Adiparva Adhyaya 10 (आदिपर्वणि अध्यायः १०)
Jump to navigation
Jump to search
रुरुरुवाच मम प्राणसमा भार्या दष्टासीद्भुजगेन ह। तत्र मे समयो घोर आत्मनोरगा वै कृतः॥ 1-10-1 भुजङ्गं वै सदा हन्यां यं यं पश्येयमित्युत। ततोऽहं त्वां जिघांसामि जीवितेनाद्य मोक्ष्यसे॥ 1-10-2 डुण्डुभ उवाच अन्ये ते भुजगा ब्रह्मन्ये दशन्तीह मानवान्। डुण्डुभानहिगन्धेन न त्वं हिंसितुमर्हसि॥ 1-10-3 एकानर्थान्पृथगर्थानेकदुःखान्पृथक्सुखान्। डुण्डुभान्धर्मविद्भूत्वा न त्वं हिंसितुमर्हसि॥ 1-10-4 सौतिरुवाच इति श्रुत्वा वचस्तस्य भुजगस्य रुरुस्तदा। नावधीद्भयसंविग्नमृषिं मत्वाथ डुण्डुभम्॥ 1-10-5 उवाच चैनं भगवान्रुरुः संशमयन्निव। कामं मां भुजग ब्रूहि कोऽसीमां विक्रियां गतः॥ 1-10-6 डुण्डुभ उवाच अहं पुरा रुरो नाम्ना ऋषिरासं सहस्रपात्। सोऽहं शापेन विप्रस्य भुजगत्वमुपागतः॥ 1-10-7 रुरुरुवाच किमर्थं सप्तवान्क्रुद्धो द्विजस्त्वां भुजगोत्तम। कियन्तं चैव कालं ते वपुरेतद्भविष्यति॥ 1-10-8 इति श्रीमहाभारते आदिपर्वणि पौलोमपर्वणि रुरुडुण्डुभसंवादे दशमोऽध्यायः॥ 10 ॥ Ruru Dundum conversation Ruru Dundum conversation रुरु डुण्डुमका संवाद रुरु डुण्डुम संवाद