Grahana (ग्रहणम्)

From Dharmawiki
Revision as of 17:27, 27 March 2020 by Ckanak93 (talk | contribs) (Adding reference)
Jump to navigation Jump to search
ToBeEdited.png
This article needs editing.

Add and improvise the content from reliable sources.

Eclipses have been mentioned and described as caused by Svarbhānu or Rāhu. The Ṛgveda (5. 40. 5–9) describes an eclipse of the Sun as brought about by Svarbhānu.[1]

यत्त्वा सूर्य स्वर्भानुस्तमसाविध्यदासुरः । अक्षेत्रविद्यथा मुग्धो भुवनान्यदीधयुः ॥५॥

स्वर्भानोरध यदिन्द्र माया अवो दिवो वर्तमाना अवाहन् । गूळ्हं सूर्यं तमसापव्रतेन तुरीयेण ब्रह्मणाविन्ददत्रिः ॥६॥

मा मामिमं तव सन्तमत्र इरस्या द्रुग्धो भियसा नि गारीत् । त्वं मित्रो असि सत्यराधास्तौ मेहावतं वरुणश्च राजा ॥७॥

ग्राव्णो ब्रह्मा युयुजानः सपर्यन्कीरिणा देवान्नमसोपशिक्षन् । अत्रिः सूर्यस्य दिवि चक्षुराधात्स्वर्भानोरप माया अघुक्षत् ॥८॥

यं वै सूर्यं स्वर्भानुस्तमसाविध्यदासुरः । अत्रयस्तमन्वविन्दन्नह्यन्ये अशक्नुवन् ॥९॥[2]

The Tāṇḍya-brāhmaṇa mentions eclipses as many as five times.

स्वर्भानुर्व्वा आसुर आदित्यन्तमसाविध्यत्तस्य देवा दिवाकीर्त्यैस्तमोपाघ्नन्यद्दिवाकीर्त्यानि भवन्ति तम एवास्मादपघ्नन्ति रश्मयो वा एत आदित्यस्य यद्दिवाकीर्त्यानि रश्मिभिरेव तदादित्यं साक्षादारभन्ते || 4. 6. 13||[3]

स्वर्भानुर्व्वा आसुर आदित्यन्तमसाविध्यत्तं देवा न व्यजानंस्तेत्रिमुपाधावंस्तस्यात्रिर्भासेन तमोपाहन्यत् प्रथममपाहन् सा कृष्णाविरमवद्यद्वितीयं सा राजता यत्तृतीयं सा लोहिनी यया वर्णमय्यतृणत् सा शुक्लासीत् ||6. 6. 8||[3]

And in 4. 5. 2; 14. 11. 14–15; 23. 16. 2 Eclipses have been mentioned in the Atharvaveda (19. 9. 10)[1]

शं नो ग्रहाश्चान्द्रमसाः शमादित्यश्च राहुणा । शं नो मृत्युर्धूमकेतुः शं रुद्रास्तिग्मतेजसः ॥१०॥[4]

the Gopathabrāhmaṇa (8. 19) and the Śatapatha-brāhmaṇa (5. 3. 2. 2) also.[1]

स्वर्भानुर्ह वा आसुरः । सूर्यं तमसा विव्याध स तमसा विद्धो न व्यरोचत तस्य सोमारुद्रावेवैतत्तमोऽपाहतां स एषोऽपहतपाप्मा तपति तथो एवैष एतत्तमः प्रविशत्येतं वा तमः प्रविशति यदयज्ञियान्यज्ञेन प्रसजत्ययज्ञियान्वा एतद्यज्ञेन प्रसजति शूद्रांस्त्वद्यांस्त्वत्तस्य सोमारुद्रावेवैतत्तमोऽपहतः सोऽपहतपाप्मैव दीक्षते तद्यच्छ्वेतायै श्वेतवत्सायै पयसि शृतो भवति कृष्णं वै तमस्तत्तमोऽपहन्ति तस्यैषैव श्वेता श्वेतवत्सा दक्षिणा - ५.३.२.[२][5]

MW

ग्रह m. seizure of the sun and moon , eclipse AV. xix , 9 , 7 and 10 VarBr2S.

Apte

an eclipse; शशिदिवाकरयोर्ग्रहपीडनम् Bh.2.91; H.1.51; Pt.2.19.-पुषः the sun. -भक्तिः f. division of countries &c. with respect to the presiding planets.

References

  1. 1.0 1.1 1.2 Kolachana, Aditya & Mahesh, Kaluva & Ramasubramanian, K.. (2019). Main characteristics and achievements of ancient Indian astronomy in historical perspective. 10.1007/978-981-13-7326-8_24.
  2. Rgveda, Mandala 5, Sukta 40.
  3. 3.0 3.1 Tandyamahabrahmanam
  4. Atharvaveda, Kanda 19.
  5. Shatapathabrahmana, Kanda 5, Adhyaya 2, Brahmana 2.