Difference between revisions of "Sattva (सत्त्वम्)"

From Dharmawiki
Jump to navigation Jump to search
Line 21: Line 21:
  
 
वर्त्मरुचिर्भक्तिरभिषङ्गाभावस्तमोगुणो विपर्ययश्च||१९|| A.S.SHA. 5/19
 
वर्त्मरुचिर्भक्तिरभिषङ्गाभावस्तमोगुणो विपर्ययश्च||१९|| A.S.SHA. 5/19
 +
 +
सत्त्वं <sup>[१]</sup> तु व्यसनाभ्युदयक्रियादिस्थानेष्वविक्लवकरम् <sup>[२]</sup> ||३७||
 +
 +
सत्त्ववान् सहते सर्वं संस्तभ्यात्मानमात्मना |
 +
 +
राजसः स्तभ्यमानोऽन्यैः सहते नैव तामसः ||३८|| SU SU 35/38
 +
 +
Commentary:  सत्त्वं मनोबलं गुणविशेषो रजस्तमसोर्विपक्षः; सत्त्वे सति पीडादिसहिष्णुत्वलक्षणं मनोबलं भवति| व्यसनं दुःखं, सुखस्य हेतुरभ्युदयः, तयोः क्रियास्थानानि, येषु स्थानेषु व्यसनाभ्युदयक्रिये भवतः, तानि व्यसनाभ्युदयक्रियास्थानानि तेषु| अविक्लवकरम् अग्लानिकरमहर्षकरं च|
 +
 +
सात्त्विके शौचदाक्षिण्यहर्षमण्डनलालसः |
 +
 +
गीताध्ययनसौभाग्यसुरतोत्साहकृन्मदः ||२०७|| su su 45/207
  
 
== Sattva as manas ==
 
== Sattva as manas ==
Line 26: Line 38:
  
 
देहमाहुः||२२|| a.s.sha 5/22
 
देहमाहुः||२२|| a.s.sha 5/22
 +
 +
== Sattvik prakruti signs ==
 +
सात्त्विकास्तु- आनृशंस्यं संविभागरुचिता तितिक्षा सत्यं धर्म आस्तिक्यं ज्ञानं बुद्धिर्मेधा स्मृतिर्धृतिरनभिषङ्गश्च Su sha 1/18
 +
 +
== Sattvika kaya ==
 +
शौचमास्तिक्यमभ्यासो वेदेषु गुरुपूजनम् |
 +
 +
प्रियातिथित्वमिज्या च ब्रह्मकायस्य लक्षणम् ||८१||
 +
 +
माहात्म्यं शौर्यमाज्ञा च सततं शास्त्रबुद्धिता |
 +
 +
भृत्यानां भरणं चापि माहेन्द्रं कायलक्षणम् ||८२||
 +
 +
शीतसेवा सहिष्णुत्वं पैङ्गल्यं हरिकेशता |
 +
 +
प्रियवादित्वमित्येतद्वारुणं <sup>[१]</sup> कायलक्षणम् ||८३||
 +
 +
मध्यस्थता सहिष्णुत्वमर्थस्यागमसञ्चयौ |
 +
 +
महाप्रसवशक्तित्वं कौबेरं कायलक्षणम् ||८४||
 +
 +
गन्धमाल्यप्रियत्वं च नृत्यवादित्रकामिता |
 +
 +
विहारशीलता चैव गान्धर्वं कायलक्षणम् ||८५||
 +
 +
प्राप्तकारी दृढोत्थानो निर्भयः <sup>[२]</sup> स्मृतिमाञ्छुचिः |
 +
 +
रागमोहमदद्वेषैर्वर्जितो याम्यसत्त्ववान् <sup>[३]</sup> ||८६||
 +
 +
जपव्रतब्रह्मचर्यहोमाध्ययनसेविनम् |
 +
 +
ज्ञानविज्ञानसम्पन्नमृषिसत्त्वं नरं विदुः ||८७||
 +
 +
सप्तैते सात्त्विकाः काया... |८८| Su sha 4
 +
 +
शुचिं सत्याभिसन्धं जितात्मानं संविभागिनं ज्ञानविज्ञानवचनप्रतिवचनसम्पन्नं स्मृतिमन्तं कामक्रोधलोभमानमोहेर्ष्याहर्षामर्षापेतं समं सर्वभूतेषु ब्राह्मं विद्यात् (१)|
 +
 +
इज्याध्ययनव्रतहोमब्रह्मचर्यपरमतिथिव्रतमुपशान्तमदमानरागद्वेषमोहलोभरोषं प्रतिभावचनविज्ञानोपधारणशक्तिसम्पन्नमार्षं विद्यात् (२)|
 +
 +
ऐश्वर्यवन्तमादेयवाक्यं यज्वानं शूरमोजस्विनं तेजसोपेतमक्लिष्टकर्माणं दीर्घदर्शिनं धर्मार्थकामाभिरतमैन्द्रं विद्यात् (३)|
 +
 +
लेखास्थवृत्तं प्राप्तकारिणमसम्प्रहार्यमुत्थानवन्तं स्मृतिमन्तमैश्वर्यलम्भिनं <sup>[१]</sup> व्यपगतरागेर्ष्याद्वेषमोहं याम्यं विद्यात् (४)|
 +
 +
शूरं धीरं शुचिमशुचिद्वेषिणं यज्वानमम्भोविहाररतिमक्लिष्टकर्माणं स्थानकोपप्रसादं वारुणं विद्यात् (५)|
 +
 +
स्थानमानोपभोगपरिवारसम्पन्नं धर्मार्थकामनित्यं शुचिं सुखविहारं व्यक्तकोपप्रसादं कौबेरं विद्यात् (६)|
 +
 +
प्रियनृत्यगीतवादित्रोल्लापकश्लोकाख्यायिकेतिहासपुराणेषु कुशलं गन्धमाल्यानुलेपनवसनस्त्रीविहारकामनित्यमनसूयकं गान्धर्वं विद्यात् (७)|
 +
 +
इत्येवं शुद्धस्य सत्त्वस्य सप्तविधं भेदांशं विद्यात् कल्याणांशत्वात्; तत्संयोगात्तु ब्राह्ममत्यन्तशुद्धं व्यवस्येत्||३७||  Cha sha 4
 +
 +
== Role of Sattva guna in Moksha ==
 +
रजस्तमोभ्यां युक्तस्य संयोगोऽयमनन्तवान्|
 +
 +
ताभ्यां निराकृताभ्यां तु सत्त्ववृद्ध्या <sup>[१]</sup> निवर्तते||३६|| Cha sha 1/36
 +
 +
मोक्षो रजस्तमोऽभावात् बलवत्कर्मसङ्क्षयात्|
 +
 +
वियोगः सर्वसंयोगैरपुनर्भव उच्यते||१४२||  Cha  sha 1/142

Revision as of 23:59, 8 February 2021

ToBeEdited.png
This article needs editing.

Add and improvise the content from reliable sources.

The word Sattva (सत्त्वम्) denotes one of the 3 gunas of nature. Also in Ayurveda Sattva refers to the manas or mind. It is that quality of mind which is considered guna and thus manas is referred from its guna named sattva.

तत्र सत्त्वं निर्मलत्वात्प्रकाशकमनामयम् |

सुखसङ्गेन बध्नाति ज्ञानसङ्गेन चानघ || 6|| B.G 14.6

Meaning: Amongst these, sattva guṇa, the mode of goodness, being purer than the others, is illuminating and full of well-being. O sinless one, it binds the soul by creating attachment for a sense of happiness and knowledge.

The word prakāśhakam means “illuminating.” The word anāmayam means “healthy and full of well-being.” By extension, it also means “of peaceful quality,” devoid of any inherent cause for pain, discomfort, or misery. The mode of goodness is serene and illuminating. Thus, sattva guṇa engenders virtue in one’s personality and illuminates the intellect with knowledge. It makes a person become calm, satisfied, charitable, compassionate, helpful, serene, and tranquil. It also nurtures good health and freedom from sickness. While the mode of goodness creates an effect of serenity and happiness, attachment to them itself binds the soul to material nature.

सर्वद्वारेषु देहेऽस्मिन्प्रकाश उपजायते |

ज्ञानं यदा तदा विद्याद्विवृद्धं सत्त्वमित्युत || 11|| BG.14.11

Sattva guṇa leads to the development of virtues and the illumination of knowledge.

Signs of Sattva dominance in manas

शुद्धसत्त्वजानि शौचमास्तिकत्वं, कृतज्ञता, दाक्षिण्यं,

व्यवसायः, शौर्य्यं, गाम्भिर्यं बुद्धिर्मेधा, स्मृतिः शुक्ल

वर्त्मरुचिर्भक्तिरभिषङ्गाभावस्तमोगुणो विपर्ययश्च||१९|| A.S.SHA. 5/19

सत्त्वं [१] तु व्यसनाभ्युदयक्रियादिस्थानेष्वविक्लवकरम् [२] ||३७||

सत्त्ववान् सहते सर्वं संस्तभ्यात्मानमात्मना |

राजसः स्तभ्यमानोऽन्यैः सहते नैव तामसः ||३८|| SU SU 35/38

Commentary: सत्त्वं मनोबलं गुणविशेषो रजस्तमसोर्विपक्षः; सत्त्वे सति पीडादिसहिष्णुत्वलक्षणं मनोबलं भवति| व्यसनं दुःखं, सुखस्य हेतुरभ्युदयः, तयोः क्रियास्थानानि, येषु स्थानेषु व्यसनाभ्युदयक्रिये भवतः, तानि व्यसनाभ्युदयक्रियास्थानानि तेषु| अविक्लवकरम् अग्लानिकरमहर्षकरं च|

सात्त्विके शौचदाक्षिण्यहर्षमण्डनलालसः |

गीताध्ययनसौभाग्यसुरतोत्साहकृन्मदः ||२०७|| su su 45/207

Sattva as manas

तत्र सत्त्वं मनस्तस्योपप्लवो रजस्तमश्च इत्येवम्भूतात्मकं

देहमाहुः||२२|| a.s.sha 5/22

Sattvik prakruti signs

सात्त्विकास्तु- आनृशंस्यं संविभागरुचिता तितिक्षा सत्यं धर्म आस्तिक्यं ज्ञानं बुद्धिर्मेधा स्मृतिर्धृतिरनभिषङ्गश्च Su sha 1/18

Sattvika kaya

शौचमास्तिक्यमभ्यासो वेदेषु गुरुपूजनम् |

प्रियातिथित्वमिज्या च ब्रह्मकायस्य लक्षणम् ||८१||

माहात्म्यं शौर्यमाज्ञा च सततं शास्त्रबुद्धिता |

भृत्यानां भरणं चापि माहेन्द्रं कायलक्षणम् ||८२||

शीतसेवा सहिष्णुत्वं पैङ्गल्यं हरिकेशता |

प्रियवादित्वमित्येतद्वारुणं [१] कायलक्षणम् ||८३||

मध्यस्थता सहिष्णुत्वमर्थस्यागमसञ्चयौ |

महाप्रसवशक्तित्वं कौबेरं कायलक्षणम् ||८४||

गन्धमाल्यप्रियत्वं च नृत्यवादित्रकामिता |

विहारशीलता चैव गान्धर्वं कायलक्षणम् ||८५||

प्राप्तकारी दृढोत्थानो निर्भयः [२] स्मृतिमाञ्छुचिः |

रागमोहमदद्वेषैर्वर्जितो याम्यसत्त्ववान् [३] ||८६||

जपव्रतब्रह्मचर्यहोमाध्ययनसेविनम् |

ज्ञानविज्ञानसम्पन्नमृषिसत्त्वं नरं विदुः ||८७||

सप्तैते सात्त्विकाः काया... |८८| Su sha 4

शुचिं सत्याभिसन्धं जितात्मानं संविभागिनं ज्ञानविज्ञानवचनप्रतिवचनसम्पन्नं स्मृतिमन्तं कामक्रोधलोभमानमोहेर्ष्याहर्षामर्षापेतं समं सर्वभूतेषु ब्राह्मं विद्यात् (१)|

इज्याध्ययनव्रतहोमब्रह्मचर्यपरमतिथिव्रतमुपशान्तमदमानरागद्वेषमोहलोभरोषं प्रतिभावचनविज्ञानोपधारणशक्तिसम्पन्नमार्षं विद्यात् (२)|

ऐश्वर्यवन्तमादेयवाक्यं यज्वानं शूरमोजस्विनं तेजसोपेतमक्लिष्टकर्माणं दीर्घदर्शिनं धर्मार्थकामाभिरतमैन्द्रं विद्यात् (३)|

लेखास्थवृत्तं प्राप्तकारिणमसम्प्रहार्यमुत्थानवन्तं स्मृतिमन्तमैश्वर्यलम्भिनं [१] व्यपगतरागेर्ष्याद्वेषमोहं याम्यं विद्यात् (४)|

शूरं धीरं शुचिमशुचिद्वेषिणं यज्वानमम्भोविहाररतिमक्लिष्टकर्माणं स्थानकोपप्रसादं वारुणं विद्यात् (५)|

स्थानमानोपभोगपरिवारसम्पन्नं धर्मार्थकामनित्यं शुचिं सुखविहारं व्यक्तकोपप्रसादं कौबेरं विद्यात् (६)|

प्रियनृत्यगीतवादित्रोल्लापकश्लोकाख्यायिकेतिहासपुराणेषु कुशलं गन्धमाल्यानुलेपनवसनस्त्रीविहारकामनित्यमनसूयकं गान्धर्वं विद्यात् (७)|

इत्येवं शुद्धस्य सत्त्वस्य सप्तविधं भेदांशं विद्यात् कल्याणांशत्वात्; तत्संयोगात्तु ब्राह्ममत्यन्तशुद्धं व्यवस्येत्||३७|| Cha sha 4

Role of Sattva guna in Moksha

रजस्तमोभ्यां युक्तस्य संयोगोऽयमनन्तवान्|

ताभ्यां निराकृताभ्यां तु सत्त्ववृद्ध्या [१] निवर्तते||३६|| Cha sha 1/36

मोक्षो रजस्तमोऽभावात् बलवत्कर्मसङ्क्षयात्|

वियोगः सर्वसंयोगैरपुनर्भव उच्यते||१४२|| Cha sha 1/142