Shira (शिरस् or शिरः)

From Dharmawiki
Revision as of 15:38, 20 July 2022 by DrDevashree (talk | contribs)
Jump to navigation Jump to search

Shira (शिरस्/शिरः) in Samskrt denotes head. In Ayurveda Shira is known as one of the 3 extremely significant marmas (seats of prana or life energy). A lot of discussion about anatomy, physiology of shiras and the various diseases, pathological processes related to it can be found in Ayurveda literature. In describing all these aspects, the viewpoint of Ayurveda of looking at it is quite different from that of modern/western medicine. The same has been described here.

What is Shira according to Ayurveda

प्राणाः प्राणभृतां यत्र श्रिताः सर्वेन्द्रियाणि च|

यदुत्तमाङ्गमाङ्गानां शिरस्तदभिधीयते||१२|| (Char. Samh. Su 17.12)

Commentary-प्राणा इत्यादिनाऽङ्गेषु शिरःप्राधान्यं दर्शयन् प्रकृतशिरोरोगाणामेवात्यहितत्वं [१] दर्शयति; तेन नोत्सूत्रं शिरःप्राधान्याभिधानम्| श्रिता इव श्रिताः, शिर-उपघाते उपघातात्| उपरिष्टादङ्गमुत्तमाङ्गम्||१२||

Anatomy related Shiras

Getway

द्वारं हि शिरसो नासा तेन तद् व्याप्य हन्ति तान्||८८|| Cha. Si 9.88

Marma

सप्तोत्तरं मर्मशतं यदुक्तं शरीरसङ्ख्यामधिकृत्य तेभ्यः|

मर्माणि बस्तिं हृदयं शिरश्च प्रधानभूतानि वदन्ति तज्ज्ञाः||३||

प्राणाश्रयात्, तानि हि पीडयन्तो वातादयोऽसूनपि पीडयन्ति| (Char. Samh. chi 26.3-4)

Bahirmukha strotas-

नव महन्ति छिद्राणि- सप्त शिरसि, द्वे चाधः||१२||

एतावद्दृश्यं शक्यमपि निर्देष्टुम्||१३|| (Charaka Samhita Sharirasthana Adhyaya 7 Sutra 12-13)

शिरसि इन्द्रियाणि इन्द्रियप्राणवहानि च स्रोतांसि सूर्यमिव गभस्तयः संश्रितानि, (Ch siddhi 9.4)

Commentary- शिरस आश्रयत्वमाह- शिरसीत्यादि| इन्द्रियप्राणवहानि स्रोतांसि यद्यपि प्रदेशान्तरेऽपि भवन्ति [९] , तथाऽपि शिरसि विशेषेणैवैतानि प्रबद्धानीति सूर्यमिव गभस्तय इति दृष्टान्तेन दर्शयति| शिरआश्रयत्वं च यथोक्तस्रोतसां तदुपघातेन विशिष्टोपघातदर्शनादुन्नीयते|

Effect of head injury

तेषां त्रयाणामन्यतमस्यापि भेदादाश्वेव शरीरभेदः स्यात्, आश्रयनाशादाश्रितस्यापि विनाशः; तदुपघातात्तु [५] घोरतरव्याधिप्रादुर्भावः; तस्मादेतानि विशेषेण रक्ष्याणि बाह्याभिघाद्वातादिभ्यश्च||५|| ??Char. Samh. chi 26.3-4)


शिरस्यभिहते मन्यास्तम्भार्दितचक्षुर्विभ्रममोहोद्वेष्टनचेष्टानाशकासश्वासहनुग्रहमूकगद्गदत्वाक्षिनिमीलन- गण्डस्पन्दनजृम्भणलालास्रावस्वरहानिवदनजिह्मत्वादीनि, (Cha. SI 9.6)

Preventive

Benefits of nasya in preventing shirorogas

वर्षे [१] वर्षेऽणुतैलं च कालेषु त्रिषु ना चरेत्||५६|| प्रावृट्शरद्वसन्तेषु गतमेघे नभस्तले| नस्यकर्म यथाकालं यो यथोक्तं निषेवते||५७||

न च केशाः प्रमुच्यन्ते [२] वर्धन्ते च विशेषतः| मन्यास्तम्भः शिरःशूलमर्दितं हनुसङ्ग्रहः||५९|| पीनसार्धावभेदौ च शिरःकम्पश्च शाम्यति|

सिराः शिरःकपालानां सन्धयः स्नायुकण्डराः||६०|| नावनप्रीणिताश्चास्य लभन्तेऽभ्यधिकं बलम्| Cha . su 5.59-60

Benefits of shiro abhyanga

नित्यं स्नेहार्द्रशिरसः शिरःशूलं न जायते| न खालित्यं न पालित्यं न केशाः प्रपतन्ति च||८१||

बलं शिरःकपालानां विशेषेणाभिवर्धते| दृढमूलाश्च दीर्घाश्च कृष्णाः केशा भवन्ति च||८२||

इन्द्रियाणि प्रसीदन्ति सुत्वग्भवति चाननम् [१] | निद्रालाभः सुखं च स्यान्मूर्ध्नि तैलनिषेवणात्||८३|| Cha Su. 5 81-83

Avoid daytime sleep

शिरःशूलं स्तैमित्यं गुरुगात्रता|.....भवेन्नृणां दिवास्वप्नस्याहितस्य निषेवणात्| (Char. Samh. Suu 21.46-49)

Causes of shiro rogas

Vega vidharna /sthana vaigunya

Purisha- पक्वाशयशिरःशूलं वातवर्चोऽप्रवर्तनम् [३] | पिण्डिकोद्वेष्टनाध्मानं पुरीषे स्याद्विधारिते||८|| Char. Samh. Su 7/8

Kshawathu- मन्यास्तम्भः शिरःशूलमर्दितार्धावभेदकौ| इन्द्रियाणां च दौर्बल्यं क्षवथोः स्याद्विधारणात्||१६||Char. Samh. Su 7/16

Causes of shiroroga general

सन्धारणाद्दिवास्वप्नाद्रात्रौ जागरणान्मदात्|

उच्चैर्भाष्यादवश्यायात् प्राग्वातादतिमैथुनात्||८||

गन्धादसात्म्यादाघ्राताद्रजोधूमहिमातपात्|

गुर्वम्लहरितादानादति शीताम्बुसेवनात्||९||

शिरोऽभिघाताद्दुष्टामाद्रोदनाद्बाष्पनिग्रहात् [१] |

मेघागमान्मनस्तापाद्देशकालविपर्ययात्||१०||

वातादयः प्रकुप्यन्ति शिरस्यस्रं च दुष्यति|

ततः शिरसि जायन्ते रोगा विविधलक्षणाः||११|| (Char. Samh. Su. 17.8-11)

others

तत्रोच्चैर्भाष्यातिभाष्याभ्यां शिरस्तापशङ्खकर्णनिस्तोदश्रोत्रोपरोधमुखतालुकण्ठशोषतैमिर्यपिपासाज्वरतमक- Cha. Si 12.14

रथक्षोभात् सन्धिपर्वशैथिल्यहनुनासाकर्णशिरःशूलतोदकुक्षिक्षोभाटोपान्त्रकूजनाध्मानहृदयेन्द्रियोपरोध- Cha. Si 12.14

व्यवायादाशुबलनाशोरुसादशिरोबस्तिगुदमेढ्रवङ्क्षणोरुजा Cha. Si 12.14

Treatment aspects

Swedana-

प्रतिश्याये च कासे च हिक्काश्वासेष्वलाघवे| कर्णमन्याशिरःशूले स्वरभेदे गलग्रहे||२०|| अर्दितैकाङ्गसर्वाङ्गपक्षाघाते (Char. Samh. Su. 14.20-21)

Jeerna ghruta

योनिकर्णशिरःशूलं घृतं जीर्णमपोहति||२३३|| (Char. SAmh. su 27.233)

Nasya

Aternative name- Shiro virechana -

नस्तःकर्म च कुर्वीत शिरोरोगेषु शास्त्रविद्|

द्वारं हि शिरसो नासा तेन तद् व्याप्य हन्ति तान्||८८|| Cha. Si 9.88

Dhumapana

शिरसः पीडने स्रावे नासाया हृदि ताम्यति|

कासप्रतिश्यायवतां धूमं वैद्यः प्रयोजयेत्||६५|| - Commentary- शिरस इत्यादिना धूमयोग्यावस्थोपदर्शनपूर्वकं धूममाहशिरसः पीडने इत्यादि| शूलगौरवादिना शिरसः पीडने| (Cha.Chi 18/65)

In which rogas does shira gets affected or headache seen as symptom

V gulma- मन्याशिरःशङ्खशूल (Cha. samh. nidanasthana 3 Sutra 7)

Shirogandha-putita- in Pitta prakrti due to visrata- विस्रत्वात् प्रभूतपूतिकक्षास्यशिरःशरीरगन्धाः; (Charaka samhita vimanasthana Adhyaay 8 Sutra 97)

Ajeerna

तस्य लिङ्गमजीर्णस्य विष्टम्भः सदनं तथा|

शिरसो रुक् च मूर्च्छा च भ्रमः (Cha. Chi 15/45)

Shwasa, kasa, Pinasa

प्रतिलोमं यदा वायुः स्रोतांसि प्रतिपद्यते|

ग्रीवां शिरश्च सङ्गृह्य श्लेष्माणं समुदीर्य च||५५||

करोति पीनसं तेन रुद्धो घुर्घुरुकं तथा|

अतीव तीव्रवेगं च श्वासं (Cha. Chi 17. 56)

अधःप्रतिहतो वायुरूर्ध्वस्रोतःसमाश्रितः|

उदानभावमापन्नः कण्ठे सक्तस्तथोरसि||६||

आविश्य शिरसः खानि सर्वाणि प्रतिपूरयन्|

आभञ्जन्नाक्षिपन् (Cha. Chi 18. 6-7)

Pausing the vitiated blood flow-

स्रवणं चाप्युपेक्षेत लङ्घनैर्वा समाचरेत्||१७६||

प्रवृत्तमादावर्शोभ्यो यो निगृह्णात्यबुद्धिमान्|

शोणितं दोषमनिलं तद्रोगाञ्जनयेद्बहून्||१७७||

रक्तपित्तं ज्वरं तृष्णामग्निसादमरोचकम्| ..........वातमूत्रपुरीषाणां विबन्धं शिरसो रुजम्||१७९||

स्तैमित्यं गुरुगात्रत्वं तथाऽन्यान् रक्तजान् गदान्| (Cha chi 14.179)

V Trushna

निद्रानाशः शिरसो भ्रमस्तथा .... Cha chi 22.12

P trushna

शिरसो दाहः (cha. chi 22.14)

MAdatyaya

मद्योत्क्लिष्टेन दोषेण रुद्धः [१] स्रोतःसु मारुतः|

करोति वेदनां तीव्रां शिरस्यस्थिषु सन्धिषु||११७|| Cha. Chi 24.117

Pratishyaya as chief shiroroga

क्रमागतशिरोरोगचिकित्सायां वक्तव्यायां शिरोरोगप्रधानत्वाद्भूरिशिरोरोगहेतुत्वाच्च प्रतिश्यायमेव तावदाह|

संस्त्यानदोषे शिरसि प्रवृद्धो वायुः प्रतिश्यायमुदीरयेत्तु| (Char. Samh. Chi 26.105)

Dushtapratishyaya

दुष्टप्रतिश्याय -

सर्वोऽतिवृद्धोऽहितभोजनात्तु दुष्टप्रतिश्याय उपेक्षितः स्यात्||१०७||

ततस्तु रोगाः क्षवथुश्च .......अरूंषि शीर्षश्रवणाक्षिरोगखालित्यहर्यर्जुनलोमभावाः| (Cha.Chi 26.107-109)

Durvirikte

गलोपलेपः शिरसो गुरुत्वं निष्ठीवनं चाप्यथ दुर्विरिक्ते| (Char. SAMh. SIddhi 1.52)

Migrain / Ardhavabhedaka

केवलः सकफो वाऽर्धं [२] गृहीत्वा शिरसस्ततः|

मन्याभ्रूशङ्खकर्णाक्षिललाटार्धेऽतिवेदनाम्||७५||

शस्त्रारणिनिभां कुर्यात्तीव्रां सोऽर्धावभेदकः| Cha. Si 9. 74-76

References