Vanaparva Adhyaya 7 (वनपर्वणि अध्यायः ७)

From Dharmawiki
Revision as of 08:53, 4 August 2019 by ShraddhaV (talk | contribs) (Added tags)
Jump to navigation Jump to search

वैशम्पायन उवाच

श्रुत्वा च विदुरं प्राप्तं राज्ञा च परिसान्त्वितम्।
धृतराष्ट्रात्मजो राजा पर्यतप्यत दुर्मतिः॥ 3-7-1
स सौबलेयमानाय्य कर्णदुःशासनौ तथा।
अब्रवीद्वचनं राजा प्रविश्याबुद्धिजं तमः॥ 3-7-2
एष प्रत्यागतो मन्त्री धृतराष्ट्रस्य धीमतः।
विदुरः पाण्डुपुत्राणां सुहृद्विद्वान्हिते रतः॥ 3-7-3
यावदस्य पुनर्बुद्धिं विदुरो नापकर्षति।
पाण्डवानयने तावन्मन्त्रयध्वं हितं मम॥ 3-7-4
अथ पश्याम्यहं पार्थान्प्राप्तानिह कथञ्चन।
पुनः शोषं गमिष्यामि निरम्बुर्निरवग्रहः॥ 3-7-5
विषमुद्बन्धनं चैव शस्त्रमग्निप्रवेशनम्।
करिष्ये न हि तानृद्धान्पुनर्द्रष्टुमिहोत्सहे॥ 3-7-6
Duryodhana's hatred for Pandavas

शकुनिरुवाच

किं बालिशमतिं राजन्नास्थितोऽसि विशाम्पते।
गतास्ते समयं कृत्वा नैतदेवं भविष्यति॥ 3-7-7
सत्यवाक्यस्थिताः सर्वे पाण्डवा भरतर्षभ।
पितुस्ते वचनं तात न ग्रहीष्यन्ति कर्हिचित्॥ 3-7-8
प्रतिज्ञा


अथवा ते ग्रहीष्यन्ति पुनरेष्यन्ति वा पुरम्।
निरस्य समयं सर्वे पणोऽस्माकं भविष्यति॥ 3-7-9
सर्वे भवामो मध्यस्था राज्ञश्छन्दानुवर्तिनः।
छिद्रं बहु प्रपश्यन्तः पाण्डवानां सुसंवृताः॥ 3-7-10

दुःशासन उवाच

एवमेतन्महाप्राज्ञ यथा वदसि मातुल।
नित्यं हि मे कथयतस्तव बुद्धिर्विरोचते॥ 3-7-11

कर्ण उवाच

काममीक्षामहे सर्वे दुर्योधन तवेप्सितम्।

ऐकमत्यं हि नो राजन्सर्वेषामेव लक्षये॥ 3-7-12

नागमिष्यन्ति ते धीरा अकृत्वा कालसंविदम्।

आगमिष्यन्ति चेन्मोहात्पुनर्द्यूतेन ताञ्जय॥ 3-7-13

वैशम्पायन उवाच

एवमुक्तस्तु कर्णेन राजा दुर्योधनस्तदा।

नातिहृष्टमनाः क्षिप्रमभवत्स पराङ्मुखः॥ 3-7-14

उपलभ्य ततः कर्णो विवृत्य नयने शुभे।

रोषाद्दुःशासनं चैव सौबलं च तमेव च॥ 3-7-15

उवाच परमक्रुद्ध उद्यम्यात्मानमात्मना।

अथो मम मतं यत्तु तन्निबोधत भूमिपाः॥ 3-7-16

प्रियं सर्वे करिष्यामो राज्ञः किङ्करपाणयः।

न चास्य शक्नुमः स्थातुं प्रिये सर्वे ह्यतन्द्रिताः॥ 3-7-17

वयं तु शस्त्राण्यादाय रथानास्थाय दंशिताः।

गच्छामः सहिता हन्तुं पाण्डवान्वनगोचरान्॥ 3-7-18

तेषु सर्वेषु शान्तेषु गतेष्वविदितां गतिम्।

निर्विवादा भविष्यन्ति धार्तराष्ट्रास्तथा वयम्॥ 3-7-19

यावदेव परिद्यूना यावच्छोकपरायणाः।

यावन्मित्रविहीनाश्च तावच्छक्या मतं मम॥ 3-7-20

तस्य तद्वचनं श्रुत्वा पूजयन्तः पुनः पुनः।

बाढमित्येव ते सर्वे प्रत्यूचुः सूतजं तदा॥ 3-7-21

@एतत्कृत्यतमं राज्ञः कौरवस्य महात्मनः॥@

एवमुक्त्वा सुसंरब्धा रथैः सर्वे पृथक्पृथक्।

निर्ययुः पाण्डवान्हन्तुं सहिताः कृतनिश्चयाः॥ 3-7-22

तान्प्रस्थितान्परिज्ञाय कृष्णद्वैपायनः प्रभुः।

आजगाम विशुद्धात्मा दृष्ट्वा दिव्येन चक्षुषा॥ 3-7-23

प्रतिषिध्याथ तान्सर्वान्भगवाँल्लोकपूजितः।

प्रज्ञाचक्षुषमासीनमुवाचाभ्येत्य सत्वरम्॥ 3-7-24

इति श्रीमहाभारते वनपर्वणि अरण्यपर्वणि व्यासागमने सप्तमोऽध्यायः॥ 7 ॥