Panchamahabhutas (पञ्चमहाभूतानि)

From Dharmawiki
Revision as of 19:03, 1 October 2021 by DrDevashree (talk | contribs) (Created new page, added content)
Jump to navigation Jump to search

Panchamahabhutas is the samskrit term made up of 3 parts. Pancha means 5, maha means big and bhutas means the existing elements. Thus, the term panchamahabhutas indicates 5 basic elements in the nature. It is also known as pancha bhutas. These are considered as the basis of creation of universe and thus human body as well. These 5 basic elements have specific attributes, owing to which how they would act or affect is decided. They co-exist in all the materials or matters in this universe but one or 2 elements might be present in dominance. Dominance of mahabhutas decide the final quality or nature and behaviour of that matter in this world.

The 5 elements

Bhu / Prthvi, Jalam/ aapa, Teja/ Agni, Vayu and Aakasha are these 5 basic elements or panchamahabhutas present in the universe

महाभूतानि खं वायुरग्निरापः क्षितिस्तथा|

शब्दः स्पर्शश्च रूपं च रसो गन्धश्च तद्गुणाः||२७|| Cha Sha 1.27

Prthvi

Tarkasamgraha- ॥ तत्र गन्धवती पृथिवी। सा द्विविधा, नित्याऽनित्या च। नित्या परमाणुरूपा। अनित्या कार्यरूपा। पुनस्त्रिविधा शरीरेन्द्रियविषयभेदात्। शरीरमस्मदादीनाम्। इन्द्रियं गन्धग्राहकं घ्राणम्। तच्च नासाग्रवर्ति। विषयो मृत्पाषाणादिः॥९॥ [1]

Apa

॥ शीतस्पर्शवत्यः आपः। ता द्विविधाः, नित्या अनित्याश्च। नित्याः परमाणुरूपाः। अनित्याः कार्यरूपाः। पुनस्त्रिविधाः शरीरेन्द्रियविषयभेदात्। शरीरं वरुणलोके। इन्द्रियं रसग्राहकं रसनं जिह्वाग्रवर्ति। विषयः सरित्समुद्रादिः॥२॥

Teja

॥ उष्णस्पर्शवत् तेजः। तच्च द्विविधं, नित्यमनित्यं च। नित्यं परमाणुरूपम्। अनित्यं कार्यरूपम्। पुनः त्रिविधं शरीरेन्द्रियविषयभेदात्। शरीरमादित्यलोके प्रसिद्धम्। इन्द्रियं रूपग्राहकं चक्षुः कृष्णताराग्रवर्ति। विषयः चतुर्विधः, भौम-दिव्य-औदर्य-आकरजभेदात्। भौमं वह्न्यादिकम्। अभिन्धनं दिव्यं विद्युदादि। भुक्तस्य परिणामहेतुरौदर्यम्। आकरजं सुवर्णादि॥३॥

Vayu

॥ रूपरहितः स्पर्शवान् वायुः। स द्विविधः नित्यः अनित्यश्च। नित्यः परमाणुरूपः। अनित्यः कार्यरूपः। पुनः त्रिविधः शरीरेन्द्रियविषयभेदात्। शरीरं वायुलोके। इन्द्रियं स्पर्शग्राहकंत्वक् सर्वशरीरवर्ति। विषयो वृक्षादिकम्पनहेतुः। शरीरान्तः सञ्चारी वायुः प्राणः। स च एकोऽपि उपाधिभेदात् प्राणापानादिसंज्ञां लभते॥४॥

Akasha

॥ शब्दगुणकमाकाशम्। तच्चैकं विभु नित्यञ्च॥५॥

Bhutantara praveshakrit gunas (भूतान्तरप्रवेशकृतं गुणम)

तेषामेकगुणः पूर्वो गुणवृद्धिः परे परे|

पूर्वः पूर्वगुणश्चैव क्रमशो गुणिषु स्मृतः||२८|| Cha sha 1.28

Basic properties that can be perceived by human through touch

खरद्रवचलोष्णत्वं भूजलानिलतेजसाम्|

आकाशस्याप्रतीघातो दृष्टं लिङ्गं यथाक्रमम्||२९||

लक्षणं सर्वमेवैतत् स्पर्शनेन्द्रियगोचरम्|

स्पर्शनेन्द्रियविज्ञेयः स्पर्शो हि सविपर्ययः||३०|| Cha sha 1.29-30

Mahabhutas and trigunas Association

तत्र सत्त्वबहुलमाकाशं, रजोबहुलो वायुः, सत्त्वरजोबहुलोऽग्निः, सत्त्वतमोबहुला आपः, तमोबहुला पृथिवीति ||२०|| Su Sha 1.20

Application of panchamahabhuta siddhanta in Ayurveda

भूतेभ्यो हि परं यस्मान्नास्ति चिन्ता चिकित्सिते ||१३||

यतोऽभिहितं- “तत्सम्भवद्रव्यसमूहो भूतादिरुक्तः” (सू.१); भौतिकानि चेन्द्रियाण्यायुर्वेदे वर्ण्यन्ते, तथेन्द्रियार्थाः ||१४|| Su Sha 1. 13-14

References

  1. Tarkasamgraha By Annambhatta, Dravyalakshana prakaranam