Mahakavi Kalidasa (महाकवि-कालिदासः)

From Dharmawiki
Revision as of 09:57, 21 June 2020 by Fordharma (talk | contribs) (Creating a new page about Mahakavi Kalidasa in Sahitya section)
(diff) ← Older revision | Latest revision (diff) | Newer revision → (diff)
Jump to navigation Jump to search

कविकुलगुरुः कालिदासः कविश्रेष्ठः इति न केवलं भारतवर्षे अपितु जगिति सुप्रसिद्ध इति उच्यते । भारतीयाः पण्डिता आलङ्कारिकाश्चैनं महाकवि-कविशिरोमणि-कविसम्राट प्रभृतिभिरुपपदैः स्मरन्ति। वैदेशिकाः कालिदासं द्वितीयं शेक्सपीयरम् एव मन्यन्ते ।

कालिदासस्य जीवनपरिचयम्।

यद्यपि महाकवेः रचनाराशिः देशदेशान्तरे प्रसृता, परमयं महानुभावस्य जन्म कुत्र कदा चाभूतिति विषये न किमपि निश्चिततया वक्तुं शक्नुमः। कालिदासस्य जन्मस्थानं कश्मीराः वा वङ्गभूमिर्वा राजस्थानं वा उज्जयिनी वेति निश्चितं वक्तुं न शक्यते । न चास्य जीवनकालविषये कश्चिद् निर्णयः। महाराजविक्रमादित्यस्य राजसभाया अयं सभारत्नेषु प्रतिष्ठितो विद्वान् इति सर्वैः स्वीक्रियते।[1]

अपरे प्रतिपादयन्ति यत् महाकविरयं द्वितीयचन्द्रगुप्तस्य विक्रमादित्यापरनामधेयस्य समयेऽभवत्। कालिदासः तस्य सभापण्डित आसीदिति जमश्रुतिः। परं महाराजविक्रमादित्यस्य समकालिक इति भारतीयविद्वांसः तस्य काल एव कालिदास्य काल इति स्वीकुर्वन्ति सूचकमिदं पद्यमधिकृत्य तेषां मतम् -

धन्वन्तरि-क्षपणकाऽमरसिंह-शङ्कुवेतालभट्ट-घटखर्पर-कालिदासाः ।

ख्यातो वराहमिहिरो नृपतेः सभायां रत्नानि वै वररुचिर्नव विक्रमस्य ।।

अनन्यसामान्यप्रतिभा ।

आनन्दवर्धनाचार्येण कालिदासीय काव्येषु अनुपमं काव्यरसामृतं पीत्वा उक्तं यत् कालिदासं अनन्यसामान्यप्रतिभाविशेषमधितिष्ठति, तस्य काव्यमाधुरी तु

कालिदासस्य काव्ये किञ्चित् अलौकिकम्, अपूर्वम्, असाधारणम् च सौन्दर्यं दरीदृश्यते । तस्य काव्ये कश्मीरात् आ कन्याकुमारीम्, आ द्वारिकायाः आ प्राग्ज्योतिषम् अपूर्व स्वाभाविकं च सौन्दर्यवर्णनम् उपलभ्यते । तस्य काव्यरस निपीय निपीय जनानाम् हृदयम् नृत्येन आन्दोलितम् इव भवति । तत्तुल्यः कोऽपि कविः नासीत् । अतः केनचित् कविना उक्तम्–

पुरा कवीनाम् गणनाप्रसंगे कनिष्ठिकाधिष्ठितकालिदासा।

अद्यापि तत्तुल्यकवेरभावात् अनामिका सार्थवती बभूव ॥

कालिदासेन अभिज्ञानशाकुन्तलम्, विक्रमोर्वशीयम्, मालविकाग्निमित्रं च इति त्रीणि रूपकाणि, रघुवंशम्, कुमारसम्भवम् च इति द्वे महाकाव्ये, ऋतुसंहारम्, मेघदूतं च इति द्वे खंडकाव्ये विरचितानि । तस्य कौशलम् यथा पद्यरचनायाम् तथैव नाटकेषु वर्तते ।

कालिदासेन प्रकृतिः मानवसहचरीरूपेण वणिता। यदा तस्य पात्राणि हृष्यन्ति तदा प्रकृतिः अपि प्रफुल्ला भवति । यदा तस्य पात्राणि दुःखितानि भवन्ति तदा प्रकृतिरपि रोदितीव । यथा अभिज्ञानशाकुन्तले चतुर्थेऽङ्के शकुन्तला यदा कण्वाश्रम त्यक्त्वा पतिगृहं प्रयाति तदा तस्या वियोगे मृगा घासचर्वणं विस्मरन्ति, मयूरास्तस्याः शोके नृत्यं त्यजन्ति, किमन्यत् वृक्षा लताश्चापि रुदन्ति पत्ररूपाणि अश्रूणि च पातयन्ति-

उद्गलितदर्भकवला मृगाः परित्यक्तनर्तना मयूराः । अपसृतपाण्डुपत्रा मुञ्चन्त्यश्रूणीव लताः ।।

कालिदासस्य काव्ये मानवमनसोऽपि गम्भीरचित्रणं वयं पश्यामः ।

कालिदासस्य काव्यानि व्यंजनामयानि सन्ति । गेटेनामा जर्मनकविः स्वर्लोकभूलोकयोः सौन्दर्यम् एकीभूतमिव अभिज्ञानशाकुन्तले अवलोकयति ।।

कालिदासस्य काव्यानां प्रमुखं वैशिष्टयम् उपमासौन्दर्यम् एव अस्ति । ‘उपमा कालिदासस्य’ इति आभाणकम् प्रसिद्धमेव। तस्य उपमायाः एकम् उदाहरणं दृश्यताम्- संचारिणी दीपशिखेव रात्रौ यं यं व्यतीयाय पतिंवरा सा । नरेन्द्रमार्गाट्ट इव प्रपेदे विवर्णभावं स स भूमिपालः ।।

अत्र रघुवंशे इन्दुमत्याः स्वयंवरावसरस्य वर्णनमस्ति । इन्दुमती अत्र चलन्ती दीपशिखा इव वणता। वरमाला गृहीत्वा सा यस्य यस्य नृपस्य सम्मुखं याति स स प्रथमं तु प्रसन्नः भवति परन्तु यदा सा अग्रे गच्छति तदा तस्य मुखं तथैव म्लानं भवति यथा दीपप्रकाशशून्याः प्रासादाः भवेयुः । अत्र उपमया एव कालिदासेन नृपाणां मनोभावा अपि स्फुटं प्रदर्शिताः । अनया उपमया एव कालिदासेन दीपशिखाकालिदासः इत्युपाधिरधिगतः ।

  1. डा. कोम्पेल्लि विनयकुमारविरचित "प्राचीन कवयः - किविकुलगुरुः कालिदासः" प्रबन्धः (राष्ट्रीय संस्कृत संस्थान् प्राचार्यः, श्रृङ्गेरी)