Difference between revisions of "Vanaparva Adhyaya 4 (वनपर्वणि अध्यायः ४)"

From Dharmawiki
Jump to navigation Jump to search
(slokas)
 
m (sample tag)
Line 1: Line 1:
 
वैशम्पायन उवाच
 
वैशम्पायन उवाच
  
वनं प्रविष्टेष्वथ पाण्डवेषु प्रज्ञाचक्षुस्तप्यमानोऽम्बिकेयः।
+
वनं प्रविष्टेष्वथ पाण्डवेषु प्रज्ञाचक्षुस्तप्यमानोऽम्बिकेयः।
 
+
धर्मात्मानं विदुरमगाधबुद्धिं सुखासीनो वाक्यमुवाच राजा॥ 3-4-1
धर्मात्मानं विदुरमगाधबुद्धिं सुखासीनो वाक्यमुवाच राजा॥ 3-4-1
+
[[:Category:Ugrashrava|''Ugrashrava'']]
  
 
धृतराष्ट्र उवाच
 
धृतराष्ट्र उवाच

Revision as of 17:22, 11 July 2019

वैशम्पायन उवाच

वनं प्रविष्टेष्वथ पाण्डवेषु प्रज्ञाचक्षुस्तप्यमानोऽम्बिकेयः।
धर्मात्मानं विदुरमगाधबुद्धिं सुखासीनो वाक्यमुवाच राजा॥ 3-4-1
Ugrashrava

धृतराष्ट्र उवाच

प्रज्ञा च ते भार्गवस्येव शुद्धा धर्म च त्वं परमं वेत्थ सूक्ष्मम्।

समश्च त्वं सम्मतः कौरवाणां पथ्यं चैषां मम चैव ब्रवीहि॥ 3-4-2

एवं गते विदुर यदद्य कार्यं पौराश्च मे कथमस्मान्भजेरन्।

ते चाप्यस्मान्नोद्धरेयुः समूलांस्तत्त्वं ब्रूयाः साधुकार्याणि वेत्सि॥ 3-4-3

न कामये तांश्च विनश्यमानान्॥

सौबलेनैव पापेन दुर्योधनहितैषिणा।

क्रूरमाचरितं क्षत्तर्न मे प्रियमनुष्ठितम्॥

तथैवाङ्गीकृते तव तद्भवान्वक्तुमर्हति।

उत्तरं प्राप्तकालं च किमन्यन्मन्यते क्षमम्॥

नास्ति धर्मे सहायत्वमिति मे दीर्यते मनः।

यत्र पाण्डुसुतास्सर्वे क्लिश्यन्ति वनमागताः॥

विदुर उवाच

त्रिवर्गोऽयं धर्ममूलो नरेन्द्र राज्यं चेदं धर्ममूलं वदन्ति।

धर्मे राजन्वर्तमानः स्वशक्त्या पुत्रान्सर्वान्पाहि पाण्डोः सुतांश्च॥ 3-4-4

स वै धर्मो विप्रलब्धः सभायां पापात्मभिः सौबलेयप्रधानैः।

आहूय कुन्तीसुतमक्षवत्यां पराजैषीत्सत्यसन्धं सुतस्ते॥ 3-4-5

एतस्य ते दुष्प्रणीतस्य राजञ्छेषस्याहं परिपश्याम्युपायम्।

यथा पुत्रस्तव कौरव्य पापान्मुक्तो लोके प्रतितिष्ठेत साधु॥ 3-4-6

तद्वै सर्वं पाण्डुपुत्रा लभन्तां यत्तद्राजन्नभिसृष्टं त्वयाऽऽसीत्।

एष धर्मः परमो यत्स्वकेन राजा तुष्येन्न परस्वेषु गृध्येत्॥ 3-4-7

यशो न नश्येज्ज्ञातिभेदश्च न स्याद्धर्मो न स्यान्नैव चैवं कृते त्वाम्।

एतत्कार्यं तव सर्वप्रधानं तेषां तुष्टिः शकुनेश्चावमानः॥ 3-4-8

एवं शेषं यदि पुत्रेषु ते स्यादेतद्राजंस्त्वरमाणः कुरुष्व।

तथैतदेवं न करोषि राजन्ध्रुवं कुरूणां भविता विनाशः॥ 3-4-9

न हि क्रुद्धो भीमसेनोऽर्जुनो वा शेषं कुर्याच्छात्रवाणामनीके।

येषां योद्धा सव्यसाची कृतास्त्रो धनुर्येषां गाण्डिवं लोकसारम्॥ 3-4-10

येषां भीमो बाहुशाली च योद्धा तेषां लोके किं नु न प्राप्यमस्ति।

उक्तं पूर्वं जातमात्रे सुते ते मया यत्ते हितमासीत्तदानीम्॥ 3-4-11

पुत्रं त्यजेममहितं कुलस्य हितं परं न च तत्त्वं चकर्थ।

इदं च राजन्हितमुक्तं न चेत्त्वमेवं कर्ता परितप्तासि पश्चात्॥ 3-4-12

यद्येतदेवमनुमन्ता सुतस्ते सम्प्रीयमाणः पाण्डवैरेकराज्यम्।

तापो न ते भविता प्रीतियोगान्न चेन्निगृह्णीष्व सुतं सुखाय॥ 3-4-13

दुर्योधनं त्वहितं वै निगृह्य पाण्डोः पुत्रं प्रकुरुष्वाधिपत्ये।

अजातशत्रुर्हि विमुक्तरागो धर्मेणेमां पृथिवीं शास्तु राजन्॥ 3-4-14

ततो राजन्पार्थिवाः सर्व एव वैश्या इवास्मानुपतिष्ठन्तु सद्यः।

दुर्योधनः शकुनिः सूतपुत्रः प्रीत्या राजन्पाण्डुपुत्रान्भजन्तु॥ 3-4-15

दुःशासनो याचतु भीमसेनं सभामध्ये द्रुपदस्यात्मजां च।

युधिष्ठिरं त्वं परिसान्त्वयस्व राज्ये चैनं स्थापयस्वाभिपूज्य॥ 3-4-16

त्वया पृष्टः किमहमन्यद्वदेयमेतत्कृत्वा कृतकृत्योऽसि राजन्॥ 3-4-16

धृतराष्ट्र उवाच

एतद्वाक्यं विदुर यत्ते सभायामिह प्रोक्तं पाण्डवान्प्राप्य मां च।

हितं तेषामहितं मामकानामेतत्सर्वं मम नावैति चेतः॥ 3-4-17

इदं त्विदानीं गत एव निश्चितं तेषामर्थे पाण्डवानां यदात्थ।

तेनाद्य मन्ये नासि हितो ममेति कथं हि पुत्रं पाण्डवार्थे त्यजेयम्॥ 3-4-18

असंशयं तेऽपि ममैव पुत्रा दुर्योधनस्तु मम देहात्प्रसूतः।

स्वं वै देहं परहेतोस्त्यजेति को तु ब्रूयात्समतामन्ववेक्ष्य॥ 3-4-19

स मां जिह्मं विदुर सर्वं ब्रवीषि मानं च तेऽहमधिकं धारयामि।

यथेच्छकं गच्छ वा तिष्ठ वा त्वं सुसान्त्व्यमानाप्यसती स्त्री जहाति॥ 3-4-20

वैशम्पायन उवाच

एतावदुक्त्वा धृतराष्ट्रोऽन्वपद्यदन्तर्वेश्म सहसोत्थाय राजन्।

नेदमस्तीत्यथ विदुरो भाषमाणः सम्प्राद्रवद्यत्र पार्था बभूवुः॥ 3-4-21

इति श्रीमहाभारते वनपर्वणि अरण्यपर्वणि विदुरवाक्यप्रत्याख्याने चतुर्थोऽध्यायः॥ 4 ॥