Difference between revisions of "Vanaparva Adhyaya 6 (वनपर्वणि अध्यायः ६)"

From Dharmawiki
Jump to navigation Jump to search
(Created vanaparva aranyaparva adhyay 6 page. Added verses in the chapter)
 
m
Line 1: Line 1:
गते तु विदुरे राजन्नाश्रमं पाण्डवान्प्रति।
+
गते तु विदुरे राजन्नाश्रमं पाण्डवान्प्रति।
 
+
धृतराष्ट्रो महाप्राज्ञः पर्यतप्यत भारत॥ 3-6-1
धृतराष्ट्रो महाप्राज्ञः पर्यतप्यत भारत॥ 3-6-1
+
विदुरस्य प्रभावं च सन्धिविग्रहकारितम्।
 
+
विवृद्धिं च परां मत्वा पाण्डवानां भविष्यति॥ 3-6-2
विदुरस्य प्रभावं च सन्धिविग्रहकारितम्।
+
स सभाद्वारमागम्य विदुरस्मारमोहितः।
 
+
समक्षं पार्थिवेन्द्राणां पपाताविष्टचेतनः॥ 3-6-3
विवृद्धिं च परां मत्वा पाण्डवानां भविष्यति॥ 3-6-2
+
स तु लब्ध्वा पुनः संज्ञां समुत्थाय महीतलात्।
 
+
समीपोपस्थितं राजा सञ्जयं वाक्यमब्रवीत्॥ 3-6-4
स सभाद्वारमागम्य विदुरस्मारमोहितः।
+
भ्राता मम सुहृच्चैव साक्षाद्धर्म इवापरः।
 
+
तस्य स्मृत्याद्य सुभृशं हृदयं दीर्यतीव मे॥ 3-6-5
समक्षं पार्थिवेन्द्राणां पपाताविष्टचेतनः॥ 3-6-3
+
तमानयस्व धर्मज्ञं मम भ्रातरमाशु वै।
 
+
इति ब्रुवन्स नृपतिः कृपणं पर्यदेवयत्॥ 3-6-6
स तु लब्ध्वा पुनः संज्ञां समुत्थाय महीतलात्।
+
पश्चात्तापाभिसन्तप्तो विदुरस्मारमोहितः।
 
+
भ्रातृस्नेहादिदं राजा सञ्जयं वाक्यमब्रवीत्॥ 3-6-7
समीपोपस्थितं राजा सञ्जयं वाक्यमब्रवीत्॥ 3-6-4
+
गच्छ सञ्जय जानीहि भ्रातरं विदुरं मम।
 
+
यदि जीवति रोषेण मया पापेन निर्धुतः॥ 3-6-8
भ्राता मम सुहृच्चैव साक्षाद्धर्म इवापरः।
+
न हि तेन मम भ्रात्रा सुसूक्ष्ममपि किञ्चन।
 
+
व्यलीकं कृतपूर्वं वै प्राज्ञेनामितबुद्धिना॥ 3-6-9
तस्य स्मृत्याद्य सुभृशं हृदयं दीर्यतीव मे॥ 3-6-5
+
स व्यलीकं परं प्राप्तो मत्तः परमबुद्धिमान्।
 
+
त्यक्ष्यामि जीवितं प्राज्ञ तं गच्छानय सञ्जय॥ 3-6-10
तमानयस्व धर्मज्ञं मम भ्रातरमाशु वै।
+
  [[:Category:Dhrtarashtra and Vidura|''Dhrtarashtra and Vidura'']]
 
 
इति ब्रुवन्स नृपतिः कृपणं पर्यदेवयत्॥ 3-6-6
 
 
 
पश्चात्तापाभिसन्तप्तो विदुरस्मारमोहितः।
 
 
 
भ्रातृस्नेहादिदं राजा सञ्जयं वाक्यमब्रवीत्॥ 3-6-7
 
 
 
गच्छ सञ्जय जानीहि भ्रातरं विदुरं मम।
 
 
 
यदि जीवति रोषेण मया पापेन निर्धुतः॥ 3-6-8
 
 
 
न हि तेन मम भ्रात्रा सुसूक्ष्ममपि किञ्चन।
 
 
 
व्यलीकं कृतपूर्वं वै प्राज्ञेनामितबुद्धिना॥ 3-6-9
 
 
 
स व्यलीकं परं प्राप्तो मत्तः परमबुद्धिमान्।
 
 
 
त्यक्ष्यामि जीवितं प्राज्ञ तं गच्छानय सञ्जय॥ 3-6-10
 
  
 
तस्य तद्वचनं श्रुत्वा राज्ञस्तमनुमान्य च।
 
तस्य तद्वचनं श्रुत्वा राज्ञस्तमनुमान्य च।

Revision as of 18:12, 3 August 2019

गते तु विदुरे राजन्नाश्रमं पाण्डवान्प्रति।
धृतराष्ट्रो महाप्राज्ञः पर्यतप्यत भारत॥ 3-6-1
विदुरस्य प्रभावं च सन्धिविग्रहकारितम्।
विवृद्धिं च परां मत्वा पाण्डवानां भविष्यति॥ 3-6-2
स सभाद्वारमागम्य विदुरस्मारमोहितः।
समक्षं पार्थिवेन्द्राणां पपाताविष्टचेतनः॥ 3-6-3
स तु लब्ध्वा पुनः संज्ञां समुत्थाय महीतलात्।
समीपोपस्थितं राजा सञ्जयं वाक्यमब्रवीत्॥ 3-6-4
भ्राता मम सुहृच्चैव साक्षाद्धर्म इवापरः।
तस्य स्मृत्याद्य सुभृशं हृदयं दीर्यतीव मे॥ 3-6-5
तमानयस्व धर्मज्ञं मम भ्रातरमाशु वै।
इति ब्रुवन्स नृपतिः कृपणं पर्यदेवयत्॥ 3-6-6
पश्चात्तापाभिसन्तप्तो विदुरस्मारमोहितः।
भ्रातृस्नेहादिदं राजा सञ्जयं वाक्यमब्रवीत्॥ 3-6-7
गच्छ सञ्जय जानीहि भ्रातरं विदुरं मम।
यदि जीवति रोषेण मया पापेन निर्धुतः॥ 3-6-8
न हि तेन मम भ्रात्रा सुसूक्ष्ममपि किञ्चन।
व्यलीकं कृतपूर्वं वै प्राज्ञेनामितबुद्धिना॥ 3-6-9
स व्यलीकं परं प्राप्तो मत्तः परमबुद्धिमान्।
त्यक्ष्यामि जीवितं प्राज्ञ तं गच्छानय सञ्जय॥ 3-6-10
 Dhrtarashtra and Vidura 

तस्य तद्वचनं श्रुत्वा राज्ञस्तमनुमान्य च।

सञ्जयो बाढमित्युक्त्वा प्राद्रवत्काम्यकं प्रति॥ 3-6-11

सोऽचिरेण समासाद्य तद्वनं यत्र पाण्डवाः।

रौरवाजिनसंवीतं ददर्शाथ युधिष्ठिरम्॥ 3-6-12

विदुरेण सहासीनं ब्राह्मणैश्च सहस्रशः।

भ्रातृभिश्चाभिसंगुप्तं देवैरिव पुरन्दरम्॥ 3-6-13

युधिष्ठिरमुपागम्य पूजयामास सञ्जयः।

भीमार्जुनयमाश्चापि तद्युक्तं प्रतिपेदिरे॥ 3-6-14

राज्ञा पृष्टः स कुशलं सुखासीनश्च सञ्जयः।

शशंसागमने हेतुमिदं चैवाब्रवीद्वचः॥ 3-6-15

सञ्जय उवाच

राजा स्मरति ते क्षत्तर्धृतराष्ट्रोऽम्बिकासुतः।

तं पश्य गत्वा त्वं क्षिप्रं सञ्जीवय च पार्थिवम्॥ 3-6-16

सोऽनुमान्य नरश्रेष्ठान्पाण्डवान्कुरुनन्दनान्।

नियोगाद्राजसिंहस्य गन्तुमर्हसि सत्तम॥ 3-6-17

वैशम्पायन उवाच

एवमुक्तस्तु विदुरो धीमान्स्वजनवत्सलः[वल्लभः]।

युधिष्ठिरस्यानुमते पुनरायाद्गजाह्वयम्॥ 3-6-18

@सोऽभिगत्वा तदा वेश्म राज्ञस्तमभिवाद्य च।

उपातिष्ठन्महात्मानं राजानं प्रत्यवर्तत॥@

तमब्रवीन्महातेजा धृतराष्ट्रोऽम्बिकासुतः।

दिष्ट्या प्राप्तोऽसि धर्मज्ञ दिष्ट्या स्मरसि मेऽनघ॥ 3-6-19

अद्य रात्रौ दिवा चाहं त्वत्कृते भरतर्षभ।

प्रजागरे प्रपश्यामि विचित्रं देहमात्मनः॥ 3-6-20

@चिन्तयाऽहं परिल्लिष्टसः त्वद्गतेनान्तरात्मना॥@

सोऽङ्कमानीय विदुरं मूर्धन्याघ्राय चैव ह।

क्षम्यतामिति चोवाच यदुक्तोऽसि मयानघ॥ 3-6-21

विदुर उवाच

क्षान्तमेव मया राजन्गुरुर्मे परमो भवान्।

एषोऽहमागतः शीघ्रं त्वद्दर्शनपरायणः॥ 3-6-22

भवन्ति हि नरव्याघ्र पुरुषा धर्मचेतसः।

दीनाभिपातिनो राजन्नात्र कार्या विचारणा॥ 3-6-23

पाण्डोः सुता यादृशा मे तादृशास्तव भारत।

दीना इतीव मे बुद्धिरभिपन्नाद्य तान्प्रति॥ 3-6-24

वैशम्पायन उवाच

अन्योन्यमनुनीयैवं भ्रातरौ द्वौ महाद्युती।

विदुरो धृतराष्ट्रश्च लेभाते परमां मुदम्॥ 3-6-25

इति श्रीमहाभारते वनपर्वणि अरण्यपर्वणि विदुरप्रत्यागमने षष्ठोऽध्यायः॥ 6 ॥