Vanaparva Adhyaya 2 (वनपर्वणि अध्यायः २)

From Dharmawiki
Revision as of 16:06, 10 July 2019 by ShraddhaV (talk | contribs) (slokas added)
(diff) ← Older revision | Latest revision (diff) | Newer revision → (diff)
Jump to navigation Jump to search

वैशम्पायन उवाच

प्रभातायां तु शर्वर्यां तेषामक्लिष्टकर्मणाम्।

वनं यियासतां विप्रास्तस्थुर्भिक्षाभुजोऽग्रतः॥ 3-2-1

तानुवाच ततो राजा कुन्तीपुत्रो युधिष्ठिरः।

वयं हि हृतसर्वस्वा हृतराज्या हृतश्रियः॥ 3-2-2

फलमूलाशनाहारा वनं गच्छाम दुःखिताः।

वनं च दोषबहुलं बहुव्यालसरीसृपम्॥ 3-2-3

परिक्लेशश्च वो मन्ये ध्रुवं तत्र भविष्यति।

ब्राह्मणानां परिक्लेशो दैवतान्यपि सादयेत्।

किं पुनर्मामितो विप्रा निवर्तध्वं यथेष्टतः॥ 3-2-4

ब्राह्मणा ऊचुः

गतिर्या भवतां राजंस्तां वयं गन्तुमुद्यताः।

नार्हस्यस्मान्परित्यक्तुं भक्तान्सद्धर्मदर्शिनः॥ 3-2-5

अनुकम्पां हि भक्तेषु देवता ह्यपि कुर्वते।

विशेषतो ब्राह्मणेषु सदाचारावलम्बिषु॥ 3-2-6

युधिष्ठिर उवाच

ममापि परमा भक्तिर्ब्राह्मणेषु सदा द्विजाः।

सहायविपरिभ्रंशस्त्वयं सादयतीव माम्॥ 3-2-7

आहरेयुरिमे येऽपि फलमूलमृगांस्तथा[मधूनि च]।

त इमे शोकजैर्दुःखैर्भ्रातरो मे विमोहिताः॥ 3-2-8

द्रौपद्या विप्रकर्षेण राज्यापहरणेन च।

दुःखार्दितानिमान्क्लेशैर्नाहं योक्तुमिहोत्सहे॥ 3-2-9

ब्राह्मणा ऊचुः

अस्मत्पोषणजा चिन्ता मा भूत्ते हृदि पार्थिव।

स्वयमाहृत्य चान्नानि चोपयोक्षा[त्वानुयास्या]महे वयम्॥ 3-2-10

अनुध्यानेन जप्येन विधास्यामः शिवं तव।

कथाभिश्चाभिरम्याभिः सह रंस्यामहे वयम्॥ 3-2-11

युधिष्ठिर उवाच

एवमेतन्न सन्देहो रमेऽहं सततं द्विजैः।

मा[न्यू]नभावात्तु पश्यामि प्रत्यादेशमिवात्मनः॥ 3-2-12

कथं द्रक्ष्यामि वः सर्वान्स्वयमाहृतभोजनान्।

मद्भक्त्या क्लिश्यतोऽनर्हान्धिक्पापान्धृतराष्ट्रजान्॥ 3-2-13

वैशम्पायन उवाच

इत्युक्त्वा स नृपः शोचन्निषसाद महीतले।

तमध्यात्मरतो विद्वान्शौनको नाम वै द्विजः।

योगे सांख्ये च कुशलो राजानमिदमब्रवीत्॥ 3-2-14

शोकस्थानसहस्राणि भयस्थानशतानि च।

दिवसे दिवसे मूढमाविशन्ति न पण्डितम्॥ 3-2-15

न हि ज्ञानविरुद्धेषु बहुदोषेषु कर्मसु।

श्रेयोघातिषु सज्जन्ते बुद्धिमन्तो भवद्विधाः॥ 3-2-16

अष्टाङ्गां बुद्धिमाहुर्यां सर्वाश्रेयोऽभिघातिनीम्।

श्रुतिस्मृतिसमायुक्तां राजन्सा त्वय्यवस्थिता॥ 3-2-17

अर्थकृच्छ्रेषु दुर्गेषु व्यापत्सु स्वजनस्य च।

शारीरमानसैर्दुःखैर्न सीदन्ति भवद्विधाः॥ 3-2-18

श्रूयतां चाभिधास्यामि जनकेन यथा पुरा।

आत्मव्यवस्थानकरा गीताः श्लोका महात्मना॥ 3-2-19

मनोदेहसमुत्थाभ्यां दुःखाभ्यामर्दितं जगत्।

तयोर्व्याससमासाभ्यां शमोपायमिमं शृणु॥ 3-2-20

व्याधेरनिष्टसंस्पर्शाच्छ्रमादिष्टविवर्जनात्।

दुःखं चतुर्भिः शारीरं कारणैः सम्प्रवर्तते॥ 3-2-21

तदा तत्प्रतिकाराच्च सततं चाविचिन्तनात्।

आधिव्याधिप्रशमनं क्रियायोगद्वयेन तु॥ 3-2-22

मतिमन्तो ह्यतो वैद्याः शमं प्रागेव कुर्वते।

मानसस्य प्रियाख्यानैः सम्भोगोपनयैर्नृणाम्॥ 3-2-23

मानसेन हि दुःखेन शरीरमुपतप्यते।

अयःपिण्डेन तप्तेन कुम्भसंस्थमिवोदकम्॥ 3-2-24

मानसं शमयेत्तस्माज्ज्ञानेनाग्निमिवाम्बुना।

प्रशान्ते मानसे ह्यस्य शारीरमुपशाम्यति॥ 3-2-25

मनसो दुःखमूलं तु स्नेह इत्युपलभ्यते।

स्नेहात्तु सज्जते जन्तुर्दुःखयोगमुपैति च॥ 3-2-26

स्नेहमूलानि दुःखानि स्नेहजानि भयानि च।

शोकहर्षौ तथाऽऽयासः सर्वं स्नेहात्प्रवर्तते॥ 3-2-27

स्नेहाद्भावोऽनुरागश्च प्रजज्ञे विषये तथा।

अश्रेयस्कावुभावेतौ पूर्वस्तत्र गुरुः स्मृतः॥ 3-2-28

कोटराग्निर्यथाशेषं समूलं पादपं दहेत्।

धर्मार्थौ तु तथाल्पोऽपि रागदोषो विनाशयेत्॥ 3-2-29

विप्रयोगे न तु त्यागी दोषदर्शी समागमे।

विरागं भजते जन्तुर्निर्वैरो निरवग्रहः॥ 3-2-30

तस्मात्स्नेहं न लिप्सेत मित्रेभ्यो धनसञ्चयात्।

स्वशरीरसमुत्थं च ज्ञानेन विनिवर्तयेत्॥ 3-2-31

ज्ञानान्वितेषु युक्तेषु शास्त्रज्ञेषु कृतात्मसु।

न तेषु सज्जते स्नेहः पद्मपत्रेष्विवोदकम्॥ 3-2-32

रागाभिभूतः पुरुषः कामेन परिकृष्यते।

इच्छा सञ्जायते तस्य ततस्तृष्णा विवर्धते॥ 3-2-33

तृष्णा हि सर्वपापिष्ठा नित्योद्वेगकरी स्मृता।

अधर्मबहुला चैव घोरा पापानुबन्धिनी॥ 3-2-34

या दुस्त्यजा दुर्मतिभिर्या न जीर्यति जीर्यतः।

योऽसौ प्राणान्तिको रोगस्तां तृष्णां त्यजतः सुखम्॥ 3-2-35

अनाद्यन्ता तु सा तृष्णा अन्तर्देहगता नृणाम्।

विनाशयति भूतानि अयोनिज इवानलः॥ 3-2-36

यथैधः स्वसमुत्थेन वह्निना नाशमृच्छति।

तथाकृतात्मा लोभेन सहजेन विनश्यति॥ 3-2-37

राजतः सलिलादग्नेश्चोरतः स्वजनादपि।

भयमर्थवतां नित्यं मृत्योः प्राणभृतामिव॥ 3-2-38

यथा ह्यामिषमाकाशे पक्षिभिः श्वापदैर्भुवि।

भक्ष्यते सलिले मत्स्यैस्तथा सर्वत्र वित्तवान्॥ 3-2-39

अर्थ एव हि केषाञ्चिदनर्थं भजते नृणाम्।

अर्थश्रेयसि चासक्तो च श्रेयो विन्दते नरः॥ 3-2-40

तस्मादर्थागमाः सर्वे मनोमोहविवर्धनाः।

कार्पण्यं दर्पमानौ च भयमुद्वेग एव च॥ 3-2-41

अर्थजानि विदुः प्राज्ञा दुःखान्येतानि देहिनाम्।

अर्थस्योत्पादने चैव पालने च तथा क्षये॥ 3-2-42

सहन्ति च महद्दुःखं घ्नन्ति चैवार्थकारणात्।

अर्था दुःखं परित्यक्तुं पालिताश्चैव शत्रवः॥ 3-2-43

दुःखेन चाधिगम्यन्ते तस्मान्नाशं न चिन्तयेत्।

असन्तोषपरा मूढाः सन्तोषं यान्ति पण्डिताः॥ 3-2-44

अन्तो नास्ति पिपासायाः सन्तोषः परमं सुखम्।

तस्मात्सन्तोषमेवेह परं पश्यन्ति पण्डिताः॥ 3-2-45

अनित्यं यौवनं रूपं जीवितं रत्नसंचयः।

ऐश्वर्यं प्रियसंवासो गृध्येत्तत्र न पण्डितः॥ 3-2-46

त्यजेत सञ्चयांस्तस्मात्तज्जान्क्लेशान्सहेत च।

न हि सञ्चयवान्कश्चिद्दृश्यते निरुपद्रवः।

अतश्च धार्मिकैः पुंभिरनीहार्थः प्रशस्यते॥ 3-2-47

धर्मार्थं यस्य वित्तेहा वरं तस्य निरीहता।

प्रक्षालनाद्धि पङ्कस्य श्रेयो न स्पर्शनं नृणाम्॥ 3-2-48

युधिष्ठिरैवं सर्वेषु न स्पृहां कर्तुमर्हसि।

धर्मेण यदि ते कार्यं विमुक्तेच्छो भवार्थतः॥ 3-2-49

युधिष्ठिर उवाच

नार्थोपभोगलिप्सार्थमियमर्थेप्सुता मम।

भरणार्थं तु विप्राणां ब्रह्मन्काङ्क्षे न लोभतः॥ 3-2-50

कथं ह्यस्मद्विधो ब्रह्मन्वर्तमानो गृहाश्रमे।

भरणं पालनं चापि न कुर्यादनुयायिनाम्॥ 3-2-51

संविभागो हि भूतानां सर्वेषामेव दृश्यते।

तथैवापचमानेभ्यः प्रदेयं गृहमेधिना॥ 3-2-52

तृणानि भूमिरुदकं वाक्चतुर्थी च सूनृता।

सतामेतानि गेहेषु नोच्छिद्यन्ते कदाचन॥ 3-2-53

देयमार्तस्य शयनं स्थितश्रान्तस्य चासनम्।

तृषितस्य च पानीयं क्षुधितस्य च भोजनम्॥ 3-2-54

चक्षुर्दद्यान्मनो दद्याद्वाचं दद्यात्सुभाषिताम्।

उत्थाय चासनं दद्यादेष धर्मः सनातनः।

प्रत्युत्थायाभिगमनं कुर्यान्न्यायेन चार्चनम्॥ 3-2-55

अग्निहोत्रमनड्वांश्च ज्ञातयोऽतिथिबान्धवाः।

पुत्रा दाराश्च भृत्याश्च निर्दहेयुरपूजिताः॥ 3-2-56

आत्मार्थं पाचयेन्नान्नं न वृथा घातयेत्पशून्।

न च तत्स्वयमश्नीयाद्विधिवद्यन्न निर्वपेत्॥ 3-2-57

श्वभ्यश्च श्वपचेभ्यश्च वयोभ्यश्चावपेद्भुवि।

वैश्वदेवं हि नामैतत्सायं प्रातश्च दीयते॥ 3-2-58

विघसाशी भवेत्तस्मान्नित्यं चामृतभोजनः।

विघसो भुक्तशेषं तु यज्ञशेषं तथामृतम्॥ 3-2-59

चक्षुर्दद्यान्मनो दद्याद्वाचं दद्याच्च सूनृताम्।

अनुव्रजेदुपासीत स यज्ञः पञ्चदक्षिणः॥ 3-2-60

यो दद्यादपरिक्लिष्टमन्नमध्वनि वर्तते।

श्रान्तायादृष्टपूर्वाय तस्य पुण्यफलं महत्॥ 3-2-61

एवं यो वर्तते वृत्तिं वर्तमानो गृहाश्रमे।

तस्य धर्मं परं प्राहुः कथं वा विप्र मन्यसे॥ 3-2-62

शौनक उवाच

अहो बत महत्कष्टं विपरीतमिदं जगत्।

येनापत्रपते साधुरसाधुस्तेन तुष्यति॥ 3-2-63

शिश्नोदरकृतेऽप्राज्ञः करोति विघसं बहु।

मोहरागवशाक्रान्त इन्द्रियार्थवशानुगः॥ 3-2-64

ह्रियते बुध्यमानोऽपि नरो हारिभिरिन्द्रियैः।

विमूढसंज्ञो दुष्टाश्वैरुद्भान्तैरिव सारथिः॥ 3-2-65

षडिन्द्रियाणि विषयं समागच्छन्ति वै यदा।

तदा प्रादुर्भवत्येषां पूर्वसङ्कल्पजं मनः॥ 3-2-66

मनो यस्येन्द्रियस्येह विषयान्याति सेवितुम्।

तस्यौत्सुक्यं सम्भवति प्रवृत्तिश्चोपजायते॥ 3-2-67

ततः सङ्कल्पबीजेन कामेन विषयेषुभिः।

विद्धः पतति लोभाग्नौ ज्योतिर्लोभात्पतङ्गवत्॥ 3-2-68

ततो विहारैराहारैर्मोहितश्च यथेप्सया।

महामोहे सुखे मग्नो नात्मानमवबुध्यते॥ 3-2-69

एवं पतति संसारे तासु तास्विह योनिषु।

अविद्याकर्मतृष्णाभिर्भ्राम्यमाणोऽथ चक्रवत्॥ 3-2-70

ब्रह्मादिषु तृणान्तेषु भूतेषु परिवर्तते।

जले भुवि तथाऽऽकाशे जायमानः पुनः पुनः॥ 3-2-71

अबुधानां गतिस्त्वेषा बुधानामपि मे शृणु।

ये धर्मे श्रेयसि रता विमोक्षरतयो जनाः॥ 3-2-72

तदिदं वेदवचनं कुरु कर्म त्यजेति च।

तस्माद्धर्मानिमान्सर्वान्नाभिमानात्समाचरेत्॥ 3-2-73

इज्याध्ययनदानानि तपः सत्यं क्षमा दमः।

अलोभ इति मार्गोऽयं धर्मस्याष्टविधः स्मृतः॥ 3-2-74

अत्र पूर्वश्चतुर्वर्गः पितृयाणपथे स्थितः।

कर्तव्यमिति यत्कार्यं नाभिमानात्समाचरेत्॥ 3-2-75

उत्तरो देवयानस्तु सद्भिराचरितः सदा।

अष्टाङ्गेनैव मार्गेण विशुद्धात्मा समाचरेत्॥ 3-2-76

सम्यक्सङ्कल्पसम्बन्धात्सम्यक्चेन्द्रियनिग्रहात्।

सम्यग्व्रतविशेषाच्च सम्यक्च गुरुसेवनात्॥ 3-2-77

सम्यगाहारयोगाच्च सम्यक्चाध्ययनागमात्।

सम्यक्कर्मोपसन्न्यासात्सम्यक्चित्तनिरोधनात्॥ 3-2-78

एवं कर्माणि कुर्वन्ति संसारविजिगीषवः।

रागद्वेषविनिर्मुक्ता ऐश्वर्यं देवता गताः॥ 3-2-79

रुद्राः साध्यास्तथाऽऽदित्या वसवोऽथ तथाश्विनौ।

योगैश्वर्येण संयुक्ता धारयन्ति प्रजा इमाः॥ 3-2-80

तथा त्वमपि कौन्तेय शममास्थाय पुष्कलम्।

तपसा सिद्धिमन्विच्छ योगसिद्धिं च भारत॥ 3-2-81

पितृमातृमयी सिद्धिः प्राप्ता कर्ममयी च ते।

तपसा सिद्धिमन्विच्छ द्विजानां भरणाय वै॥ 3-2-82

सिद्धा हि यद्यदिच्छन्ति कुर्वते तदनुग्रहात्।

तस्मात्तपः समास्थाय कुरुष्वात्ममनोरथम्॥ 3-2-83

इति श्रीमहाभारते वनपर्वणि अरण्यपर्वणि पाण्डवानां प्रव्रजने द्वितीयोऽध्यायः॥ 2 ॥