Adiparva Adhyaya 135 (आदिपर्वणि अध्यायः १३५)

From Dharmawiki
Jump to navigation Jump to search

वैशम्पायन उवाच

एतस्मिन्नेव काले तु तस्मिन्जनसमागमे।

दत्तेऽवकाशे पुरुषैर्विस्मयोत्फुल्ललोचनः[नैः]।

विवेश रङ्गं विस्तीर्णं कर्णः परपुरञ्जयः॥ 1-135-1

सहजं कवचं बिभ्रत्कुण्डलोद्द्योतिताननः।

सधनुर्बद्धनिस्त्रिंशः पादचारीव पर्वतः॥ 1-135-2

कन्यागर्भः पृथुयशाः पृथायाः पृथुलोचनः।

तीक्ष्णांशोर्भास्करस्यांशः कर्णोऽरिगणसूदनः॥ 1-135-3

सिंहर्षभगजेन्द्राणां बलवीर्यपराक्रमः।

दीप्तिकान्तिद्युतिगुणैः सूर्येन्दुज्वलनोपमः॥ 1-135-4

प्रांशुः कनकतालाभः सिंहसंहननो युवा।

असङ्ख्येयगुणः श्रीमान्भास्करस्यात्मसम्भवः॥ 1-135-5

स निरीक्ष्य महाबाहुः सर्वतो रङ्गमण्डलम्।

प्रणामं द्रोणकृपयोर्नात्यादृतमिवाकरोत्॥ 1-135-6

स समाजजनः सर्वो निश्चलः स्थिरलोचनः।

कोऽयमित्यागतक्षोभः कौतूहलपरोऽभवत्॥ 1-135-7

विवेश रङ्गं विस्तीर्णं कर्णः परपुरञ्जयः॥

सहजं कवचं बिभ्रत्कुण्डलद्योतिताननः॥

सधनुर्बद्धनिस्त्रिंशः पादचारीव पर्वतः।

कानीनस्तु पृथुयशाः पृथापुत्रः प्रतापवान्॥

सोऽब्रवीन्मेघगम्भीरस्वरेण वदतां वरः।

भ्राता भ्रातरमज्ञातं सावित्रः पाकशासनिम्॥ 1-135-8

पार्थ यत्ते कृतं कर्म विशेषवदहं ततः।

करिष्ये पश्यतां नॄणा[णां]माऽऽत्मना विस्मयं गमः॥ 1-135-9

असमाप्ते ततस्तस्य वचने वदतां वर।

यन्त्रोत्क्षिप्त इवोत्तस्थौ क्षिप्रं वै सर्वतो जनः॥ 1-135-10

प्रीतिश्च मनुजव्याघ्र दुर्योधनमुपाविशत्।

ह्रीश्च क्रोधश्च बीभत्सुं क्षणेनान्वाविवेश ह॥ 1-135-11

ततो द्रोणाभ्यनुज्ञातः कर्णः प्रियरणः सदा।

यत्कृतं तत्र पार्थेन तच्चकार महाबलः॥ 1-135-12

अथ दुर्योधनस्तत्र भ्रातृभिः सह भारत।

कर्णं परिष्वज्य मुदा ततो वचनमब्रवीत्॥ 1-135-13

दुर्योधन उवाच

स्वागतं ते महाबाहो दिष्ट्या प्राप्तोऽसि मानद।

अहं च कुरुराज्यं च यथेष्टमुपभुज्यताम्॥ 1-135-14

कर्ण उवाच

कृतं सर्वमहं मन्ये सखित्वं च त्वया वृणे।

द्वन्द्वयुद्धं च पार्थेन कर्तुमिच्छाम्यहं प्रभो॥ 1-135-15

दुर्योधन उवाच

भुङ्क्ष्व भोगान्मया सार्धं बन्धूनां प्रियकृद्भव।

दुर्हृदां कुरु सर्वेषां मूर्ध्नि पादमरिन्दम॥ 1-135-16

वैशम्पायन उवाच

ततः क्षिप्तमिवात्मानं मत्वा पार्थोऽभ्यभाषत।

कर्णं भ्रातृसमूहस्य मध्येऽचलमिव स्थितम्॥ 1-135-17

अर्जुन उवाच

अनाहूतोपदि[सृ]ष्टानामनाहूतोपजल्पिनाम्।

ये लोकास्तान्हतः कर्ण मया त्वं प्रतिपत्स्यसे॥ 1-135-18

कर्ण उवाच

रङ्गोऽयं सर्वसामान्यः किमत्र तव फाल्गुन।

वीर्यश्रेष्ठाश्च राजानो बलं धर्मोऽनुवर्तते॥ 1-135-19

किं क्षेपैर्दुर्बलायासैः शरैः कथय भारत।

गुरोः समक्षं यावत्ते हराम्यद्य शिरः शरैः॥ 1-135-20

वैशम्पायन उवाच

ततो द्रोणाभ्यनुज्ञातः पार्थः परपुरञ्जयः।

भ्रातृभिस्त्वरयाऽऽश्लिष्टो रणायोपजगाम तम्॥ 1-135-21

ततो दुर्योधनेनापि सभ्रात्रा समरोद्यतः।

परिष्वक्तः स्थितः कर्णः प्रगृह्य सशरं धनुः॥ 1-135-22

ततः सविद्युत्स्तनितैः सेन्द्रायुधपुरोगमैः।

आवृतं गगनं मेघैर्बलाकापङ्क्तिदा[हा]सिभिः॥ 1-135-23

ततः स्नेहाद्धरिहयं दृष्ट्वा रङ्गावलोकिनम्।

भास्करोऽप्यनयन्नाशं समीपोपगतान्घनान्॥ 1-135-24

मेघच्छायोपगूढस्तु ततोऽदृश्यत फाल्गुनः।

सूर्यातपपरिक्षिप्तः कर्णोऽपि समदृश्यत॥ 1-135-25

धार्तराष्ट्रा यतः कर्णस्तस्मिन्देशे व्यवस्थिताः।

भारद्वाजः कृपो भीष्मो यतः पार्थस्ततोऽभवन्॥ 1-135-26

द्विधा रङ्गः समभवत्स्त्रीणां द्वैधमजायत।

कुन्तिभोजसुता मोहं विज्ञातार्था जगाम ह॥ 1-135-27

तां तथा मोहमापन्नां विदुरः सर्वधर्मवित्।

कुन्तीमाश्वासयामास प्रेष्याभिश्चन्दनोदकैः॥ 1-135-28

ततः प्रत्यागतप्राणा तावुभौ परिदंशितौ।

पुत्रौ दृष्ट्वा सुसम्भ्रान्ता नान्वपद्यत किञ्चन॥ 1-135-29

तावुद्यतमहाचापौ कृपः शारद्वतोऽब्रवीत्।

द्वन्द्वयुद्धसमाचारे कुशलः सर्वधर्मवित्॥ 1-135-30

अयं पृथायास्तनयः कनीयान्पाण्डुनन्दनः।

कौरवो भवता सार्धं द्वन्द्वयुद्धं करिष्यति॥ 1-135-31

त्वमप्येवं महाबाहो मातरं पितरं कुलम्।

कथयस्व नरेन्द्राणां येषां त्वं कुलभूषणः[णम्]॥ 1-135-32

ततो विदित्वा पार्थस्त्वां प्रतियोत्स्यति वा न वा।

वृथाकुलसमाचारैर्न युध्यन्ते नृपात्मजाः॥ 1-135-33

वैशम्पायन उवाच

एवमुक्तस्य कर्णस्य व्रीडावनतमाननम्।

बभौ वर्षाम्बुविक्लिन्नं पद्ममागलितं यथा॥ 1-135-34

दुर्योधन उवाच

आचार्य त्रिविधा योनी राज्ञां शास्त्रविनिश्चये।

सत्कुलीनश्च शूरश्च यश्च सेनां प्रकर्षति॥ 1-135-35

अद्भ्योऽग्निर्ब्रह्मणः क्षत्रमश्मनो लोहमुत्थितम्।

तेषां सर्वगतं तेजः स्वासु योनिषु शाम्यति॥

यद्ययं फाल्गुनो युद्धे नाराज्ञा योद्धुमिच्छति।

तस्मादेषोऽङ्गविषये मया राज्येऽभिषिच्यते॥ 1-135-36

वैशम्पायन उवाच

(ततो राजानमामन्त्र्य गाङ्गेयं च पितामहम्।

अभिषेकस्य सम्भारान्समानीय द्विजातिभिः॥)

गोसहस्रायुतं दत्त्वा युक्तानां पुण्यकर्मणाम्।

अर्होऽयमङ्गराज्यस्य इति वाच्य द्विजातिभिः॥

ततस्तस्मिन्क्षणे कर्णः सलाजकुसुमैर्घटैः।

काञ्चनैः काञ्चने पीठे मन्त्रविद्भिर्महारथः॥ 1-135-37

अभिषिक्तोऽङ्गराज्यस्य[ज्ये स] श्रिया युक्तो महाबलः।

(समौलिहारकेयूरैः सहस्ताभरणाङ्गदैः।

राजलिङ्गैस्तथान्यैश्च भूषितो भूषणैः शुभैः॥)

सच्छत्रवालव्यजनो जयशब्दोत्तरेण च॥ 1-135-38

(सभाज्यमानो विप्रैश्च प्रदत्त्वा ह्यमितं वसु।)

उवाच कौरवं राजा[जन्] वचनं स वृषस्तदा।

अस्य राज्यप्रदानस्य सदृशं किं ददानि ते॥ 1-135-39

प्रब्रूहि राजशार्दूल कर्ता ह्यस्मि तथा नृप।

अत्यन्तं सख्यमिच्छामीत्याह तं स सुयोधनः॥ 1-135-40

एवमुक्तस्ततः कर्णस्तथेति प्रत्युवाच तम्।

हर्षाच्चोभौ समाश्लिष्य परां मुदमवापतुः॥ 1-135-41

इति श्रीमहाभारते आदिपर्वणि सम्भवपर्वणि कर्णाभिषेके पञ्चत्रिंशदधिकशततमोऽध्यायः॥ 135॥