Mantra Pushpam (मन्त्र पुष्पम्)

From Dharmawiki
Revision as of 23:41, 5 November 2019 by A Rajaraman (talk | contribs) (completed)
Jump to navigation Jump to search

॥ प्रार्थना ॥

ॐ गणानां त्वा गणपतिगम् हवामहे कर्विं कवीनामुपमश्र॑वस्तमम्‌[1]

ज्येष्ठराजं ब्रह्म॑णां ब्रह्मणस्पत आ न: शृण्वन्नूतिभिस्सीद साद॑नम्‌ ॥

ॐ हंस हुसाय विद्महें परमहंसाय॑ घीमहि । तन्नो हंस: प्रचोदयात्‌ ॥

ॐ नमो हिरण्यबाहवे हिरण्यवर्णाय हिरण्यरूपाय हिरण्यपतयेऽम्बिकापतय उमापतये पशुपतये नमो नमः ॥

ऋतगम् स॒त्यं पर ब्रह्म पुरुषं कृष्णपिङ्गलम् । ऊर्ध्वरेतं विरूपाक्षं विश्वरूपाय वै नमो नम: ॥

ईशान-स्सर्व-विद्याना-मीश्वर-स्सर्व-भूतानां ब्रह्माऽघिपति-र्ब्रह्मणोऽघिपति-र्ब्रह्मा शिवोमे अस्तु सदाशिवोम्‌ ॥

ॐ भू-र्भूव-स्सूवः ॥ॐ नमः शम्भवे च मयोभवे च नमः शंकराय च मयस्कराय च नमः शिवाय च शिवतराय च ॥

ॐ निधनपतये नमः । निधनपतान्तिकाय नमः । ऊध्वार्य नम: । ऊर्घ्वलिङ्गाय नमः । हिरण्याय नमः । हिरण्यलिङ्गाय नमः ।

सुवर्णाय नमः । सुवर्णलिङ्गाय नमः । दिव्याय नम: । दिव्यलिङ्गाय नमः । भवाय नमः । भवलिङ्गाय नमः । शर्वाय नमः ।

शर्वलिङ्गाय नमः । शिवाय नमः । शिवालिङ्गाय नमः । ज्वलाय नमः । ज्वललिङ्गाय नमः । आत्माय नमः । आत्मलिङ्गाय नमः ।

परमाय नमः । परलिङ्गाय नमः । एतत्सोमस्य सूर्यस्य सर्वलिङ्गाय स्थापयति पाणिमन्त्रं पवित्रम्‌ ॥

सद्योजातं प्रपद्यामि सद्योजाताय वै नमो नमः ।

भवे भवे नातिंभवे भवस्वमाम्‌ । भवोदभ्वाय वै नमो नम: ॥ वामदेवाय नमो ज्येष्ठाय

नम-श्श्रेष्ठाय नमो रुद्राय नमः कालाय नमः कलविकरणाय नमो

बलविकरणाय नमो बलाय नमो बलप्रमथनाय नम-स्सर्व-भूतदमनाय नमो मनोन्मनाय नम: ॥

अघोरेम्योऽथ घोरेभ्यो घोरघोरतरेम्य: । सर्वेम्य-स्सर्वशार्वेभ्यो नमस्ते अस्तु रुद्ररूपेम्य: ॥

सर्वो वै रुद्र-स्तस्मै रुद्राय नमो अस्तु | पुरुषो वै रुद्र-स्सन्महो नमो नमः । विश्वं भूतं भुवनं चित्रं बहुधा जातं जायमानं च यत्‌ ।

सर्वो ह्येष रुद्र-स्तस्मै रुद्राय नमो अस्तु ॥

कद्रुद्राय प्रचेतसे मीढु्ष्टमाय तव्यसे | वो चेम शन्तमगं ह्रदे |

सर्वो ह्येष रुद्र-स्तस्मै रुद्राय नमो अस्तु ॥

त्यम्बकं यजामहे सुगन्धिं पुष्टिवर्धनम्‌ । उर्वारुकमिव बन्ध॑नान्मृत्योर्मुक्षीय माऽमृतात् ॥

ये ते सहस्रमयुतं पाशा मृत्यो मर्त्यीय हन्तवे । तान्‌ यज्ञस्य

मायया सर्वा-नवयजामहे ॥ मृत्यवे स्वाहा मृत्यवे स्वाहा ।

ॐ नमो भगवते रुद्राय विष्णवे मृत्युर्मे पाहि ॥

ॐ तत्पुरुषाय विद्महे महादेवाय धीमहि । तन्नो रुद्र: प्रचोदयात्‌ ॥

ॐ नमस्ते अस्तु भगवन्विश्वेश्वराय महादेवाय त्र्यम्बकाय

त्रिपुरान्तकाय त्रिकाग्रिकालाय कालाग्रिरुद्राय नीलकण्ठाय

मृत्युज्जया सर्वेश्वराय सदाशिवाय श्रीमन्महादेवाय नम: ॥

ॐ शं च मे मयश्च मे प्रियं च मेऽनुकामश्च मे कामश्च मे

सौमनसश्च मे मद्रं च मे श्रेयश्च मे वस्यश्च मे यशश्च मे भगश्च मे

द्रविणं च मे यन्ता च मे धर्ता च मे क्षेमश्र मे धृतिश्च मे विश्वं च

मे महश्च मे संविश्च मे ज्ञात्रं च मे सूश्च मे प्रसुश्च मे सीरं च मे लयश्च म ऋतं च मेऽमृतं च मेऽयक्ष्मं च मेऽनामयच्च मे जीवातुश्च

मे दीर्घायुत्वं च मेऽनमित्रं च मेऽभयं च मे सुगं च मे शयनं च मे सूषा च मे सू दिनं च मे ॥ सदाशिवोम्‌ ॥

ॐ शान्ति: शान्ति: शान्ति: ॥

ॐ असतो मा सद्गमय । तमसो मा ज्योतिर्गमय । मृत्योर्माऽमृतं गमय ॥

यो वेदादौ स्वर: प्रोक्तो वेदान्ते च प्रतिष्ठित: । तस्य प्रकृतिलीनस्य यः परस्स महेश्वर: ॥

सदाशिवोम्‌ ॥

ॐ शान्ति: शान्ति: शान्तिं: ॥

References

  1. परिष्कर्ता स्वामी देवरूपानन्द:, रामकृष्ण मठ, खार, मुम्बई, Published By : The President, Ramakrishna Math, Khar, Mumbai - 400 052, Third Edition : January 23, 2007