Vanaparva Adhyaya 5 (वनपर्वणि अध्यायः ५)

From Dharmawiki
Revision as of 07:58, 22 July 2019 by ShraddhaV (talk | contribs) (Added tag words to chapter 5 shlokas)
Jump to navigation Jump to search

वैशम्पायन उवाच

पाण्डवास्तु वने वासमुद्दिश्य भरतर्षभाः।
प्रययुः जाह्नवीकूलात्कुरुक्षेत्रं सहानुगाः॥ 3-5-1
सरस्वतीदृषद्वत्यौ यमुनां च निषेव्य ते।
ययुर्वनेनैव वनं सततं पश्चिमां दिशम्॥ 3-5-2
Pandava's exile  वनवास
ततः सरस्वतीकूले समेषु मरुधन्वसु।
काम्यकं नाम ददृशुर्वनं मुनिजनप्रियम्॥ 3-5-3
तत्र ते न्यवसन्वीरा वने बहुमृगद्विजे।
अन्वास्यमाना मुनिभिः सान्त्व्यमानाश्च भारत॥ 3-5-4
Kamyavan  काम्यवन
विदुरस्त्वथ पाण्डूनां सदा दर्शनलालसः।
जगामैकरथेनैव काम्यकं वनमृद्धिमत्॥ 3-5-5
ततो गत्वा विदुरः काम्यकं तच्छीघ्रैरश्वैर्वाहिना स्यन्दनेन।
ददर्शासीनं धर्मात्मानं विविक्ते सार्धं द्रौपद्या भातृभिर्ब्राह्मणैश्च॥ 3-5-6
ततोऽपश्यद्विदुरं तूर्णमारादभ्यायान्तं सत्यसन्धः स राजा।
अथाब्रवीद्भ्रातरं भीमसेनं किं नु क्षत्ता वक्ष्यति नः समेत्य॥ 3-5-7
Vidura meets Pandavas  विदुर पांडव मिलन 

कच्चिन्नायं वचनात्सौबलस्य समाह्वाता देवनायोपयातः।

कच्चित्क्षुद्रः शकुनिर्नायुधानि जेष्यत्यस्मान्पुनरेवाक्षवत्याम्॥ 3-5-8

समाहूतः केनचिदाद्रवेति नाहं शक्तो भीमसेनापयातुम्।

गाण्डीवे च संशयिते कथं नु राज्यप्राप्तिः संशयिता भवेन्नः॥ 3-5-9

वैशम्पायन उवाच

तत उत्थाय विदुरं पाण्डवेयाः प्रत्यगृह्णन्नृपते सर्व एव।
तैः सत्कृतः स च तानाजमीढो यथोचितं पाण्डुपुत्रान्समेयात्॥ 3-5-10
समाश्वस्तं विदुरं ते नरर्षभास्ततोऽपृच्छन्नागमनाय हेतुम्।
स चापि तेभ्यो विस्तरतः शशंस यथावृत्तो धृतराष्ट्रोऽम्बिकेयः॥ 3-5-11
Vidura Pandava conversation

विदुर उवाच

अवोचन्मां धृतराष्ट्रोऽनुगुप्तमजातशत्रो परिगृह्याभिपूज्य।
एवं गते समतामभ्युपेत्य पथ्यं तेषां मम चैव ब्रवीहि॥ 3-5-12
मयाप्युक्तं यत्क्षेमं कौरवाणां हितं पथ्यं धृतराष्ट्रस्य चैव।
तद्वै तस्मै न रुचामभ्युपैति ततश्चाहं क्षेममन्यन्न मन्ये॥ 3-5-13
Vidura Pandava conversation
परं श्रेयः पाण्डवेया मयोक्तं न मे तच्च श्रुतवानाम्बिकेयः।
यथाऽऽतुरस्येव हि पथ्यमन्नं न रोचते स्मास्य तदुच्यमानम्॥ 3-5-14
Vidura Pandava conversation Accepting advice


न श्रेयसे नीयतेऽजातशत्रो स्त्री श्रोत्रियस्येव गृहे प्रदुष्टा।
ध्रुवं न रोचेद्भरतर्षभस्य पतिः कुमार्या इव षष्टिवर्षः॥ 3-5-15
Vidura Pandava conversation Accepting advice
ध्रुवं विनाशो नृप कौरवाणां न वै श्रेयो धृतराष्ट्रः परैति।
यथा च पर्णे पुष्करस्यावसिक्तं जलं न तिष्ठेत्पथ्यमुक्तं तथास्मिन्॥ 3-5-16
Vidura Pandava conversation Accepting advice
ततः क्रुद्धो धृतराष्ट्रोऽब्रवीन्मां यस्मिन्श्रद्धा भारत तत्र याहि।
नाहं भूयः कामये त्वां सहायं महीमिमां पालयितुं पुरं वा॥ 3-5-17
Vidura Pandava conversation Dhrtarashtra
सोऽहं त्यक्तो धृतराष्ट्रेण राज्ञा प्रशासितुं त्वामुपयातो नरेन्द्र।
तद्वै सर्वं यन्मयोक्तं सभायां तद्धार्यतां यत्प्रवक्ष्यामि भूयः॥ 3-5-18
Vidura Pandava conversation Qualities of a king
क्लेशैस्तीव्रैर्युज्यमानः सपत्नैः क्षमां कुर्वन्कालमुपासते यः।
संवर्धयन्स्तोकमिवाग्निमात्मवान्स वै भुङ्क्ते पृथिवीमेक एव॥ 3-5-19
Vidura Pandava conversation Qualities of a king
यस्याविभक्तं वसु राजन्सहायैस्तस्य दुःखेऽप्यंशभाजः सहायाः।
सहायानामेष सङ्ग्रहणेऽध्युपायः सहायाप्तौ पृथिवीप्राप्तिमाहुः॥ 3-5-20
Vidura Pandava conversation Qualities of a king
सत्यं श्रेष्ठं पाण्डव विप्रलापं तुल्यं चान्नं सह भोज्यं सहायैः।
आत्मा चैषामग्रतो न स्म पूज्य एवंवृत्तिवर्धते भूमिपालः॥ 3-5-21
Vidura Pandava conversation Qualities of a king

युधिष्ठिर उवाच

एवं करिष्यामि यथा ब्रवीषि परां बुद्धिमुपगम्याप्रमत्तः।
यच्चाप्यन्यद्देशकालोपपन्नं तद्वै वाच्यं तत्करिष्यामि कृत्स्नम्॥ 3-5-22
Vidura Pandava conversation

इति श्रीमहाभारते वनपर्वणि अरण्यपर्वणि विदुरनिर्वासे पञ्चमोऽध्यायः॥ 5 ॥