Ahara (आहारः)

From Dharmawiki
Revision as of 19:15, 2 August 2021 by DrDevashree (talk | contribs) (Created new page, compiled references, added content)
(diff) ← Older revision | Latest revision (diff) | Newer revision → (diff)
Jump to navigation Jump to search

Ahara (आहारः)

Seasonal ahara

ऋतुविशेषवशाच्चाहारविहारसेवनप्रतिपादनार्थमृतुचर्याया आरम्भ इत्याह----

अथात ऋतुचर्याध्यायं व्याख्यास्यामः|

इति ह स्माहुरात्रेयादयो महर्षयः|

(गद्यसूत्रे|२| (A.HSutra 3.2)

तदेतेषु ऋतुष्वेते रसा भूयसोपयोक्तव्याः, त्वेत एवेत्यर्थः| तथा, समधातुं प्रति समे देशे चैष नियमो वेद्यः| अन्यत्र तु जाङ्गलेऽनूपे वा देशे विषमधातोश्च धातुसाम्योत्पादनार्थं देशदेहानुगुणमन्यर्तुविहितविधानमन्यस्मिन्नप्यृतावनुष्ठेयमेव| (arundatta, A H SU 3.57)

Role of ahara in prevention of diseases

नित्यं हिताहारविहारसेवी

समीक्ष्यकारी विषयेष्वसक्तः|

दाता समः सत्यपरः क्षमावा-

नाप्तोपसेवी च भवत्यरोगः||३६| A.H SU 4.4

काले हितमितस्निग्धमधुरप्रायमाहारं… Su.Chi 24.98

Ahara types

4- bhakshya, bhojya, lehya, peya (?ref)

तत्र [१] पाञ्चभौतिकस्य चतुर्विधस्य षड्रसस्य [२] द्विविधवीर्यस्याष्टविधवीर्यस्य वाऽनेकगुणस्योपयुक्तस्याहारस्य सम्यक्परिणतस्य यस्तेजोभूतः सारः परमसूक्ष्मः स `रसः’ इत्युच्यते, (Su.Su.14.3)

Dalhana- पाञ्चभौतिकस्येति पृथिव्यादिभूतद्रव्यभेदेन, चतुर्विधस्येति पेयलेह्यभोज्यभक्ष्यभेदेन, षड्रसस्येति मधुरादिरसभेदेन, द्विविधवीर्यस्येति शीतोष्णवीर्यभेदेन, पक्षान्तरमाह- अष्टविधवीर्यस्य वेति शीतोष्णस्निग्धरूक्षविशदपिच्छिलमृदुतीक्ष्णभेदेन, अनेकगुणस्येति शीतादिद्रवादिगुणभेदेन विंशतिगुणस्य, उपयुक्तस्येति सम्यक्परिणतस्येत्यनेनैवोपयुक्तपदार्थस्य लब्धत्वाद्यदुपयुक्तग्रहणं करोति तत् सम्यग्योगं स्वास्थ्यवृत्तीयद्वादशविधाशनप्रविचारमपेक्ष्योपयोगं प्रापयति|

Ahara varga

Dravadravya- A.H.SU 5

Ahardravya- A.H.SU 6

Viruddha ahara

--------------------------------------------|

विरुद्धमपि चाहारं विद्याद्विषगरोपमम्||२९||

A.H.SU.7.29

Pathya- Apathya

A.H.SU.7.40-42

Trayopasthambha

A.H.SU.7.52

आहारशयनाब्रह्मचर्येर्युक्त्या प्रयोजितैः|

शरीरं धार्यते नित्यमागारमिव धारणैः||५२|

Bhojana kala

भोजनस्य तु कः कालः ? इत्याह----------

प्रसृष्टे विण्मूत्रे हृदि सुविमले दोषे स्वपथगे

विशुद्धे चोद्गारे क्षुदुपगमने वातेऽनुसरति|

तथाऽग्नावुद्रिक्ते विशदकरणे देहे च सुलघौ

प्रयुञ्जीताहारं विधिनियमितं, कालः स हि मतः||५५|| (A.H.SU.8.55)

Panchakarmas after ahara

Dhumapana- A.H.S.21.6- Madhyaam dhooma

Intrauterine growth of fetus dependent on mothers ahara

तदेवं गर्भस्य सम्पत्तिमभिधाय यथा तस्य कुक्षौ वृद्धिः स्यात्तथा वक्ति----बीजात्मकैर्महाभूतैः सूक्ष्मैः सत्वानुगैश्च सः|

मातुश्चाहाररसजैः क्रमात्कुक्षौ विवर्द्धते||२|| A.H.Sha.1.2

Role of ahara in causing diseases and imbalance in dosh-dhatu

आहारश्च विहारश्च यः स्याद्दोषगुणैः समः|

धातुभिर्विगुणो यश्च स्रोतसां स प्रदूषकः||४४|| A.H.Sha3.44

PAnchaaharaguna

A.H.SHA.3.59

भौमाप्याग्नेयवायव्याः पञ्चोष्माणः सनाभसाः|

पञ्चाहारगुणान्स्वान् स्वान् पार्थिवादीन् पचन्त्यनु||५९||

पञ्चभूतात्मके देहे ह्याहारः पाञ्चभौतिकः |

विपक्वः पञ्चधा सम्यग्गुणान् स्वानभिवर्धयेत् ||५२६|| (Su.Su.46.526)

Effect or function of ahara in management of diseases

अनया चोक्त्या आहारः शरीरगतानां भावानां समानगुणानां गुणद्वारेण वर्द्धनहेतुः,विपरीत गुणानां च क्षयहेतुः इति प्रतिपादयति ----

यथास्वं ते च पुष्णन्ति पक्वा भूतगुणान् पृथक्|

पार्थिवाः पार्थिवानेव शेषाः शेषांश्च देहगान्||६०|| A.H.SHA.3.60

Ahara parinaman kala

A.H.SHA. 3.65-66

इदानीं परिणतिकालमाहारस्य निरुपयन्नाह ----

---------------------------------------|

केचिदाहुरहोरात्रात्षाडहादपरे, परे||६५||

मासेन याति शुक्रत्वमन्नं पाकक्रमादिभिः|

------------------------------------------|६६|

Role of Ahara in balam

Yuktikrut bala by ahara- A.H.SHA.3.78

युक्तिजं पुनः|

विहाराहारजनितं तथोर्जस्करयोगजम्||७८||

Function or role of ahara in sharira vruddhi

कृत्स्नं शरीरमहरहस्तर्पयति वर्धयति धारयति [३] यापयति (Su.Su.14.3)

प्राणिनां पुनर्मूलमाहारो बलवर्णौजसां च, स षट्सु रसेष्वायत्तः, रसाः पुनर्द्रव्याश्रयिणः,’ द्रव्यरसगुणवीर्यविपाकनिमित्ते च क्षयवृद्धी दोषाणां साम्यं च, ब्रह्मादेरपि च लोकस्याहारः स्थित्युत्पत्तिविनाशहेतुः, आहारादेवाभिवृद्धिर्बलमारोग्यं वर्णेन्द्रियप्रसादश्च, तथा ह्याहारवैषम्यादस्वास्थ्यं…. Su.Su. 46.3

आहारः प्रीणनः सद्यो बलकृद्देहधारकः ||६८||

आयुस्तेजःसमुत्साहस्मृत्योजोग्निविवर्धनः |६९| Su.Chi.24.68-69

Prakruti and ahara matra

Kapha- alpa- A.H.SHA.3.101

Annamaya deha

A.H.Sha. 5.48

एवं च कृत्वाऽन्नमया एव देहे सर्वे भावाः|

Role of ahara in agni strength

दीप्तो यथैव स्थाणुश्च बाह्योऽग्निः सारदारुभिः|

सस्नेहैर्जायते तद्वदाहारैः कोष्ठगोऽनलः||७९|| A.H.Chi.10.79

Anapanavidhi

SuSu.46.446-449

Metal for vessel to store specific aharadravyas

Su.su 46.449-457

वक्ष्याम्यतः परं कृत्स्नामाहारस्योपकल्पनाम् |

घृतं कार्ष्णायसे देयं, पेया देया तु राजते ||४४९||

फलानि सर्वभक्ष्यांश्च प्रदद्याद्वै दलेषु तु |

परिशुष्कप्रदिग्धानि सौवर्णेषु प्रकल्पयेत् ||४५०||

प्रद्रवाणि रसांश्चैवं राजतेषूपहारयेत् |

कट्वराणि खडांश्चैव सर्वाञ्छैलेषु दापयेत् ||४५१||

दद्यात्ताम्रमये पात्रे सुशीतं सुशृतं पयः |

पानीयं, पानकं मद्यं मृन्मयेषु प्रदापयेत् ||४५२||

काचस्फटिकपात्रेषु शीतलेषु शुभेषु च |

दद्याद्वैदूर्यचित्रेषु रागषाडवसट्टकान् ||४५३||

एष्वाधारेषु दीयमानानामेषां हितकारित्वम्|

Arrangement of food stuffs in a plate

आधारविशेषमभिधाय देशविशेषेणाहारविशेषं दर्शयन्नाह- पुरस्तादित्यादि|

पुरस्ताद्विमले पात्रे सुविस्तीर्णे मनोरमे |

सूदः सूपौदनं दद्यात् प्रदेहांश्च सुसंस्कृतान् ||४५४||

फलानि सर्वभक्ष्यांश्च परिशुष्काणि यानि च |

तानि दक्षिणपार्श्वे तु भुञ्जानस्योपकल्पयेत् ||४५५||

प्रद्रवाणि रसांश्चैव पानीयं पानकं पयः |

खडान् यूषांश्च पेयांश्च सव्ये पार्श्वे प्रदापयेत् ||४५६||

सर्वान् गुडविकारांश्च रागषाडवसट्टकान् |

पुरस्तात् स्थापयेत् प्राज्ञो द्वयोरपि च मध्यतः ||४५७||

Ahara matra

गुरूणामर्धसौहित्यं लघूनां तृप्तिरिष्यते |

द्रवोत्तरो द्रवश्चापि न मात्रागुरुरिष्यते ||४९५|| Su.Su.46/495

Factors that affect proper digestion of food

SuSu.46

अत्यम्बुपानाद्विषमाशनाद्वा सन्धारणात् स्वप्नविपर्ययाच्च |

कालेऽपि सात्म्यं लघु चापि भुक्तमन्नं न पाकं भजते नरस्य ||५००||

ईर्ष्याभयक्रोधपरिक्षतेन लुब्धेन शुग्दैन्यनिपीडितेन |

प्रद्वेषयुक्तेन च सेव्यमानमन्नं न सम्यक् परिणाममेति ||५०१||

Ahara sara and mala

विण्मूत्रमाहारमलः सारः प्रागीरितो रसः |५२८| S.u.su. 46.528

Specific recipes in specific diseases

Shirororogas- Ghrutapura, sanyawa S.u.Ut.26

आहारश्च विधातव्यो वातपित्तविनाशनः ||३७||

मधुमस्तकसंयावघृतपूरैश्च भोजनम् |३८|

मधुमस्तकाः रवजुकाः, संयावः कण्डकघृतैश्चातुर्जातककर्पूरसुगन्धः लप्सिकेति लोके, घृतपूरः ‘घेवर’ इति प्रसिद्धः||३६-३७||

Jwara- Soups-

मुद्गान्मसुरांश्चणकान् कुलत्थान् समकुष्ठकान् ||१५०||

आहारकाले यूषार्थं ज्वरिताय प्रदापयेत् |१५१| Su.Ut.39