Difference between revisions of "Ahara (आहारः)"

From Dharmawiki
Jump to navigation Jump to search
Line 49: Line 49:
 
तृप्तिराहारगुणानां, Cha.Su 25.40
 
तृप्तिराहारगुणानां, Cha.Su 25.40
  
Agrya related to ahara
+
=== Agrya related to ahara ===
 +
अन्नं वृत्तिकराणां श्रेष्ठम्,
  
अन्नं वृत्तिकराणां श्रेष्ठम्,  
+
अतिमात्राशनमामप्रदोषहेतूनां, यथाग्न्यभ्यवहारोऽग्निसन्धुक्षणानां, यथासात्म्यं चेष्टाभ्यवहारौ सेव्यानां, कालभोजनमारोग्यकराणां, तृप्तिराहारगुणानां,गुरुभोजनं दुर्विपाककराणाम्, एकाशनभोजनं सुखपरिणामकराणां,अनशनमायुषो ह्रासकराणां, प्रमिताशनं कर्शनीयानाम्, अजीर्णाध्यशनं ग्रहणीदूषणानां, विषमाशनमग्निवैषम्यकराणां, विरुद्धवीर्याशनं निन्दितव्याधिकराणां,  
  
 
== Ahara varga ==
 
== Ahara varga ==
Line 57: Line 58:
  
 
Ahardravya- A.H.SU 6  
 
Ahardravya- A.H.SU 6  
 +
 +
Cha Su27.6-7
 +
 +
शूकधान्यशमीधान्यमांसशाकफलाश्रयान्|
 +
 +
वर्गान् हरितमद्याम्बुगोरसेक्षुविकारिकान्||६||
 +
 +
दश द्वौ चापरौ वर्गौ कृतान्नाहारयोगिनाम्|
 +
 +
रसवीर्यविपाकैश्च प्रभावैश्च प्रचक्ष्महे||७||
  
 
== Viruddha ahara ==
 
== Viruddha ahara ==
 
<nowiki>--------------------------------------------</nowiki>|
 
  
 
विरुद्धमपि चाहारं विद्याद्विषगरोपमम्||२९||
 
विरुद्धमपि चाहारं विद्याद्विषगरोपमम्||२९||
  
 
A.H.SU.7.29
 
A.H.SU.7.29
 +
 +
देहधातुप्रत्यनीकभूतानि द्रव्याणि देहधातुभिर्विरोधमापद्यन्ते; परस्परगुणविरुद्धानि कानिचित्, कानिचित् संयोगात्, संस्कारादपराणि, देशकालमात्रादिभिश्चापराणि, तथा स्वभावादपराणि||८१|| (Cha.Su. 26.81)
 +
 +
यत् किञ्चिद्दोषमास्राव्य [१] न निर्हरति कायतः|
 +
 +
आहारजातं तत् सर्वमहितायोपपद्यते||८५|| Cha.Su.26.85
  
 
== Pathya- Apathya ==
 
== Pathya- Apathya ==
Line 135: Line 150:
 
A.H.SHA. 3.65-66
 
A.H.SHA. 3.65-66
  
इदानीं परिणतिकालमाहारस्य निरुपयन्नाह ----
+
इदानीं परिणतिकालमाहारस्य निरुपयन्नाह  
 
 
<nowiki>---------------------------------------</nowiki>|
 
  
 
केचिदाहुरहोरात्रात्षाडहादपरे, परे||६५||
 
केचिदाहुरहोरात्रात्षाडहादपरे, परे||६५||
  
मासेन याति शुक्रत्वमन्नं पाकक्रमादिभिः|
+
मासेन याति शुक्रत्वमन्नं पाकक्रमादिभिः|६६|
 
 
<nowiki>------------------------------------------</nowiki>|६६|
 
  
 
== Role of Ahara in balam ==
 
== Role of Ahara in balam ==
Line 193: Line 204:
  
 
एवं च कृत्वाऽन्नमया एव देहे सर्वे भावाः|
 
एवं च कृत्वाऽन्नमया एव देहे सर्वे भावाः|
 +
 +
न रागान्नाप्यविज्ञानादाहारानुपयोजयेत्|
 +
 +
परीक्ष्य हितमश्नीयाद्देहो ह्याहारसम्भवः||४१|| Cha.Su. 28.41
  
 
== Role of ahara in agni strength ==
 
== Role of ahara in agni strength ==
Line 198: Line 213:
  
 
सस्नेहैर्जायते तद्वदाहारैः कोष्ठगोऽनलः||७९|| A.H.Chi.10.79
 
सस्नेहैर्जायते तद्वदाहारैः कोष्ठगोऽनलः||७९|| A.H.Chi.10.79
 +
 +
Aharavidhi vishesha ayatana
 +
 +
आहारस्य विधावष्टौ विशेषा हेतुसञ्ज्ञकाः|
 +
 +
शुभाशुभसमुत्पत्तौ तान् परीक्ष्य प्रयोजयेत्||४२|| cha.su 28.42
  
 
== Anapanavidhi ==
 
== Anapanavidhi ==
  
 
SuSu.46.446-449
 
SuSu.46.446-449
 +
 +
== Ahara anupana ==
 +
यदाहारगुणैः [१] पानं विपरीतं तदिष्यते|
 +
 +
अन्नानुपानं धातूनां दृष्टं यन्न विरोधि च||३१९|| Cha.Su.27.319
 +
 +
अनुपानं तर्पयति, प्रीणयति, ऊर्जयति, बृंहयति, पर्याप्तिमभिनिर्वर्तयति, भुक्तमवसादयति, अन्नसङ्घातं भिनत्ति, मार्दवमापादयति, क्लेदयति, जरयति, सुखपरिणामितामाशुव्यवायितां चाहारस्योपजनयतीति||३२५||
 +
 +
भवति चात्र-
 +
 +
अनुपानं हितं युक्तं तर्पयत्याशु मानवम्|
 +
 +
सुखं पचति चाहारमायुषे च बलाय च||३२६||
  
 
== Metal for vessel to store specific aharadravyas ==
 
== Metal for vessel to store specific aharadravyas ==
Line 286: Line 320:
  
 
तथा स लभते शर्म युज्यते चायुषा चिरम्||२३|| Cha.Su. 16.22-23
 
तथा स लभते शर्म युज्यते चायुषा चिरम्||२३|| Cha.Su. 16.22-23
 +
 +
Can someone suffer from disease if
 +
 +
न च केवलं हिताहारोपयोगादेव सर्वव्याधिभयमतिक्रान्तं भवति, सन्ति ह्यृतेऽप्यहिताहारोपयोगादन्या रोगप्रकृतयः, तद्यथा- कालविपर्ययः, प्रज्ञापराधः, शब्दस्पर्शरूपरसगन्धाश्चासात्म्या इति|
  
 
== Specific recipes in specific diseases ==
 
== Specific recipes in specific diseases ==

Revision as of 18:07, 4 August 2021

Ahara (आहारः)

Seasonal ahara

ऋतुविशेषवशाच्चाहारविहारसेवनप्रतिपादनार्थमृतुचर्याया आरम्भ इत्याह----

अथात ऋतुचर्याध्यायं व्याख्यास्यामः|

इति ह स्माहुरात्रेयादयो महर्षयः|

(गद्यसूत्रे|२| (A.HSutra 3.2)

तदेतेषु ऋतुष्वेते रसा भूयसोपयोक्तव्याः, त्वेत एवेत्यर्थः| तथा, समधातुं प्रति समे देशे चैष नियमो वेद्यः| अन्यत्र तु जाङ्गलेऽनूपे वा देशे विषमधातोश्च धातुसाम्योत्पादनार्थं देशदेहानुगुणमन्यर्तुविहितविधानमन्यस्मिन्नप्यृतावनुष्ठेयमेव| (arundatta, A H SU 3.57)

तस्याशिताद्यादाहाराद्बलं वर्णश्च वर्धते|

यस्यर्तुसात्म्यं विदितं चेष्टाहारव्यपाश्रयम्||३|| (Cha. Su 6.3)

Role of ahara in prevention of diseases

नित्यं हिताहारविहारसेवी

समीक्ष्यकारी विषयेष्वसक्तः|

दाता समः सत्यपरः क्षमावा-

नाप्तोपसेवी च भवत्यरोगः||३६| A.H SU 4.4

काले हितमितस्निग्धमधुरप्रायमाहारं… Su.Chi 24.98

Ahara types

4- bhakshya, bhojya, lehya, peya (?ref)

तत्र [१] पाञ्चभौतिकस्य चतुर्विधस्य षड्रसस्य [२] द्विविधवीर्यस्याष्टविधवीर्यस्य वाऽनेकगुणस्योपयुक्तस्याहारस्य सम्यक्परिणतस्य यस्तेजोभूतः सारः परमसूक्ष्मः स `रसः’ इत्युच्यते, (Su.Su.14.3)

Dalhana- पाञ्चभौतिकस्येति पृथिव्यादिभूतद्रव्यभेदेन, चतुर्विधस्येति पेयलेह्यभोज्यभक्ष्यभेदेन, षड्रसस्येति मधुरादिरसभेदेन, द्विविधवीर्यस्येति शीतोष्णवीर्यभेदेन, पक्षान्तरमाह- अष्टविधवीर्यस्य वेति शीतोष्णस्निग्धरूक्षविशदपिच्छिलमृदुतीक्ष्णभेदेन, अनेकगुणस्येति शीतादिद्रवादिगुणभेदेन विंशतिगुणस्य, उपयुक्तस्येति सम्यक्परिणतस्येत्यनेनैवोपयुक्तपदार्थस्य लब्धत्वाद्यदुपयुक्तग्रहणं करोति तत् सम्यग्योगं स्वास्थ्यवृत्तीयद्वादशविधाशनप्रविचारमपेक्ष्योपयोगं प्रापयति|

Types of aharadravyas

Laghu

तत्र शालिषष्टिकमुद्गलावकपिञ्जलैणशशशरभशम्बरादीन्याहारद्रव्याणि प्रकृतिलघून्यपि मात्रापेक्षीणि भवन्ति| (Cha Su 5.5)

Guru

तथा पिष्टेक्षुक्षीरविकृतितिलमाषानूपौदकपिशितादीन्याहारद्रव्याणि प्रकृतिगुरूण्यपि मात्रामेवापेक्षन्ते||५|| (Cha.Su 5.5)

Cha.su 25.36

आहारत्वमाहारस्यैकविधमर्थाभेदात्; स पुनर्द्वियोनिः, स्थावरजङ्गमात्मकत्वात्; द्विविधप्रभावः, हिताहितोदर्कविशेषात्; चतुर्विधोपयोगः, पानाशनभक्ष्यलेह्योपयोगात्; षडास्वादः, रसभेदतः षड्विधत्वात्; विंशतिगुणः, गुरुलघुशीतोष्णस्निग्धरूक्षमन्दतीक्ष्णस्थिरसरमृदुकठिन- विशदपिच्छिलश्लक्ष्णखरसूक्ष्मस्थूलसान्द्रद्रवानुगमात्; अपरिसङ्ख्येयविकल्पः, द्रव्यसंयोगकरणबाहुल्यात्||३६||

Best quality of ahara

तृप्तिराहारगुणानां, Cha.Su 25.40

Agrya related to ahara

अन्नं वृत्तिकराणां श्रेष्ठम्,

अतिमात्राशनमामप्रदोषहेतूनां, यथाग्न्यभ्यवहारोऽग्निसन्धुक्षणानां, यथासात्म्यं चेष्टाभ्यवहारौ सेव्यानां, कालभोजनमारोग्यकराणां, तृप्तिराहारगुणानां,गुरुभोजनं दुर्विपाककराणाम्, एकाशनभोजनं सुखपरिणामकराणां,अनशनमायुषो ह्रासकराणां, प्रमिताशनं कर्शनीयानाम्, अजीर्णाध्यशनं ग्रहणीदूषणानां, विषमाशनमग्निवैषम्यकराणां, विरुद्धवीर्याशनं निन्दितव्याधिकराणां,

Ahara varga

Dravadravya- A.H.SU 5

Ahardravya- A.H.SU 6

Cha Su27.6-7

शूकधान्यशमीधान्यमांसशाकफलाश्रयान्|

वर्गान् हरितमद्याम्बुगोरसेक्षुविकारिकान्||६||

दश द्वौ चापरौ वर्गौ कृतान्नाहारयोगिनाम्|

रसवीर्यविपाकैश्च प्रभावैश्च प्रचक्ष्महे||७||

Viruddha ahara

विरुद्धमपि चाहारं विद्याद्विषगरोपमम्||२९||

A.H.SU.7.29

देहधातुप्रत्यनीकभूतानि द्रव्याणि देहधातुभिर्विरोधमापद्यन्ते; परस्परगुणविरुद्धानि कानिचित्, कानिचित् संयोगात्, संस्कारादपराणि, देशकालमात्रादिभिश्चापराणि, तथा स्वभावादपराणि||८१|| (Cha.Su. 26.81)

यत् किञ्चिद्दोषमास्राव्य [१] न निर्हरति कायतः|

आहारजातं तत् सर्वमहितायोपपद्यते||८५|| Cha.Su.26.85

Pathya- Apathya

A.H.SU.7.40-42

Cha Su 25.38

Pathya

तद्यथा- लोहितशालयः शूकधान्यानां पथ्यतमत्वे श्रेष्ठतमा भवन्ति, मुद्गाः शमीधान्यानाम्, आन्तरिक्षमुदकानां, सैन्धवं लवणानां, जीवन्तीशाकं शाकानाम्, ऐणेयं मृगमांसानां, लावः पक्षिणां, गोधा बिलेशयानां, रोहितो मत्स्यानां, गव्यं सर्पिः सर्पिषां, गोक्षीरं क्षीराणां, तिलतैलं स्थावरजातानां स्नेहानां, वराहवसा आनूपमृगवसानां, चुलुकीवसा मत्स्यवसानां, पाकहंसवसा जलचरविहङ्गवसानां, कुक्कुटवसा विष्किरशकुनिवसानां, अजमेदः शाखादमेदसां, शृङ्गवेरं कन्दानां, मृद्वीका फलानां, शर्करेक्षुविकाराणाम्, इति प्रकृत्यैव हिततमानामाहारविकाराणां प्राधान्यतो द्रव्याणि व्याख्यातानि भवन्ति||३८||

Apathya/ahita

अहिततमानप्युपदेक्ष्यामः- यवकाः शूकधान्यानामपथ्यतमत्वेन प्रकृष्टतमा [१] भवन्ति, माषाः शमीधान्यानां, वर्षानादेयमुदकानाम्, ऊषरं लवणानां, सर्षपशाकं शाकानां, गोमांसं मृगमांसानां, काणकपोतः पक्षिणां, भेको बिलेशयानां, चिलिचिमो मत्स्यानाम्, आविकं सर्पिः सर्पिषाम्, अविक्षीरं क्षीराणां, कुसुम्भस्नेहः स्थावरस्नेहानां, महिषवसा आनूपमृगवसानां, कुम्भीरवसा मत्स्यवसानां, काकमद्गुवसा जलचरविहङ्गवसानां, चटकवसा विष्किरशुकनिवसानां, हस्तिमेदः शाखादमेदसां, निकुचं फलानाम्, आलुकं कन्दानां, फाणितमिक्षुविकाराणाम्, इति प्रकृत्यैवाहिततमानामाहारविकाराणां प्रकृष्टतमानि द्रव्याणि व्याख्यातानि भवन्ति; (इति) हिताहितावयवो व्याख्यात आहारविकाराणाम्||३९||

Trayopasthambha

A.H.SU.7.52

आहारशयनाब्रह्मचर्येर्युक्त्या प्रयोजितैः|

शरीरं धार्यते नित्यमागारमिव धारणैः||५२|

Cha.Su 11.25

त्रय उपस्तम्भा इति- आहारः, स्वप्नो, ब्रह्मचर्यमिति; एभिस्त्रिभिर्युक्तियुक्तैरुपस्तब्धमुपस्तम्भैः शरीरं बलवर्णोपचयोपचितमनुवर्तते यावदायुःसंस्कारात् संस्कारमहितमनुपसेवमानस्य [१] , य इहैवोपदेक्ष्यते||३५||

Bhojana kala

भोजनस्य तु कः कालः ? इत्याह----------

प्रसृष्टे विण्मूत्रे हृदि सुविमले दोषे स्वपथगे

विशुद्धे चोद्गारे क्षुदुपगमने वातेऽनुसरति|

तथाऽग्नावुद्रिक्ते विशदकरणे देहे च सुलघौ

प्रयुञ्जीताहारं विधिनियमितं, कालः स हि मतः||५५|| (A.H.SU.8.55)

Panchakarmas after ahara

Dhumapana- A.H.S.21.6- Madhyaam dhooma

Intrauterine growth of fetus dependent on mothers ahara

तदेवं गर्भस्य सम्पत्तिमभिधाय यथा तस्य कुक्षौ वृद्धिः स्यात्तथा वक्ति----बीजात्मकैर्महाभूतैः सूक्ष्मैः सत्वानुगैश्च सः|

मातुश्चाहाररसजैः क्रमात्कुक्षौ विवर्द्धते||२|| A.H.Sha.1.2

Role of ahara in causing diseases and imbalance in dosh-dhatu

आहारश्च विहारश्च यः स्याद्दोषगुणैः समः|

धातुभिर्विगुणो यश्च स्रोतसां स प्रदूषकः||४४|| A.H.Sha3.44

PAnchaaharaguna

A.H.SHA.3.59

भौमाप्याग्नेयवायव्याः पञ्चोष्माणः सनाभसाः|

पञ्चाहारगुणान्स्वान् स्वान् पार्थिवादीन् पचन्त्यनु||५९||

पञ्चभूतात्मके देहे ह्याहारः पाञ्चभौतिकः |

विपक्वः पञ्चधा सम्यग्गुणान् स्वानभिवर्धयेत् ||५२६|| (Su.Su.46.526)

Effect or function of ahara in management of diseases

अनया चोक्त्या आहारः शरीरगतानां भावानां समानगुणानां गुणद्वारेण वर्द्धनहेतुः,विपरीत गुणानां च क्षयहेतुः इति प्रतिपादयति ----

यथास्वं ते च पुष्णन्ति पक्वा भूतगुणान् पृथक्|

पार्थिवाः पार्थिवानेव शेषाः शेषांश्च देहगान्||६०|| A.H.SHA.3.60

Ahara parinaman kala

A.H.SHA. 3.65-66

इदानीं परिणतिकालमाहारस्य निरुपयन्नाह

केचिदाहुरहोरात्रात्षाडहादपरे, परे||६५||

मासेन याति शुक्रत्वमन्नं पाकक्रमादिभिः|६६|

Role of Ahara in balam

Yuktikrut bala by ahara- A.H.SHA.3.78

युक्तिजं पुनः|

विहाराहारजनितं तथोर्जस्करयोगजम्||७८||

Cha.Su 11.36

त्रिविधं बलमिति- सहजं, कालजं, युक्तिकृतं च|

सहजं यच्छरीरसत्त्वयोः प्राकृतं, कालकृतमृतुविभागजं वयःकृतं च, युक्तिकृतं पुनस्तद्यदाहारचेष्टायोगजम्||३६||

आहारस्य मांससर्पिरादेः,

Function or role of ahara in sharira vruddhi

कृत्स्नं शरीरमहरहस्तर्पयति वर्धयति धारयति [३] यापयति (Su.Su.14.3)

प्राणिनां पुनर्मूलमाहारो बलवर्णौजसां च, स षट्सु रसेष्वायत्तः, रसाः पुनर्द्रव्याश्रयिणः,’ द्रव्यरसगुणवीर्यविपाकनिमित्ते च क्षयवृद्धी दोषाणां साम्यं च, ब्रह्मादेरपि च लोकस्याहारः स्थित्युत्पत्तिविनाशहेतुः, आहारादेवाभिवृद्धिर्बलमारोग्यं वर्णेन्द्रियप्रसादश्च, तथा ह्याहारवैषम्यादस्वास्थ्यं…. Su.Su. 46.3

आहारः प्रीणनः सद्यो बलकृद्देहधारकः ||६८||

आयुस्तेजःसमुत्साहस्मृत्योजोग्निविवर्धनः |६९| Su.Chi.24.68-69

In sthoulya-karshya

देहवृत्तौ यथाऽऽहारस्तथा स्वप्नः सुखो मतः|

स्वप्नाहारसमुत्थे च स्थौल्यकार्श्ये विशेषतः||५१|| Cha.Su 21.51

Cha.Su.25.31

हिताहारोपयोग एक एव पुरुषवृद्धिकरो भवति, अहिताहारोपयोगः पुनर्व्याधिनिमित्तमिति [१] ||३१||

यदाहारजातमग्निवेश! समांश्चैव शरीरधातून् प्रकृतौ स्थापयति विषमांश्च समीकरोतीत्येतद्धितं विद्धि, विपरीतं त्वहितमिति; इत्येतद्धिताहितलक्षणमनपवादं भवति||३३|| 25.34

Factors affecting effect of Ahara on body

हिताहितानामाहारजातानां लक्षणमनपवादमभिजानीमहे; हितसमाख्यातानामाहारजातानामहितसमाख्यातानां च मात्राकालक्रियाभूमिदेहदोषपुरुषावस्थान्तरेषु विपरीतकारित्वमुपलभामह इति||३२||

हिताहारोपयोग एक एवेत्यवधारणेनास्य [२] प्राधान्यं दर्शयति नान्यप्रतिषेधम्, आचारस्य स्वप्नादेस्तथा शब्दादीनामपि कारणत्वेनोक्तत्वात्| व्याधिनिमित्तमिति व्याध्यभिवृद्धिनिमित्तं मध्यपदलोपाज्ज्ञेयम्, अभिवृद्धिकारणस्यैव पृष्टत्वात्; तथाऽहिताहारस्य यद्व्याधिनिमित्तत्वं, तस्य ‘तेषामेव विपद्व्याधीन् विविधान् समुदीरयेत्’ इत्यनेनैवोक्तत्वात्| किंवा व्याधिनिमित्तशब्देन सामान्येन जनको वर्धकश्च हेतुरुच्यते| अनपवादमिति अव्यभिचारि| हिताहिताहारदुर्ज्ञानताहेतुमाह- हितसमाख्यातानामित्यादि| विपरीतकारित्वमिति पथ्यस्यापथ्यत्वं तथा अपथ्यस्य पथ्यत्वं मात्रादिवशाद्भवति| तत्र पथ्या रक्तशाल्यादयोऽतिमात्रा हीनमात्रा वा मात्रादोषादपथ्या भवन्ति| तथा कालवशात्त एव रक्तशाल्यादयो लघुत्वाद्बलवदग्नीनां हेमन्ते न हिताः; कालशब्देन चेह नित्यग एव कालो गृह्यते, आवस्थिकस्य पुरषावस्थाशब्देन गृहीतत्वात्| क्रिया तु संस्करणं, तेन च रक्तशालिरसम्यक्स्विन्नाप्रस्रुतत्वादिना ओदनदोषेणाहितो भवति, तथा स एव भूमिसम्बन्धादानूपदेशजः सन्नपथ्यो भवति| तथा देहापेक्षया मेदस्विनो रक्तशालिर्लघुतया न हितो भवति, तदुक्तं- “गुरु चातर्पणं चेष्टं स्थूलानां कर्शनं प्रति” (सू. २१) इति| तथा स एव दोषे वायावहितः, दोषशब्देन व्याधिरपि ग्रहीतव्यः| तथा- पुरुषस्य बाल्यावस्थायां श्लेष्मप्रधानायां तिक्तादि पथ्यं, तत्तु वार्धक्ये वृद्धवाते न पथ्यम्| अवस्थान्तरशब्दश्च मात्रादिभिः प्रत्येकं सम्बध्यते| एवमहितस्यापि मात्रादिपरिग्रहेण हितत्वमुन्नेतव्यम्||३०-३२||

Prakruti and ahara matra

Kapha- alpa- A.H.SHA.3.101

Annamaya deha

A.H.Sha. 5.48

एवं च कृत्वाऽन्नमया एव देहे सर्वे भावाः|

न रागान्नाप्यविज्ञानादाहारानुपयोजयेत्|

परीक्ष्य हितमश्नीयाद्देहो ह्याहारसम्भवः||४१|| Cha.Su. 28.41

Role of ahara in agni strength

दीप्तो यथैव स्थाणुश्च बाह्योऽग्निः सारदारुभिः|

सस्नेहैर्जायते तद्वदाहारैः कोष्ठगोऽनलः||७९|| A.H.Chi.10.79

Aharavidhi vishesha ayatana

आहारस्य विधावष्टौ विशेषा हेतुसञ्ज्ञकाः|

शुभाशुभसमुत्पत्तौ तान् परीक्ष्य प्रयोजयेत्||४२|| cha.su 28.42

Anapanavidhi

SuSu.46.446-449

Ahara anupana

यदाहारगुणैः [१] पानं विपरीतं तदिष्यते|

अन्नानुपानं धातूनां दृष्टं यन्न विरोधि च||३१९|| Cha.Su.27.319

अनुपानं तर्पयति, प्रीणयति, ऊर्जयति, बृंहयति, पर्याप्तिमभिनिर्वर्तयति, भुक्तमवसादयति, अन्नसङ्घातं भिनत्ति, मार्दवमापादयति, क्लेदयति, जरयति, सुखपरिणामितामाशुव्यवायितां चाहारस्योपजनयतीति||३२५||

भवति चात्र-

अनुपानं हितं युक्तं तर्पयत्याशु मानवम्|

सुखं पचति चाहारमायुषे च बलाय च||३२६||

Metal for vessel to store specific aharadravyas

Su.su 46.449-457

वक्ष्याम्यतः परं कृत्स्नामाहारस्योपकल्पनाम् |

घृतं कार्ष्णायसे देयं, पेया देया तु राजते ||४४९||

फलानि सर्वभक्ष्यांश्च प्रदद्याद्वै दलेषु तु |

परिशुष्कप्रदिग्धानि सौवर्णेषु प्रकल्पयेत् ||४५०||

प्रद्रवाणि रसांश्चैवं राजतेषूपहारयेत् |

कट्वराणि खडांश्चैव सर्वाञ्छैलेषु दापयेत् ||४५१||

दद्यात्ताम्रमये पात्रे सुशीतं सुशृतं पयः |

पानीयं, पानकं मद्यं मृन्मयेषु प्रदापयेत् ||४५२||

काचस्फटिकपात्रेषु शीतलेषु शुभेषु च |

दद्याद्वैदूर्यचित्रेषु रागषाडवसट्टकान् ||४५३||

एष्वाधारेषु दीयमानानामेषां हितकारित्वम्|

Arrangement of food stuffs in a plate

आधारविशेषमभिधाय देशविशेषेणाहारविशेषं दर्शयन्नाह- पुरस्तादित्यादि|

पुरस्ताद्विमले पात्रे सुविस्तीर्णे मनोरमे |

सूदः सूपौदनं दद्यात् प्रदेहांश्च सुसंस्कृतान् ||४५४||

फलानि सर्वभक्ष्यांश्च परिशुष्काणि यानि च |

तानि दक्षिणपार्श्वे तु भुञ्जानस्योपकल्पयेत् ||४५५||

प्रद्रवाणि रसांश्चैव पानीयं पानकं पयः |

खडान् यूषांश्च पेयांश्च सव्ये पार्श्वे प्रदापयेत् ||४५६||

सर्वान् गुडविकारांश्च रागषाडवसट्टकान् |

पुरस्तात् स्थापयेत् प्राज्ञो द्वयोरपि च मध्यतः ||४५७||

Ahara matra

गुरूणामर्धसौहित्यं लघूनां तृप्तिरिष्यते |

द्रवोत्तरो द्रवश्चापि न मात्रागुरुरिष्यते ||४९५|| Su.Su.46/495

मात्राशी स्यात्|

आहारमात्रा पुनरग्निबलापेक्षिणी||३|| (Cha.Su. 5.3)

Factors that affect proper digestion of food

SuSu.46

अत्यम्बुपानाद्विषमाशनाद्वा सन्धारणात् स्वप्नविपर्ययाच्च |

कालेऽपि सात्म्यं लघु चापि भुक्तमन्नं न पाकं भजते नरस्य ||५००||

ईर्ष्याभयक्रोधपरिक्षतेन लुब्धेन शुग्दैन्यनिपीडितेन |

प्रद्वेषयुक्तेन च सेव्यमानमन्नं न सम्यक् परिणाममेति ||५०१||

Ahara sara and mala

विण्मूत्रमाहारमलः सारः प्रागीरितो रसः |५२८| S.u.su. 46.528

Ahara as medicine

Cha. Su. 11.54

युक्तिव्यपाश्रयं- पुनराहारौषधद्रव्याणां योजना,

Ahara as the only only medicine to regain strength after recovery from diseases

भेषजक्षपिते पथ्यमाहारैरेव बृंहणम्|

घृतमांसरसक्षीरहृद्ययूषोपसंहितैः||२२||

अभ्यङ्गोत्सादनैः स्नानैर्निरूहैः सानुवासनैः|

तथा स लभते शर्म युज्यते चायुषा चिरम्||२३|| Cha.Su. 16.22-23

Can someone suffer from disease if

न च केवलं हिताहारोपयोगादेव सर्वव्याधिभयमतिक्रान्तं भवति, सन्ति ह्यृतेऽप्यहिताहारोपयोगादन्या रोगप्रकृतयः, तद्यथा- कालविपर्ययः, प्रज्ञापराधः, शब्दस्पर्शरूपरसगन्धाश्चासात्म्या इति|

Specific recipes in specific diseases

Shirororogas- Ghrutapura, sanyawa S.u.Ut.26

आहारश्च विधातव्यो वातपित्तविनाशनः ||३७||

मधुमस्तकसंयावघृतपूरैश्च भोजनम् |३८|

मधुमस्तकाः रवजुकाः, संयावः कण्डकघृतैश्चातुर्जातककर्पूरसुगन्धः लप्सिकेति लोके, घृतपूरः ‘घेवर’ इति प्रसिद्धः||३६-३७||

Jwara- Soups-

मुद्गान्मसुरांश्चणकान् कुलत्थान् समकुष्ठकान् ||१५०||

आहारकाले यूषार्थं ज्वरिताय प्रदापयेत् |१५१| Su.Ut.39