Adiparva Adhyaya 8 (आदिपर्वणि अध्यायः ८)

From Dharmawiki
Revision as of 19:58, 11 August 2019 by Pṛthvī (talk | contribs) (Created page with "सौतिरुवाच स चापि च्यवनो ब्रह्मन्भार्गवोऽजनयत्सुतम्। सुकन्याया...")
(diff) ← Older revision | Latest revision (diff) | Newer revision → (diff)
Jump to navigation Jump to search

सौतिरुवाच

स चापि च्यवनो ब्रह्मन्भार्गवोऽजनयत्सुतम्।

सुकन्यायां महात्मानं प्रमतिं दीप्ततेजसम्॥ 1-8-1

प्रमतिः तु रुरुं नाम घृताच्यां समजीजनत्।

रुरुः प्रमद्वरायां तु शुनकं समजीजनत्॥ 1-8-2

(शौनकस्तु महाभाग शुनकस्य सुतो भवान्।

शुनकस्तु महासत्त्वः सर्वभार्गवनन्दनः।

जातस्तपसि तीव्रे च स्थितः स्थिरयशास्ततः॥)

तस्य ब्रह्मन्रुरोः सर्वं चरितं भूरितेजसः।

विस्तरेण प्रवक्ष्यामि तच्छृणु त्वमशेषतः॥ 1-8-3

ऋषिरासीन्महान्पूर्वं तपोविद्यासमन्वितः।

स्थूलकेश इति ख्यातः सर्वभूतहिते रतः॥ 1-8-4

एतस्मिन्नेव काले तु मेनकायां प्रजज्ञिवान्।

गन्धर्वराजो विप्रर्षे विश्वावसुः इति स्मृतः॥ 1-8-5

अप्सरा मेनका तस्य तं गर्भं भृगुनन्दन।

उत्ससर्ज यथाकालं स्थूलकेशाश्रमं प्रति॥ 1-8-6

उत्सृज्य चैव तं गर्भं नद्यास्तीरे जगाम सा।

अप्सरा मेनका ब्रह्मन्निर्दया निरपत्रपा॥ 1-8-7

कन्याममरगर्भाभां ज्वलन्तीमिव च श्रिया।

तां ददर्श समुत्सृष्टां नदीतीरे महानृषिः॥ 1-8-8

स्थूलकेशः स तेजस्वी विजने बन्धुवर्जिताम्।

स तां दृष्ट्वा तदा कन्यां स्थूलकेशो महाद्विजः॥ 1-8-9

जग्राह च मुनिश्रेष्ठः कृपाविष्टः पुपोष च।

ववृधे सा वरारोहा तस्याश्रमपदे शुभे॥ 1-8-10

जातकाद्याः क्रियाश्चास्या विधिपूर्वं यथाक्रमम्।

स्थूलकेशो महाभागश्चकार सुमहानृषिः॥ 1-8-11

प्रमदाभ्यो वरा सा तु सत्त्वरूपगुणान्विता।

ततः प्रमद्वरा इत्यस्या नाम चक्रे महानृषिः॥ 1-8-12

तामाश्रमपदे तस्य रुरुर्दृष्ट्वा प्रमद्वराम्।

बभूव किल धर्मात्मा मदनोपहतस्तदा॥ 1-8-13

पितरं सखिभिः सोऽथ श्रावयामास भार्गवम्।

प्रमतिश्चाभ्ययाचत्तां स्थूलकेशं यशस्विनम्॥ 1-8-14

ततः प्रादात्पिता कन्यां रुरवे तां प्रमद्वराम्।

विवाहं स्थापयित्वाग्रे नक्षत्रे भगदैवते॥ 1-8-15

ततः कतिपयाहस्य विवाहे समुपस्थिते।

सखीभिः क्रीडती सार्धं सा कन्या वरवर्णिनी॥ 1-8-16

नापश्यत्सम्प्रसुप्तं वै भुजङ्गं तिर्यगायतम्।

पदा चैनं समाक्रामन्मुमूर्षुः कालचोदिता॥ 1-8-17

स तस्याः सम्प्रमत्तायाश्चोदितः कालधर्मणा।

विषोपलिप्तान्दशनान्भृशमङ्गे न्यपातयत्॥ 1-8-18

सा दष्टा तेन सर्पेण पपात सहसा भुवि।

विवर्णा विगतश्रीका भ्रष्टाभरणचेतना॥ 1-8-19

निरानन्दकरी तेषां बन्धूनां मुक्तमूर्धजा।

व्यसुरप्रेक्षणीया सा प्रेक्षणीयतमाभवत्॥ 1-8-20

प्रसुप्ते वाभवच्चापि भुवि सर्वविषार्दिता।

भूयो मनोहरतरा बभूव तनुमध्यमा॥ 1-8-21

ददर्श तां पिता चैव ये चैवान्ये तपस्विनः।

विचेष्टमानां पतितां भूतले पद्मवर्चसम्॥ 1-8-22

ततः सर्वे द्विजवराः समाजग्मुः कृपान्विताः।

स्वस्त्यात्रेयो महाजानुः कुशिकः शङ्खमेखलः॥ 1-8-23

उद्दालकः कठश्चैव श्वेतश्चैव महायशाः।

भरद्वाजः कौणकुत्स्य आर्ष्टिषेणोऽथ गौतमः॥ 1-8-24

प्रमतिः सह पुत्रेण तथान्ये वनवासिनः।

तां ते कन्यां व्यसुं दृष्ट्वा भुजङ्गस्य विषार्दिताम्।

रुरुदुः कृपयाविष्टा रुरुस्त्वार्तो बहिर्ययौ॥ 1-8-25

(ते च सर्वे द्विजश्रेष्ठास्तत्रैवोपाविशंस्तदा।)

इति श्रीमहाभारते आदिपर्वणि पौलोमपर्वणि प्रमद्वरासर्पदंशेऽष्टमोऽध्यायः॥ 8 ॥