Vanaparva Adhyaya 10 (वनपर्वणि अध्यायः १० )

From Dharmawiki
Revision as of 20:29, 22 August 2019 by ShraddhaV (talk | contribs) (Added verses in vanaparva chapter 10)
(diff) ← Older revision | Latest revision (diff) | Newer revision → (diff)
Jump to navigation Jump to search

धृतराष्ट्र उवाच

एवमेतन्महाप्राज्ञ यथा वदसि नो मुने।

अहं चैव विजानामि सर्वे चेमे नराधिपाः॥ 3-10-1

भवांश्च मन्यते साधु यत्कुरूणां महोदयम्।

तदेव विदुरोऽप्याह भीष्मो द्रोणश्च मां मुने॥ 3-10-2

यदि त्वहमनुग्राह्यः कौरव्येषु दया यदि।

अन्वशाधि दुरात्मानं पुत्रं दुर्योधनं मम॥ 3-10-3

व्यास उवाच

अयमायाति वै राजन्मैत्रेयो भगवानृषिः।

अन्विष्य पाण्डवान्भ्रातॄनिहैत्यस्मद्दिदृक्षया॥ 3-10-4

एष दुर्योधनं पुत्रं तव राजन्महानृषिः।

अनुशास्ता यथान्यायं शमायास्य कुलस्य च॥ 3-10-5

ब्रूयाद्यदेष कौरव्य तत्कार्यमविशङ्कया।

अक्रियायां तु कार्यस्य पुत्रं ते शप्स्यते रुषा॥ 3-10-6

वैशम्पायन उवाच

एवमुक्त्वा ययौ व्यासो मैत्रेयः प्रत्यदृश्यत।

पूजया प्रतिजग्राह सपुत्रस्तं नराधिपः॥ 3-10-7

अर्घ्याद्याभिः क्रियाभिर्वै विश्रान्तं मुनिसत्तमम्।

प्रश्रयेणाब्रवीद्राजा धृतराष्ट्रोऽम्बिकासुतः॥ 3-10-8

सुखेनागमनं कच्चिद्भगवन्कुरुजाङ्गलान्।

कच्चित्कुशलिनो वीरा भ्रातरः पञ्च पाण्डवाः॥ 3-10-9

समये स्थातुमिच्छन्ति कच्चिच्च भरतर्षभाः।

कच्चित्कुरूणां सौभ्रात्रमव्युच्छिन्नं भविष्यति॥ 3-10-10

मैत्रेय उवाच

तीर्थयात्रामनुक्रामन्प्राप्तोऽस्मि कुरुजाङ्गलान्।

यदृच्छया धर्मराजं दृष्टवान्काम्यके वने॥ 3-10-11

तं जटाजिनसंवीतं तपोवननिवासिनम्।

समाजग्मुर्महात्मानं द्रष्टुं मुनिगणाः प्रभो॥ 3-10-12

तत्राश्रौषं महाराज पुत्राणां तव विभ्रमम्।

अनयं द्यूतरूपेण महाभयमुपस्थितम्॥ 3-10-13

ततोऽहं त्वामनुप्राप्तः कौरवाणामवेक्षया।

सदा ह्यभ्यधिकः स्नेहः प्रीतिश्च त्वयि मे प्रभो॥ 3-10-14

नैतदौपयिकं राजंस्त्वयि भीष्मे च जीवति।

यदन्योन्येन ते पुत्रा विरुध्यन्ते कथञ्चन॥ 3-10-15

मेढीभूतः स्वयं राजन्निग्रहे प्रग्रहे भवान्।

किमर्थमनयं घोरमुत्पद्यन्तमुपेक्षसे॥ 3-10-16

दस्यूनामिव यद्वृत्तं सभायां कुरुनन्दन।

तेन न भ्राजसे राजंस्तापसानां समागमे॥ 3-10-17

वैशम्पायन उवाच

ततो व्यावृत्य राजानं दुर्योधनममर्षणम्।

उवाच श्लक्ष्णया वाचा मैत्रेयो भगवानृषिः॥ 3-10-18

मैत्रेय उवाच

दुर्योधन महाबाहो निबोध वदतां वर।

वचनं मे महाभाग ब्रुवतो यद्धितं तव॥ 3-10-19

मा द्रुहः पाण्डवान्राजन्कुरुष्व प्रियमात्मनः।

पाण्डवानां कुरूणां च लोकस्य च नरर्षभ॥ 3-10-20

ते हि सर्वे नरव्याघ्राः शूरा विक्रान्तयोधिनः।

सर्वे नागायुतप्राणा वज्रसंहनना दृढाः॥ 3-10-21

सत्यव्रतधराः सर्वे सर्वे पुरुषमानिनः।

हन्तारो देवशत्रूणां रक्षसां कामरूपिणाम्॥ 3-10-22

हिडिम्बबकमुख्यानां किर्मीरस्य च रक्षसः।

इतः प्रद्रवतां रात्रौ यः स तेषां महात्मनाम्॥ 3-10-23

आवृत्य मार्गं रौद्रात्मा तस्थौ गिरिरिवाचलः।

तं भीमः समरश्लाघी बलेन बलिनां वरः॥ 3-10-24

जघान पशुमारेण व्याघ्रः क्षुद्रमृगं यथा।

पश्य दिग्विजये राजन्यथा भीमेन पातितः॥ 3-10-25

जरासन्धो महेष्वासो नागायुतबलो युधि।

सम्बन्धी वासुदेवश्च श्यालाः सर्वे च पार्षताः॥ 3-10-26

कस्तान्युधि समासीत जरामरणवान्नरः।

तस्य ते शम एवास्तु पाण्डवैर्भरतर्षभ।

कुरु मे वचनं राजन्मा मन्युवशमन्वगाः॥ 3-10-27

वैशम्पायन उवाच

एवं तु ब्रुवतस्तस्य मैत्रेयस्य विशाम्पते।

ऊरुं गजकराकारं करेणाभिजघान सः॥ 3-10-28

दुर्योधनः स्मितं कृत्वा चरणेनोल्लिखन्महीम्।

न किञ्चिदुक्त्वा दुर्मेधास्तस्थौ किञ्चिदवाङ्मुखः॥ 3-10-29

तमशुश्रूषमाणं तु विलिखन्तं वसुन्धराम्।

दृष्ट्वा दुर्योधनं राजन्मैत्रेयं कोप आविशत्॥ 3-10-30

स कोपवशमापन्नो मैत्रेयो मुनिसत्तमः।

विधिना सम्प्रणुदितः शापायास्य मनो दधे॥ 3-10-31

ततः स वार्युपस्पृश्य कोपसंरक्तलोचनः।

मैत्रेयो धार्तराष्ट्रं तमशपद्दुष्टचेतसम्॥ 3-10-32

यस्मात्त्वं मामनादृत्य नेमां वाचं चिकीर्षसि।

तस्मादस्याभिमानस्य सद्यः फलमवाप्नुहि॥ 3-10-33

त्वदभिद्रोहसंयुक्तं युद्धमुत्पत्स्यते महत्।

तत्र भीमो गदाघातैस्तवोरुं भेत्स्यते बली॥ 3-10-34

इत्येवमुक्ते वचने धृतराष्ट्रो महीपतिः।

प्रसादयामास मुनिं नैतदेवं भवेदिति॥ 3-10-35

मैत्रेय उवाच

शमं यास्यति चेत्पुत्रस्तव राजन्यदा तदा।

शापो न भविता तात विपरीते भविष्यति॥ 3-10-36

वैशम्पायन उवाच

विलक्षयंस्तु राजेन्द्रो दुर्योधनपिता तदा।

मैत्रेयं प्राह किर्मीरः कथं भीमेन पातितः॥ 3-10-37

मैत्रेय उवाच

नाहं वक्ष्यामि ते भूयो न ते शुश्रूषते सुतः।

एष ते विदुरः सर्वमाख्यास्यति गते मयि॥ 3-10-38

वैशम्पायन उवाच

इत्येवमुक्त्वा मैत्रेयः प्रातिष्ठत यथाऽऽगतम्।

किर्मीरवधसंविग्नो बहिर्दुर्योधनो ययौ॥ 3-10-39

इति श्रीमहाभारते वनपर्वणि अरण्यपर्वणि मैत्रेयशापे दशमोऽध्यायः॥ 10 ॥