Adiparva Adhyaya 138 (आदिपर्वणि अध्यायः १३८)
वैशम्पायन उवाच
ततः संवत्सरस्यान्ते यौवराज्याय पार्थिव।
स्थापितो धृतराष्ट्रेण पाण्डुपुत्रो युधिष्ठिरः॥ 1-138-1
धृतिस्थैर्यसहिष्णुत्वादानृशंस्यात्तथार्जवात्।
भृत्यानामनुकम्पार्थं तथैव स्थिरसौहृदात्॥ 1-138-2
ततोऽदीर्घेण कालेन कुन्तीपुत्रो युधिष्ठिरः।
पितुरन्तर्दधे कीर्तिं शीलवृत्तसमाधिभिः॥ 1-138-3
असियुद्धे गदायुद्धे रथयुद्धे च पाण्डवः।
सङ्कर्षणादशिक्षद्वै शश्वच्छिक्षां वृकोदरः॥ 1-138-4
समाप्तशिक्षो भीमस्तु द्युमत्सेनसमो बले।
पराक्रमेण सम्पन्नो भ्रातॄणामचरद्वशे॥ 1-138-5
प्रगाढदृढमुष्टित्वे लाघवे वेधने तथा।
क्षुरनाराचभल्लानां विपाठानां च तत्त्ववित्॥ 1-138-6
ऋजुवक्रविशालानां प्रयोक्ता फाल्गुनोऽभवत्।
लाघवे सौष्ठवे चैव नान्यः कश्चन विद्यते॥ 1-138-7
बीभत्सुसदृशो लोके इति द्रोणो व्यवस्थितः।
ततोऽब्रवीद्गुडाकेशं द्रोणः कौरवसंसदि॥ 1-138-8
अगस्त्यस्य धनुर्वेदे शिष्यो मम गुरुः पुरा।
अग्निवेश इति ख्यातस्तस्य शिष्योऽस्मि भारत॥ 1-138-9
तीर्थात्तीर्थं गमयितुमहमेतत्समुद्यतः।
तपसा यन्मया प्राप्तममोघमशनिप्रभम्॥ 1-138-10
अस्त्रं ब्रह्मशिरो नाम यद्दहेत्पृथिवीमपि।
ददता गुरुणा चोक्तं न मनुष्येष्विदं त्वया॥ 1-138-11
भारद्वाज विमोक्तव्यमल्पवीर्येष्वपि प्रभो।
त्वया प्राप्तमिदं वीर दिव्यं नान्योऽर्हति त्विदम्॥ 1-138-12
समयस्तु त्वया रक्ष्यो मुनिसृष्टो विशाम्पते।
आचार्यदक्षिणां देहि ज्ञातिग्रामस्य पश्यतः॥ 1-138-13
ददानीति प्रतिज्ञाते फाल्गुनेनाब्रवीद्गुरुः।
युद्धेऽहं प्रतियोद्धव्यो युध्यमानस्त्वयानघ॥ 1-138-14
तथेति च प्रतिज्ञाय द्रोणाय कुरुपुङ्गवः।
उपसङ्गृह्य चरणौ स प्रायादुत्तरां दिशम्॥ 1-138-15
स्वभावादगमच्छब्दो महीं सागरमेखलाम्।
अर्जुनस्य समो लोके नास्ति कश्चिद्धनुर्धरः॥ 1-138-16
गदायुद्धेऽसियुद्धे च रथयुद्धे च पाण्डवः।
पारगश्च धनुर्युद्धे बभूवाथ धनञ्जयः॥ 1-138-17
नीतिमान्सकलां नीतिं विबुधाधिपतेस्तदा।
अवाप्य सहदेवोऽपि भ्रातॄणां ववृते वशे॥ 1-138-18
द्रोणेनैव विनीतश्च भ्रातॄणां नकुलः प्रियः।
चित्रयोधी समाख्यातो बभूवातिरथोदितः॥ 1-138-19
त्रिवर्षकृतयज्ञस्तु गन्धर्वाणामुपप्लवे।
अर्जुनप्रमुखैः पार्थैः सौवीरः समरे हतः॥ 1-138-20
न शशाक वशे कर्तुं यं पाण्डुरपि वीर्यवान्।
सोऽर्जुनेन वशं नीतो राजाऽऽसीद्यवनाधिपः॥ 1-138-21
अतीव बलसम्पन्नः सदा मानी कुरून्प्रति।
वितु[पु]लो नाम सौवीरः शस्तः पार्थेन धीमता॥ 1-138-22
दत्तामित्र इति ख्यातं सङ्ग्रामे कृतनिश्चयम्।
सुमित्रं नाम सौवीरमर्जुनोऽदमयच्छरैः॥ 1-138-23
भीमसेनसहायश्च रथानामयुतं च सः।
अर्जुनः समरे प्राच्यान्सर्वानेकरथोऽजयत्॥ 1-138-24
तथैवैकरथो गत्वा दक्षिणामजयद्दिशम्।
धनौघं प्रापयामास कुरुराष्ट्रं धनञ्जयः॥ 1-138-25
एवं सर्वे महात्मानः पाण्डवा मनुजोत्तमाः।
परराष्ट्राणि निर्जित्य स्वराष्ट्रं ववृधुः पुरा॥ 1-138-26
ततो बलमतिख्यातं विज्ञाय दृढधन्विनाम्।
दूषितः सहसा भावो धृतराष्ट्रस्य पाण्डुषु।
स चिन्तापरमो राजा न निद्रामलभन्निशि॥ 1-138-27
वैशंपायनः--
धृतराष्ट्रस्तु पुत्रस्य श्रुत्वा वचनमीदृशम्।
मुहूर्तामिव संचिन्त्य दुर्योधनमथाब्रवीत्॥
धर्मवृत्तस्सदा पाण्डुसः सुवृत्तो मयि गौरवात्।
सर्वेषु ज्ञातिषु तथा मदीयेषु विशेषतः॥
नात्र किंचन जानाति भोजनानि चिकीर्षति।
निवेदयति तत्सर्वं मयि धर्मभृतां वरः॥
तस्य पुत्रो यथा पाण्डुस्तथा धर्मपरस्सदा।
गुणवांल्लोकविख्यातो नगरे च प्रतिष्ठितः॥
स तथा वर्तमानोऽसौ धर्मसूनुर्यथाऽनुजः।
राज्यमेष हि संप्राप्तः ससहायो विशेषतः॥
ते तथा सत्कृतास्तात विषये पाण्डुना नराः।
कथं युधिष्ठिरस्यार्थे न नो हस्युम्सबान्धवान्॥
नैते विषयमिच्छेयुर्धर्मत्यागे विशेषतः।
ते वयं कौरवेयाणामेतेषां च महात्मनाम्॥
कथं न वाच्यतां तात गच्छेम जगतस्तथा॥
दुर्योधनः--
मध्यस्थस्सततं भीष्मो द्रोणपुत्रो मयि ध्रुवः।
यतः पुत्रस्ततो द्रोणो भविता नात्र संशय॥
कृपश्शारद्वतश्चैव यत एव वयं ततः।
भागिनेयं ततो द्रौणिं न त्यक्ष्यति कथं चन॥
क्षत्ताऽर्थबन्धनस्त्वस्मान्पाण्डवार्थे न बाधितुम्॥
सुविस्रब्घान्पाण्डुसुतान्सह मात्रा विवासय।
वारणावतमद्यैव नात्र दोषो भविष्यति॥
विनिद्रावरणं घोरं हृदि शल्यमिवार्पितम्।
शोकपावकमुद्भूतं कर्मणा तेन नाशय॥
इति श्रीमहाभारते आदिपर्वणि सम्भवपर्वणि धृतराष्ट्रचिन्तायामष्टात्रिंशदधिकशततमोऽध्यायः॥ 138॥