॥ 1-139-35

मद्बाहुबलमाश्रित्य तृप्तिमद्य गमिष्यति।

गर्जमानस्य तस्यैवमतो भक्ष्यं न रोचये॥ 1-139-36

व्याघ्र उवाच

ब्रवीति यदि स ह्येवं काले ह्यस्मिन्प्रबोधितः।

स्वबाहुबलमाश्रित्य हनिष्येऽहं वनेचरान्।

खादिष्ये तत्र मांसानि इत्युक्त्वा प्रस्थितो वनम्॥ 1-139-37

एतस्मिन्नेव काले तु मूषिकोऽप्याजगाम ह।

तमागतमभिप्रेत्य शृगालोऽप्यब्रवीद्वचः॥ 1-139-38

जम्बुक उवाच

शृणु मूष[षि]क भद्रं ते नकुलो यदिहाब्रवीत्।

मृगमांसं न खादेयं गरमेतन्न रोचते॥ 1-139-39

मूष[षि]कं भक्षयिष्यामि तद्भवाननुमन्यताम्।

तच्छ्रुत्वा मूष[षि]को वाक्यं सन्त्रस्तः प्रगतो बिलम्॥ 1-139-40

ततः स्नात्वा स वै तत्र ह्या[आ]जगाम वृको नृप।

तमागतमिदं वाक्यमब्रवीज्जम्बुकस्तदा॥ 1-139-41

मृगराजो हि सङ्क्रुद्धो न ते साधु भविष्यति।

सकलत्रस्त्विहायाति कुरुष्व यदनन्तरम्॥ 1-139-42

एवं सञ्चोदितस्तेन जम्बुकेन तदा वृकः।

ततोऽवलुम्पनं कृत्वा प्रयातः पिशिताशनः॥ 1-139-43

एतस्मिन्नेव काले तु नकुलोऽप्याजगाम ह।

तमुवाच महाराज नकुलं जम्बुको वने॥ 1-139-44

स्वबाहुबलमाश्रित्य निर्जितास्तेऽन्यतो गताः।

मम दत्त्वा नियुद्धं त्वं भुङ्क्ष्व मांसं यथेप्सितम्॥ 1-139-45

नकुल उवाच

मृगराजो वृकश्चैव बुद्धिमानपि मूष[षि]कः।

निर्जिता यत्त्वया वीरास्तस्माद्वीरतरो भवान्।

न त्वयाप्युत्सहे योद्धुमित्युक्त्वा सोऽप्युपागमत्॥ 1-139-46

कणिक उवाच

एवं तेषु प्रयातेषु जम्बुको हृष्टमानसः।

खादति स्म तदा मांसमेकः सन्मन्त्रनिश्चयात्।

एवं समाचरन्नित्यं सुखमेधेत भूपतिः॥ 1-139-47

भयेन भेदयेद्भीरुं शूरमञ्जलिकर्मणा।

लुब्धमर्थप्रदानेन समं न्यूनं तथौजसा॥ 1-139-48

एवं ते कथितं राजञ्शृणु चाप्यपरं तथा।

पुत्रः सखा वा भ्राता वा पिता वा यदि वा गुरुः॥ 1-139-49

रिपुस्थानेषु वर्तन्तः[न्तो] कर्त[हन्त]व्या भूतिमिच्छता।

शपथेनाप्यरिं हन्यादर्थदानेन वा पुनः॥ 1-139-50

विषेण मायया वापि नोपेक्षेत कथञ्चन।

उभौ चेत्संशयोपेतौ श्रद्धावांस्तत्र वर्द्धते॥ 1-139-51

गुरोरप्यवलिप्तस्य कार्याकार्यमजानतः।

उत्पथं[थ]प्रतिपन्नस्य न्याय्यं भवति शासनम्॥ 1-139-52

क्रुद्धोऽप्यक्रुद्धरूपः स्यात्स्मितपूर्वाभिभाषणः[षिता]।

न चाप्यन्यमपध्वंसेत्कदाचित्कोपसंयुतः॥ 1-139-53

प्रहरिष्यन्प्रियं ब्रूयात्प्रहरन्नपि भारत।

प्रहृत्य च कृपायीत शोचेत च रुदेत च॥ 1-139-54

आश्वासयेच्चापि परं सान्त्वधर्मार्थवृत्तिभिः।

अथास्य प्रहरेत्काले यदा विचलिते पथि॥ 1-139-55

अपि घोरापराधस्य धर्ममाश्रित्य तिष्ठतः।

स हि प्रच्छाद्यते दोषः शैलो मेघैरिवासितैः॥ 1-139-56

यः स्यादनुप्राप्तवधस्तस्यागारं प्रदीपयेत्।

अधनान्नास्तिकांश्चौरान्विषये स्वे न वासयेत्॥ 1-139-57

प्रत्युत्थानासनाद्येन सम्प्रदानेन केनचित्।

प्रतिविश्रब्धघाती स्यात्तीक्ष्णदंष्ट्रो निमग्नकः॥ 1-139-58

अशङ्कितेभ्यः शङ्केत शङ्कितेभ्यश्च सर्वशः।

अशङ्क्याद्भयमुत्पन्नमपि मूलं निकृन्तति॥ 1-139-60

न विश्वसेदविश्वस्ते विश्वस्ते नातिविश्वसेत्।

विश्वासाद्भयमुत्पन्नं मूलान्यपि निकृन्तति॥ 1-139-61

चारः सुविहितः कार्य आत्मनश्च परस्य वा।

पाषण़्डांस्तापसादींश्च परराष्ट्रेषु योजयेत्॥ 1-139-62

उद्यानेषु विहारेषु देवतायतनेषु च।

पानागारेषु रथ्यासु सर्वतीर्थेषु चाप्यथ॥ 1-139-63

चत्वरेषु च कूपेषु पर्वतेषु वनेषु च।

समवायेषु सर्वेषु सरित्सु च विचारयेत्॥ 1-139-64

वाचा भृशं विनीतः स्याद्धृदयेन तथा क्षुरः।

स्मितपूर्वाभिभाषी स्यात्स्पृ[सृ]ष्टो रौद्रेण[द्राय] कर्मणा[णे]॥ 1-139-65

अञ्जलिः शपथः सान्त्वं शिरसा पादवन्दनम्।

आशाकरणमित्येवं कर्तव्यं भूतिमिच्छता॥ 1-139-66

सुपुष्पितः स्यादफलः फलवान्स्याद्दुरारुहः।

आमः स्यात्पक्वसङ्काशो न च जीर्येत कर्हिचित्॥ 1-139-67

त्रिवर्गे त्रिविधा पीडा ह्यनुबन्धस्तथैव च।

अनुबन्धाः शुभा ज्ञेयाः पीडास्तु परिवर्जयेत्॥ 1-139-69

धर्मं विचरतः पीडा सापि द्वाभ्यां नियच्छति।

अर्थस्स्या[र्थं चा]प्यर्थलुब्धस्य कामस्स्या[मं चा]तिप्रवर्तिनः॥ 1-139-70

अगर्वितात्मा युक्तश्च सान्त्वयुक्तोऽनसूयिता।

अवेक्षितार्थः शुद्धात्मा मन्त्रयीत द्विजैः सह॥ 1-139-71

कर्मणा येन केनैव मृदुना दारुणेन च।

उद्धरेद्दीनमात्मानं समर्थो धर्ममाचरेत्॥ 1-139-72

न संशयमनारुह्य नरो भद्राणि पश्यति।

संशयं पुनरारुह्य यदि जीवति पश्यति॥ 1-139-73

यस्य बुद्धिः परिभवेत्तमतीतेन सान्त्वयेत्।

अनागतेन दुर्बुद्धिं प्रत्युत्पन्नेन पण्डितम्॥ 1-139-74

योऽरिणा सह सन्धाय शयीत कृतकृत्यवत्।

स वृक्षाग्रे यथा सुप्तः पतितः प्रतिबुध्यते॥ 1-139-75

मन्त्रसंवरणे यत्नः सदा कार्योऽनसूयता।

आकारमभिरक्षेत चारेणाप्यनुपालितः॥ 1-139-76

नाच्छित्त्वा परमर्माणि नाकृत्वा कर्म दारुणम्।

नाहत्वा मत्स्यघातीव प्राप्नोति महतीं श्रियम्॥ 1-139-77

कर्शितं व्याधितं क्लिन्नमपानीयमघासकम्।

परिविश्वस्तमन्दं च प्रहर्तव्यमरेर्बलम्॥ 1-139-78

नार्थिकोऽर्थिनमभ्येति कृतार्थे नास्ति सङ्गतम्।

तस्मात्सर्वाणि साध्यानि सावशेषाणि कारयेत्॥ 1-139-79

सङ्ग्रहे विग्रहे चैव यत्नः कार्योऽनसूयता।

उत्साहश्चापि यत्नेन कर्तव्यो भूतिमिच्छता॥ 1-139-80

नास्य कृत्यानि बुध्येरन्मित्राणि रिपवस्तथा।

आरब्धान्येव पश्येरन्सुपर्यवसितान्यपि॥ 1-139-81

भीतवत्संविधातव्यं यावद्भयमनागतम्।

आगतं तु भयं दृष्ट्वा प्रहर्तव्यमभीतवत्॥ 1-139-82

दण्डेनोपनतं शत्रुमनुगृह्णाति यो नरः।

स मृत्युमुपगृह्णीयाद्गर्भमश्वतरी यथा॥ 1-139-83

अनागतं हि बुध्येत यच्च कार्यं पुरः स्थितम्।

न तु बुद्धिक्षयात्किञ्चिदतिक्रामेत्प्रयोजनम्॥ 1-139-84

उत्साहश्चापि यत्नेन कर्तव्यो भूतिमिच्छता।

विभज्य देशकालौ च दैवं धर्मादयस्त्रयः॥ 1-139-85

नैःश्रेयसौ तु तौ ज्ञेयौ देशकालाविति स्थितिः।

तालवत्कुरुते मूलं बालः शत्रुरुपेक्षितः॥ 1-139-86

गहनेऽग्निरिवोत्सृष्टः क्षिप्रं सञ्जायते महान्।

अग्निं स्तोकमिवात्मानं सन्धुक्षयति यो नरः॥ 1-139-87

स वर्धमानो ग्रसते महान्तमपि सञ्चयम्।

आदावेव ददानीति प्रियं ब्रूयान्निरर्थकम्।

आशां कालवतीं दद्यात्[कुर्यात्] कालं विघ्नेन योजयेत्॥ 1-139-88

विघ्नं निमित्ततो ब्रूयान्निमित्तं वापि हेतुतः।

क्षुरो भूत्वा हरेत्प्राणान्निशितः कालसाधनः॥ 1-139-89

प्रतिच्छन्नो लोमहारी द्विषतां परिकर्तनः।

पाण्डवेषु यथान्यायमन्येषु च कुरूद्वह॥ 1-139-90

वर्तमानो न मज्जेस्त्वं तथा कृत्यं समाचर।

सर्वकल्याणसम्पन्नो विशिष्ट इति निश्चयः॥ 1-139-91

तस्मात्त्वं पाण्डुपुत्रेभ्यो रक्षात्मानं नराधिप।

भ्रातृव्या बलिनो यस्मात्पाण्डुपुत्रा नराधिप।

पश्चात्तापो यथा न स्यात्तथा नीतिर्विर्धा[धि]यताम्॥ 1-139-92

वैशम्पायन उवाच

एवमुक्त्वा सम्प्रतस्थे कणिकः स्वगृहं ततः।

धृतराष्ट्रोऽपि कौरव्यः शोकार्तः समपद्यत॥ 1-139-93

इति श्रीमहाभारते आदिपर्वणि सम्भवपर्वणि कणिकवाक्ये एकोनचत्वारिंशदधिकशततमोऽध्यायः॥ 139 ॥