Adiparva Adhyaya 130 (आदिपर्वणि अध्यायः १३०)

From Dharmawiki
Jump to navigation Jump to search


वैशम्पायन उवाच
ततो द्रुपदमासाद्य भारद्वाजः प्रतापवान्।
अब्रवीत्पार्थिवं राजन्सखायं विद्धि मामिह॥ 1-130-1
इत्येवमुक्तः सख्या स प्रीतिपूर्वं जनेश्वरः।
भारद्वाजेन पाञ्चालो नामृष्यत वचोऽस्य तत्॥ 1-130-2
सक्रोधामर्षजिह्यभ्रूः कषायीकृतलोचनः।
नामृष्यत वचस्सख्युः प्रीतिपूर्वमुदाहृतम्।
ऐश्वर्यमदसम्पन्नो द्रोणं राजाब्रवीदिदम्॥ 1-130-3
द्रुपद उवाच
अकृतेयं तव प्रज्ञा ब्रह्मन्नातिसमञ्जसी।
अकृतेयं तव प्रज्ञा ब्रह्मन्नातिसमञ्जसी[सा]।
यन्मां ब्रवीषि प्रसभं सखा तेऽहमिति द्विज॥ 1-130-4
न हि राज्ञामुदीर्णानामेवम्भूतैर्नरैः क्वचित्।
सख्यं भवति मन्दात्मन्श्रिया हीनैर्धनच्युतैः॥ 1-130-5
सौहृदान्यपि जीर्यन्ते कालेन परिजीर्यतः।
सौहृदं मे त्वया ह्यासीत्पूर्वं सामर्थ्यबन्धनम्॥ 1-130-6
न सख्यमजरं लोके हृदि तिष्ठति कस्यचित्।
कालो ह्येनं विहरति क्रोधो वैनं हरत्युत॥ 1-130-7
मैवं जीर्णमुपास्स्व त्वं सख्यं भवत्वपाकृधि।
आसीत्सख्यं द्विजश्रेष्ठ त्वया मेऽर्थनिबन्धनम्॥ 1-130-8
न दरिद्रो वसुमतो नाविद्वान्विदुषः सखा।
न शूरस्य सखा क्लीबः सखिपूर्वं किमिष्यते॥ 1-130-9
ययोरेव समं वित्तं ययोरेव समं श्रुतम्।
तयोर्विवाहः सख्यं च न तु पुष्टविपुष्टयोः॥ 1-130-10
नाश्रोत्रियः श्रोत्रियस्य नारथी रथिनः सखा।
नाराजा पार्थिवस्यापि सखिपूर्वं किमिष्यते॥ 1-130-11
त्वद्विधैर्मद्विधानां हि प्रहीणार्थैर्न जातु चित्।
सख्यं भवति मन्दात्मन्सखिपूर्वं किमिष्यते॥
वैशम्पायन उवाच
द्रुपदेनैवमुक्तस्तु भारद्वाजः प्रतापवान्।
मुहूर्तं चिन्तयित्वा तु मन्युनाभिपरिप्लुतम्[तः]॥ 1-130-12
स विनिश्चित्य मनसा पाञ्चाल्यं[लं] प्रति बुद्धिमान्। 
शिष्यैः परिवृतश्श्रीमान्पुत्रेणानुगतस्तदा।
जगाम कुरुमुख्यानां नगरं नागसाह्वयम्॥ 1-130-13
स नागपुरमागम्य गौतमस्य निवेशने।
भारद्वाजोऽवसत्तत्र प्रच्छन्नं द्विजसत्तमः॥ 1-130-14
स्यालस्यैव गृहं द्रोणसः सदारः पर्युपस्थितः॥
अश्वत्थाम्ना च पुत्रेण महाबलवता सह।
अवसत्तत्र राजेन्द्र गौतमस्य निवेशने॥
ततोऽस्य तनुजः पार्थान्कृपस्यानन्तरं प्रभुः।
अस्त्राणि शिक्षयामास नाबुध्यन्त च तं जनाः॥ 1-130-15
एवं स तत्र गूढात्मा कञ्चित्कालमुवास ह।
कुमारास्त्वथ निष्क्रम्य समेता गजसाह्वयात्॥ 1-130-16
क्रीडन्तो वीटया तत्र वीराः पर्यचरन्मुदा।
पपात कूपे सा वीटा तेषां वै क्रीडतां तदा॥ 1-130-17
ततस्ते यत्नमातिष्ठन्वीटामुद्धर्तुमादृताः।
न च ते प्रत्यपद्यन्त कर्म वीटोपलब्धये॥ 1-130-18
ततोऽन्योन्यमवैक्षन्त वीट[व्रीड]यावनताननाः।
तस्या योगमविन्दन्तो भृशं चोत्कण्ठिताभवन्॥ 1-130-19
तेऽपश्यन्ब्राह्मणं श्याममापन्नं पलितं कृशम्।
कृत्यवन्तमदूरस्थमग्निहोत्रपुरस्कृतम्॥ 1-130-20
ते तं दृष्ट्वा महात्मानमुपगम्य कुमारकाः।
भग्नोत्साहक्रियात्मानो ब्राह्मणं पर्यवारयन्॥ 1-130-21
अथ द्रोणः कुमारांस्तान्दृष्ट्वा कृत्यवतस्तदा।
प्रहस्य मन्दं पैशल्यादभ्यभाषत वीर्यवान्॥ 1-130-22
अहो वो धिग्बलं क्षात्रं धिगेतां वः कृतास्त्रताम्।
वैशंपायनः--
द्रोणस्समुदितान्दृष्ट्वा कुरून्वृत्तिपरीप्सया।
आजगाम महातेजा विप्रो नागपुरं प्रति॥
स तथोक्तस्तथा तेन सदारः प्राद्रवत्कुरून्।
तां प्रतिज्ञां प्रतिज्ञाय यां कर्ता न चिरादिव॥
ततः कुमारा निष्क्रम्य सहिता नागसाह्वयात्।
क्रीडया विनयाद्वीरास्तत्र्पर्यचरन्मुदा॥
तेषां सङ्क्रीडमानानामुदपानेऽङ्गुलीयकम्।
पपात धर्मराजस्य वीटा तत्रैव चापतत्॥
तत्त्वम्बुना प्रतिच्छन्नं तारारूपमिवाम्बरे।
दृष्ट्वा ते वै कुमाराश्च तं यत्रात्पर्यवारयन्॥
ते परस्परमैक्षन्त कुमारास्सहितास्तदा॥
तस्य योगमविन्दन्तो भृशमुत्कण्ठिता भवन्॥
न किञ्चित्प्रत्यपद्यन्त कर्म वीटोपलब्धये॥
तेऽपश्यन्ब्राह्मणं श्याममासत्रपलितं कृशम्।
कृत्यवन्तस्समीपस्थमग्निहोत्रपुरस्कृतम्॥
स तान्कृत्यवतो दृष्ट्वा कुमारांस्तु विचेतसः।
ब्राह्मणः प्रहसन्मन्दं कौशलेनाभ्यभाषत॥
अब्रवीद्धिग्बलं क्षात्रं धिक्चैषां वः कृतास्त्रताम्।
भरतस्यान्वये जाता ये वीटां नाधिगच्छत॥ 1-130-23
वीटां च मुद्रिकां चैव ह्यहमेतदपि द्वयम्।
उद्धरेयमिषीकाभिर्भोजनं मे प्रदीयताम्॥ 1-130-24
एवमुक्त्वा कुमारांस्तान्द्रोणः स्वाङ्गुलिवेष्टनम्।
कूपे निरुदके तस्मिन्नपातयदरिन्दमः।
ततोऽब्रवीत्तदा द्रोणं कुन्तीपुत्रो युधिष्ठिरः॥ 1-130-25
युधिष्ठिर उवाच
कृपस्यानुमते ब्रह्मन्भिक्षामाप्नुहि शाश्वतीम्।
एवमुक्तः प्रत्युवाच प्रहस्य भरतानिदम्॥ 1-130-26
द्रोण उवाच
एषा मुष्टिरिषीकाणां मयास्त्रेणाभिमन्त्रिता।
अस्या वीर्यं निरीक्षध्वं यदन्यस्य न विद्यते॥ 1-130-27
भेत्स्यामीषीकया वीटां तामिषीकां तथान्यया।
तामन्यया समायोगे वीटाया ग्रहणं मम॥ 1-130-28
वैशम्पायन उवाच
ततो यथोक्तं द्रोणेन तत्सर्वं कृतमञ्जसा।
तदवेक्ष्य कुमारास्ते विस्मयोत्फुल्ललोचनाः। 
आश्चर्यमिदमत्यन्तमिति मत्वा वचोऽब्रुवन्॥ 1-130-29
कुमारा ऊचुः
मुद्रिकामपि विप्रर्षे शीघ्रमेतां समुद्धर॥ 1-130-30
वैशम्पायन उवाच
ततः शरं समादाय धनुर्द्रोणो महायशाः।
शरेण विद्ध्वा मुद्रां तामूर्ध्वमावाहयत्प्रभुः।
सशरं समुपादाय कूपादङ्गुलिवेष्टनम्॥ 1-130-31
ददो ततः कुमाराणां विस्मितानामविस्मितः।
मुद्रिकामुद्धृतां दृष्ट्वा तमाहुस्ते कुमारकाः॥ 1-130-32
कुमारा ऊचुः
अभिवादयामहे ब्रह्मन्नैतदन्येषु विद्यते।
कोऽसि कस्यासि जानीमो वयं किं करवामहे॥ 1-130-33
वैशम्पायन उवाच
एवमुक्तस्ततो द्रोणः प्रत्युवाच कुमारकान्।
द्रोण उवाच
आचक्षध्वं च भीष्माय रूपेण च गुणैश्च माम्।
स एव सुमहातेजाः साम्प्रतं प्रतिपत्स्यते॥ 1-130-35
वैशम्पायन उवाच
तथेत्युक्त्वा च गत्वा च भीष्ममूचुः कुमारकाः।
ब्राह्मणस्य वचस्तथ्यं तच्च कर्म तथाविधम्।
भीष्मः श्रुत्वा कुमाराणां द्रोणं तं प्रत्यजानत॥ 1-130-36
युक्तरूपः स हि गुरुरित्येवमनुचिन्त्य च।
अथैनमानीय तदा स्वयमेव सुसत्कृतम्॥ 1-130-37
परिपप्रच्छ निपुणं भीष्मः शस्त्रभृतां वरः।
हेतुमागमने तच्च द्रोणः सर्वं न्यवेदयत्॥ 1-130-38
द्रोण उवाच
महर्षेरग्निवेशस्य सकाशमहमच्युत।
अस्त्रार्थमगमं पूर्वं धनुर्वेदजिघृक्षया॥ 1-130-39
ब्रह्मचारी विनीतात्मा जटिलो बहुलाः समाः।
अवसं सुचिरं तत्र गुरुशुश्रूषणे रतः॥ 1-130-40
पाञ्चालो राजपुत्रश्च यज्ञसेनो महाबलः।
इष्वस्त्रहेतोर्न्यवसत्तस्मिन्नेव गुरौ प्रभुः॥ 1-130-41
स मे तत्र सखा चासीदुपकारी प्रियश्च मे।
तेनाहं सह सङ्गम्य वर्तयन्सुचिरं प्रभो॥ 1-130-42
बाल्यात्प्रभृति कौरव्य सहाध्ययनमेव च।
स मे सखा सदा तत्र प्रियवादी प्रियङ्करः॥ 1-130-43
अब्रवीदिति मां भीष्मं वचनं प्रीतिवर्धनम्।
अहं प्रियतमः पुत्रः पितुर्द्रोण महात्मनः॥ 1-130-44
अभिषेक्ष्यति मां राज्ये स पाञ्चालो यदा तदा।
त्वद्भोग्यं भविता तात सखे सत्येन ते शपे॥ 1-130-45
मम भोगाश्च वित्तं च त्वदधीनं सुखानि च।
एवमुक्त्वाथ वव्राज कृतास्त्रः पूजितो मया॥ 1-130-46
तच्च वाक्यमहं नित्यं मनसा धारयंस्तदा।
सोऽहं पितृनियोगेन पुत्रलोभाद्यशस्विनीम्॥ 1-130-47
नातिकेशीं महाप्रज्ञामुपयेमे महाव्रताम्।
अग्निहोत्रे च सत्रे च दमे च सततं रताम्॥ 1-130-48
अलभद्गौतमी पुत्रमश्वत्थामानमौरसम्।
भीमविक्रमकर्माणमादित्यसमतेजसम्॥ 1-130-49
पुत्रेण तेन प्रीतोऽहं भरद्वाजो मया यथा।
गोक्षीरं पिबतो दृष्ट्वा धनिनस्तत्र पुत्रकान्॥ 1-130-50
अश्वत्थामारुदद्बालस्तन्मे सन्देहयद्दिशः।
न स्नातकोऽवसीदेत वर्तमानः स्वकर्मसु॥ 1-130-51
इति सञ्चिन्त्य मनसा तं देशं बहुशो भ्रमन्।
विशुद्धमिच्छन्गाङ्गेय धर्मोपेतं प्रतिग्रहम्॥ 1-130-52
अन्तादन्तं परिक्रम्य नाध्यगच्छं पयस्विनीम्।
अथ पिष्टोदकेनैनं लोभयन्ति कुमारकाः॥ 1-130-53
पीत्वा पिष्टरसं बालः क्षीरं पीतं मयापि च।
ननर्तोत्थाय कौरव्य हृष्टो बाल्याद्विमोहितः॥ 1-130-54
तं दृष्ट्वा नृत्यमानं तु बालैः परिवृतं सुतम्।
हास्यतामुपसम्प्राप्तं कश्मलं तत्र मेऽभवत्॥ 1-130-55
द्रोणं धिगस्त्वधनिनं यो धनं नाधिगच्छति।
पिष्टोदकं सुतो यस्य पीत्वा क्षीरस्य तृष्णया॥ 1-130-56
नृत्यति स्म मुदाविष्टः क्षीरं पीतं मयाप्युत।
इति सम्भाषतां वाचं श्रुत्वा मे बुद्धिरच्यवत्॥ 1-130-57
आत्मानं चात्मना गर्हन्मनसेदं व्यचिन्तयम्।
अपि चाहं पुरा विप्रैर्वर्जितो गर्हितो वसे॥ 1-130-58
परोपसेवां पापिष्ठां न च कुर्यां धनेप्सया।
इति मत्वा प्रियं पुत्रं भीष्मादाय ततो ह्यहम्॥ 1-130-59
पूर्वस्नेहानुरागित्वात्सदारः सौमकिं गतः।
अभिषिक्तं तु श्रुत्वैव कृतार्थोऽस्मीति चिन्तयन्॥ 1-130-60
प्रियं सखायं सुप्रीतो राज्यस्थं समुपागमम्।
संस्मरन्सङ्गमं चैव वचनं चैव तस्य तत्॥ 1-130-61
ततो द्रुपदमागम्य सखिपूर्वमहं प्रभो।
अब्रुवं पुरुषव्याघ्र सखायं विद्धि मामिति॥ 1-130-62
उपस्थितस्तु द्रुपदं सखिवच्चास्मि सङ्गतः।
स मां निराकारमिव प्रहसन्निदमब्रवीत्॥ 1-130-63
अकृतेयं तव प्रज्ञा ब्रह्मन्नातिसमञ्जसा।
यदात्थ मां त्वं प्रसभं सखा तेऽहमिति द्विज॥ 1-130-64
सङ्गतानीह जीर्यन्ति कालेन परिजीर्यतः।
सौहृदं मे त्वया ह्यासीत्पूर्वं सामर्थ्यबन्धनम्॥ 1-130-65
नाश्रोत्रियः श्रोत्रियस्य नारथी रथिनः सखा।
साम्याद्धि सख्यं भवति वैषम्यान्नोपपद्यते॥ 1-130-66
न सख्यमजरं लोके विद्यते जातु कस्यचित्। 
कालो वैनं विहरति क्रोधो वैनं हरत्युत॥ 1-130-67
मैवं जीर्णमुपास्स्व त्वं सख्यं[सत्यं] भवत्वपाकृधि।
आसीत्सख्यं द्विजश्रेष्ठ त्वया मेऽर्थनिबन्धनम्॥ 1-130-68
न ह्यनाढ्यः सखाढ्यस्य नाविद्वान्विदुषःसखा।
न शूरस्य सखा क्लीबः सखिपूर्वं किमिष्यते॥ 1-130-69
न हि राज्ञामुदीर्णानामेवम्भूतैर्नरैः क्वचित्।
सख्यं भवति मन्दात्मन्श्रियाहीनैर्धनच्युतैः॥ 1-130-70
नाश्रोत्रियः श्रोत्रियस्य नारथी रथिनः सखा।
नाराजा पार्थिवस्यापि सखिपूर्वं किमिष्यते॥ 1-130-71
अहं त्वया न जानामि राज्यार्थे संविदं कृताम्।
एकरात्रं तु ते ब्रह्मन्कामं दास्यामि भोजनम्॥ 1-130-72
एवमुक्तस्त्वहं तेन सदारः प्रस्थितस्तदा।
तां प्रतिज्ञां प्रतिज्ञाय यां कर्तास्म्यचिरादिव॥ 1-130-73
द्रुपदेनैवमुक्तोऽहं मन्युनाभिपरिप्लुतः।
अभ्यागच्छं कुरून्भीष्म शिष्यैरर्थी गुणान्वितैः॥ 1-130-74
ततोऽहं भवतः कामं संवर्धयितुमागतः।
इदं नागपुरं रम्यं ब्रूहि किं करवाणि ते॥ 1-130-75
वैशम्पायन उवाच
एवमुक्तस्तदा भीष्मो भारद्वाजमभाषत॥ 1-130-76
भीष्म उवाच
अपज्यं क्रियतां चापं साध्वस्त्रं प्रतिपादय।
भुङ्क्ष्व भोगान्भृशं प्रीतः पूज्यमानः कुरुक्षये।
कुरूणामस्ति यद्वित्तं राज्यं चेदं सराष्ट्रकम्॥ 1-130-77
त्वमेव परमो राजा सर्वे च कुरवस्तव।
यच्च ते प्रार्थितं ब्रह्मन्कृतं तदिति चिन्त्यताम्।
दिष्ट्या प्राप्तोऽसि विप्रर्षे महान्मेऽनुग्रहः कृतः॥ 1-130-78
इति श्रीमहाभारते आदिपर्वणि सम्भवपर्वणि भीष्मद्रोणसमागमे त्रिंशदधिकशततमोऽध्यायः॥ 130॥
Drona Drupada insulted 
Hastinapur Drona meets princes
ring well retrieve
Bhishma respectfully
द्रोण द्रुपद तिरस्कृत' हस्तिनापुर'
राजकुमारों' भेंट' अंगूठी' कुए'
निकालना' सम्मानपूर्वक'