Vibhuti Yoga (विभूतियोगः)

From Dharmawiki
Revision as of 11:24, 7 March 2020 by Tsvora (talk | contribs) (→‎Verses)
Jump to navigation Jump to search
ToBeEdited.png
This article needs editing.

Add and improvise the content from reliable sources.

Vibhuti Yoga (Samskrit: विभूतियोगः) is the commonly given name to the tenth chapter of the Bhagavad Gita. This chapter elaborates on the cosmic powers of the supreme reality through which He controls the diverse forces of the Universe explaining how He is the Almighty power that creates, sustains and destroys everything. It is also in this chapter that Shri Krishna explains how ignorance is destroyed and knowledge is gained through Divine Grace alone.

परिचयः ॥ Introduction

In this Chapter, Arjuna accepts the descent of the Supreme in a human form, but wishes to know from Krishna, His Cosmic powers by means of which He controls the diverse forces of the universe. Krishna therefore, describes His Divine glories, bringing within the range of Arjuna’s comprehension His limitless manifestations, and how He upholds everything. He expounds on the fact that the Supreme reality is the Power that creates, sustains and destroys everything.[1]

अध्यायसारः ॥ Summary of the Tenth Chapter

Krishna in this Chapter, tells Arjuna that even the devas and highly evolved individuals fail to understand how the Supreme being projects Himself as the universe and all its manifestations. He describes the various qualities that beings manifest according to their Karmas and says that all those qualities such as wisdom, truth, contentment, etc. also originate from the Supreme.

  • Divine Grace

Krishna also declares that ignorance is destroyed and knowledge is gained through Divine Grace alone. He says, when devotee is truly and wholly absorbed in Him, there is complete surrender. This single-minded devotion, grants them the power of discrimination; the discrimination that leads them from the unreal to the Real. [1]

Verses

ॐ श्रीपरमात्मने नमः अथ दशमोऽध्यायः

श्रीभगवानुवाच

śrī-bhagavān uvāca

भूय एव महाबाहो शृणु मे परमं वचः । यत्तेऽहं प्रीयमाणाय वक्ष्यामि हितकाम्यया ॥१०- १॥

bhūya eva mahā-bāho śṛṇu me paramaṁ vacaḥ yat te ’haṁ prīyamāṇāya vakṣyāmi hita-kāmyayā ॥ 10 - 1 ॥

न मे विदुः सुरगणाः प्रभवं न महर्षयः। अहमादिर्हि देवानां महर्षीणां च सर्वशः।।१०- २।।

na me viduḥ sura-gaṇāḥ prabhavaṁ na maharṣayaḥ aham ādir hi devānāṁ maharṣīṇāṁ ca sarvaśaḥ ॥ 10 - 2 ॥

यो मामजमनादिं च वेत्ति लोकमहेश्वरम् । असंमूढः स मर्त्येषु सर्वपापैः प्रमुच्यते ॥१०- ३॥

yo mām ajam anādiṁ ca vetti loka-maheśvaram asammūḍhaḥ sa martyeṣu sarva-pāpaiḥ pramucyate ॥ 10 - 3 ॥

बुद्धिर्ज्ञानमसंमोहः क्षमा सत्यं दमः शमः । सुखं दुःखं भवोऽभावो भयं चाभयमेव च ॥१०- ४॥

buddhir jñānam asammohaḥ kṣamā satyaṁ damaḥ śamaḥ sukhaṁ duḥkhaṁ bhavo ’bhāvo bhayaṁ cābhayam eva ca ॥ 10 - 4 ॥

अहिंसा समता तुष्टिस्तपो दानं यशोऽयशः । भवन्ति भावा भूतानां मत्त एव पृथग्विधाः ॥१०- ५॥

ahiṁsā samatā tuṣṭis tapo dānaṁ yaśo ’yaśaḥ bhavanti bhāvā bhūtānāṁ matta eva pṛthag-vidhāḥ ॥ 10 - 5 ॥

महर्षयः सप्त पूर्वे चत्वारो मनवस्तथा । मद्भावा मानसा जाता येषां लोक इमाः प्रजाः ॥१०- ६॥

maharṣayaḥ sapta pūrve catvāro manavas tathā mad-bhāvā mānasā jātā yeṣāṁ loka imāḥ prajāḥ ॥ 10 - 6 ॥

एतां विभूतिं योगं च मम यो वेत्ति तत्त्वतः । सोऽविकम्पेन योगेन युज्यते नात्र संशयः ॥१०- ७॥

अहं सर्वस्य प्रभवो मत्तः सर्वं प्रवर्तते । इति मत्वा भजन्ते मां बुधा भावसमन्विताः ॥१०- ८॥

मच्चित्ता मद्गतप्राणा बोधयन्तः परस्परम् । कथयन्तश्च मां नित्यं तुष्यन्ति च रमन्ति च ॥१०- ९॥

तेषां सततयुक्तानां भजतां प्रीतिपूर्वकम् । ददामि बुद्धियोगं तं येन मामुपयान्ति ते ॥१०- १०॥

तेषामेवानुकम्पार्थमहमज्ञानजं तमः । नाशयाम्यात्मभावस्थो ज्ञानदीपेन भास्वता ॥१०- ११॥

अर्जुन उवाच

परं ब्रह्म परं धाम पवित्रं परमं भवान् । पुरुषं शाश्वतं दिव्यमादिदेवमजं विभुम् ॥१०- १२॥

आहुस्त्वामृषयः सर्वे देवर्षिर्नारदस्तथा । असितो देवलो व्यासः स्वयं चैव ब्रवीषि मे ॥१०- १३॥

सर्वमेतदृतं मन्ये यन्मां वदसि केशव । न हि ते भगवन्व्यक्तिं विदुर्देवा न दानवाः ॥१०- १४॥

स्वयमेवात्मनात्मानं वेत्थ त्वं पुरुषोत्तम । भूतभावन भूतेश देवदेव जगत्पते ॥१०- १५॥

वक्तुमर्हस्यशेषेण दिव्या ह्यात्मविभूतयः । याभिर्विभूतिभिर्लोकानिमांस्त्वं व्याप्य तिष्ठसि ॥१०- १६॥

कथं विद्यामहं योगिंस्त्वां सदा परिचिन्तयन् । केषु केषु च भावेषु चिन्त्योऽसि भगवन्मया ॥१०- १७॥

विस्तरेणात्मनो योगं विभूतिं च जनार्दन । भूयः कथय तृप्तिर्हि शृण्वतो नास्ति मेऽमृतम् ॥१०- १८॥

श्रीभगवानुवाच

हन्त ते कथयिष्यामि दिव्या ह्यात्मविभूतयः । प्राधान्यतः कुरुश्रेष्ठ नास्त्यन्तो विस्तरस्य मे ॥१०- १९॥

अहमात्मा गुडाकेश सर्वभूताशयस्थितः । अहमादिश्च मध्यं च भूतानामन्त एव च ॥१०- २०॥

आदित्यानामहं विष्णुर्ज्योतिषां रविरंशुमान् । मरीचिर्मरुतामस्मि नक्षत्राणामहं शशी ॥१०- २१॥

वेदानां सामवेदोऽस्मि देवानामस्मि वासवः । इन्द्रियाणां मनश्चास्मि भूतानामस्मि चेतना ॥१०- २२॥

रुद्राणां शंकरश्चास्मि वित्तेशो यक्षरक्षसाम् । वसूनां पावकश्चास्मि मेरुः शिखरिणामहम् ॥१०- २३॥

पुरोधसां च मुख्यं मां विद्धि पार्थ बृहस्पतिम् । सेनानीनामहं स्कन्दः सरसामस्मि सागरः ॥१०- २४॥

महर्षीणां भृगुरहं गिरामस्म्येकमक्षरम् । यज्ञानां जपयज्ञोऽस्मि स्थावराणां हिमालयः ॥१०- २५॥

अश्वत्थः सर्ववृक्षाणां देवर्षीणां च नारदः । गन्धर्वाणां चित्ररथः सिद्धानां कपिलो मुनिः ॥१०- २६॥

उच्चैःश्रवसमश्वानां विद्धि माममृतोद्भवम् । ऐरावतं गजेन्द्राणां नराणां च नराधिपम् ॥१०- २७॥

आयुधानामहं वज्रं धेनूनामस्मि कामधुक् । प्रजनश्चास्मि कन्दर्पः सर्पाणामस्मि वासुकिः ॥१०- २८॥

अनन्तश्चास्मि नागानां वरुणो यादसामहम् । पितॄणामर्यमा चास्मि यमः संयमतामहम् ॥१०- २९॥

प्रह्लादश्चास्मि दैत्यानां कालः कलयतामहम् । मृगाणां च मृगेन्द्रोऽहं वैनतेयश्च पक्षिणाम् ॥१०- ३०॥

पवनः पवतामस्मि रामः शस्त्रभृतामहम् । झषाणां मकरश्चास्मि स्रोतसामस्मि जाह्नवी ॥१०- ३१॥

सर्गाणामादिरन्तश्च मध्यं चैवाहमर्जुन । अध्यात्मविद्या विद्यानां वादः प्रवदतामहम् ॥१०- ३२॥

अक्षराणामकारोऽस्मि द्वन्द्वः सामासिकस्य च । अहमेवाक्षयः कालो धाताहं विश्वतोमुखः ॥१०- ३३॥

मृत्युः सर्वहरश्चाहमुद्भवश्च भविष्यताम् । कीर्तिः श्रीर्वाक्च नारीणां स्मृतिर्मेधा धृतिः क्षमा ॥१०- ३४॥

बृहत्साम तथा साम्नां गायत्री छन्दसामहम् । मासानां मार्गशीर्षोऽहमृतूनां कुसुमाकरः ॥१०- ३५॥

द्यूतं छलयतामस्मि तेजस्तेजस्विनामहम् । जयोऽस्मि व्यवसायोऽस्मि सत्त्वं सत्त्ववतामहम् ॥१०- ३६॥

वृष्णीनां वासुदेवोऽस्मि पाण्डवानां धनंजयः । मुनीनामप्यहं व्यासः कवीनामुशना कविः ॥१०- ३७॥

दण्डो दमयतामस्मि नीतिरस्मि जिगीषताम् । मौनं चैवास्मि गुह्यानां ज्ञानं ज्ञानवतामहम् ॥१०- ३८॥

यच्चापि सर्वभूतानां बीजं तदहमर्जुन । न तदस्ति विना यत्स्यान्मया भूतं चराचरम् ॥१०- ३९॥

नान्तोऽस्ति मम दिव्यानां विभूतीनां परन्तप । एष तूद्देशतः प्रोक्तो विभूतेर्विस्तरो मया ॥१०- ४०॥

श्रीमदूर्जितमेव वा । तत्तदेवावगच्छ त्वं मम तेजोंऽशसंभवम् ॥१०- ४१॥

अथवा बहुनैतेन किं ज्ञातेन तवार्जुन । विष्टभ्याहमिदं कृत्स्नमेकांशेन स्थितो जगत् ॥१०- ४२॥

References

  1. 1.0 1.1 Swami Sivananda (2000), Bhagavad Gita, Uttar Pradesh: The Divine Life Society, The Yoga of the Divine Glories.