Vanaparva Adhyaya 1 (वनपर्वणि अध्यायः १)

From Dharmawiki
Revision as of 16:07, 10 July 2019 by ShraddhaV (talk | contribs)
(diff) ← Older revision | Latest revision (diff) | Newer revision → (diff)
Jump to navigation Jump to search

जनमेजय उवाच

एवं द्यूतजिताः पार्थाः कोपिताश्च दुरात्मभिः।
धार्तराष्ट्रैः सहामात्यैर्निकृत्या द्विजसत्तम॥ 3-1-1
श्राविताः परुषा वाचः सृजद्भिर्वैरमुत्तमम्।
किमकुर्वत कौरव्या मम पूर्वपितामहाः॥ 3-1-2
कथं चैश्वर्यविभ्रष्टाः सहसा दुःखमेयुषः।
वने विजह्रिरे पार्थाः शक्रप्रतिमतेजसः॥ 3-1-3
के वै तानन्ववर्तन्त प्राप्तान्व्यसनमुत्तमम्।
किमाचाराः किमाहाराः क्व च वासो महात्मनाम्॥ 3-1-4
कथं च द्वादश समा वने तेषां महामुने।
व्यतीयुर्ब्राह्मणश्रेष्ठ शूराणामरिघातिनाम्॥ 3-1-5
Pandavas leave for exile
कथं च राजपुत्री सा प्रवरा सर्वयोषिताम्।
पतिव्रता महाभागा सततं सत्यवादिनी॥ 3-1-6
वनवासमदुःखार्हा दारुणं प्रत्यपद्यत।
एतदाचक्ष्व मे सर्वं विस्तरेण तपोधन॥ 3-1-7
Pandavas leave for exile Qualities of Draupadi द्रौपदी
श्रोतुमिच्छामि चरितं भूरिद्रविणतेजसाम्।
कथ्यमानं त्वया विप्र परं कौतूहलं हि मे॥ 3-1-8
वैशम्पायन उवाच
एवं द्यूतजिताः पार्थाः कोपिताश्च दुरात्मभिः।
धार्तराष्ट्रैः सहामात्यैर्निर्ययुर्गजसाह्वयात्॥ 3-1-9
वर्धमानपुरद्वारादभिनिष्क्रम्य पाण्डवाः।
उदङ्मुखाः शस्त्रभृतः प्रययुः सह कृष्णया॥ 3-1-10
इन्द्रसेनादयश्चैव भृत्याः परि चतुर्दश।
रथैरनुययुः शीघ्रैः स्त्रिय आदाय सर्वशः॥ 3-1-11
गतानेतान्विदित्वा तु पौराः शोकाभिपीडिताः।
गर्हयन्तोऽसकृद्भीष्मविदुरद्रोणगौतमान्॥ 3-1-12
Pandavas leave for exile
ऊचुर्विगतसंत्रासाः समागम्य परस्परम्।
पौरा ऊचुः।
नेदमस्ति कुलं सर्वं न वयं न च नो गृहाः॥ 3-1-13
यत्र दुर्योधनः पापः सौबलयेन[लेनाभि]पालितः।
कर्णदुःशासनाभ्यां च राज्यमेतच्चिकीर्षति॥ 3-1-14
न तत्कुलं न चाचारो न धर्मोऽर्थः कुतः सुखम्।
यत्र पापसहायोऽयं पापो राज्यं चिकीर्षति॥ 3-1-15
दुर्योधनो गुरुद्वेषी त्यक्ताचारसुहृज्जनः।
अर्थलुब्धोऽभिमानी च नीचः प्रकृतिनिर्घृणः॥ 3-1-16
नेयमस्ति मही कृत्स्ना यत्र दुर्योधनो नृपः।
साधु गच्छामहे सर्वे यत्र गच्छन्ति पाण्डवाः॥ 3-1-17
दुर्योधन
सानुक्रोशा महात्मानो विजितेन्द्रियशत्रवः।
ह्रीमन्तः कीर्तिमन्तश्च धर्माचारपरायणाः॥ 3-1-18
पांडव

वैशम्पायन उवाच

एवमुक्त्वानुजग्मुस्ते पाण्डवांस्तान्समेत्य च।

ऊचुः प्राञ्जलयः सर्वे कौन्तेयान्माद्रिनन्दनान्॥ 3-1-19

क्व गमिष्यथ भद्रं वस्त्यक्त्वास्मान्दुःखभागिनः।

वयमप्यनुयास्यामो यत्र यूयं गमिष्यथ॥ 3-1-20

अधर्मेण जिताञ्छ्रुत्वा युष्मांस्त्यक्तघृणैः परैः।

उद्विग्नाः स्मो भृशं सर्वे नास्मान्हातुमिहार्हथ॥ 3-1-21

भक्तानुरक्तान्सुहृदः सदा प्रियहिते रतान्।

कुराजाधिष्ठिते राज्ये न विनश्येम सर्वशः॥ 3-1-22

श्रूयन्तां चाभिधास्यामो गुणदोषान्नरर्षभाः।
शुभाशुभाधिवासेन संसर्गः कुरुते यथा॥ 3-1-23
अपोवस्त्रं तिलान्[वस्त्रमापस्तिलान्] भूमिं गन्धो वासयते यथा।
पुष्पाणामधिवासेन तथा संसर्गजा गुणाः॥ 3-1-24
मोहजालस्य योनिर्हि मूढैरेव समागमः।
अहन्यहनि धर्मस्य योनिः साधुसमागमः॥ 3-1-25
तस्मात्प्राज्ञैश्च वृद्धैश्च सुस्वभावैस्तपस्विभिः।
सद्भिश्च सह संसर्गः कार्यः शमपरायणैः॥ 3-1-26
येषां त्रीण्यवदातानि विद्या योनिश्च कर्म च।
ते सेव्यास्तैः समास्या हि शास्त्रेभ्योऽपि गरीयसी॥ 3-1-27
निरारम्भा ह्यपि वयं पुण्यशीलेषु साधुषु।
पुण्यमेवाप्नुयामेह पापं पापोपसेवनात्॥ 3-1-28
असतां दर्शनात्स्पर्शात्संजल्पाच्च सहासनात्।
धर्माचाराः प्रहीयन्ते सिद्ध्यन्ति च न मानवाः॥ 3-1-29
बुद्धिश्च हीयते पुंसां नीचैः सह समागमात्।
मध्यमैर्मध्यतां याति श्रेष्ठतां याति चोत्तमैः॥ 3-1-30
अनीचैर्नाप्यविषयैर्नाधर्मिष्ठैर्विशेषतः।
ये गुणाः कीर्तिता लोके धर्मकामार्थसम्भवाः।
लोकाचारेषु सम्भूता वेदोक्ताः शिष्टसम्मताः॥ 3-1-31
ते युष्मासु समस्ताश्च व्यस्ताश्चैवेह सद्गुणाः।
इच्छामो गुणवन्मध्ये वस्तुं श्रेयोऽभिकाङ्क्षिणः॥ 3-1-32
association

युधिष्ठिर उवाच

धन्या वयं यदस्माकं स्नेहकारुण्ययन्त्रिताः।
असतोऽपि गुणानाहुर्ब्राह्मणप्रमुखाः प्रजाः॥ 3-1-33
तदहं भ्रातृसहितः सर्वान्विज्ञापयामि वः।
नान्यथा तद्धि कर्तव्यमस्मत्स्नेहानुकम्पया॥ 3-1-34
भीष्मः पितामहो राजा विदुरो जननी च मे।
सुहृज्जनश्च प्रायो मे नगरे नागसाह्वये॥ 3-1-35
ते त्वस्मद्धितकामार्थं पालनीयाः प्रयत्नतः।
युष्माभिः सहिताः सर्वे शोकसन्तापविह्वलाः॥ 3-1-36
निवर्ततागता दूरं समागमनशापिताः।
स्वजने न्यासभूते मे कार्या स्नेहान्विता मतिः॥ 3-1-37
एतद्धि मम कार्याणां परमं हृदि संस्थितम्।
कृता तेन तु तुष्टिर्मे सत्कारश्च भविष्यति॥ 3-1-38
Duty Responsibility

वैशम्पायन उवाच

तथानुमन्त्रितास्तेन धर्मराजेन ताः प्रजाः।
चक्रुरार्तस्वरं घोरं हा राजन्निति संहताः॥ 3-1-39
गुणान्पार्थस्य संस्मृत्य दुःखार्ताः परमातुराः।
अकामाः सन्न्यवर्तन्त समागम्याथ पाण्डवान्॥ 3-1-40
निवृत्तेषु तु पौरेषु रथानास्थाय पाण्डवाः।
आजग्मुर्जाह्नवीतीरे प्रमाण आख्यं महावटम्॥ 3-1-41
ते तं दिवसशेषेण वटं गत्वा तु पाण्डवाः।
ऊषुस्तां रजनीं वीराः संस्पृश्य सलिलं शुचि॥ 3-1-42
उदकेनैव तां रात्रिमूषुस्ते दुःखकर्षिताः।
अनुजग्मुश्च तत्रैतान्स्नेहात्केचिद्द्विजातयः॥ 3-1-43
साग्नयोऽनग्नयश्चैव सशिष्यगणबान्धवाः।
स तैः परिवृतो राजा शुशुभे ब्रह्मवादिभिः॥ 3-1-44
तेषां प्रादुष्कृताग्नीनां मुहूर्ते रम्यदारुणे।
ब्रह्मघोषपुरस्कारः संजल्पः समजायत॥ 3-1-45
राजानं तु कुरुश्रेष्ठं ते हंसमधुरस्वराः।
आश्वासयन्तो विप्राग्र्याः क्षपां सर्वां व्यनोदयन्॥ 3-1-46
वनवास

राजा तु भ्रातृभिस्सार्धं तथा सर्वैस्सुहृद्गणैः।

अशेत तां निशां राजन्दुःखशोकसमाहितः॥

इति श्रीमहाभारते वनपर्वणि अरण्यपर्वणि पौरप्रत्यागमने प्रथमोऽध्यायः॥ 1 ॥