Adiparva Adhyaya 43 (आदिपर्वणि अध्यायः ४३)

From Dharmawiki
Revision as of 17:13, 16 October 2019 by P16459 (talk | contribs) (NEW PG)
(diff) ← Older revision | Latest revision (diff) | Newer revision → (diff)
Jump to navigation Jump to search

तक्षक उवाच

यदि दष्टो मयेह त्वं शक्तः किंचिच्चिकित्सितुम्।

ततो वृक्षं मया दष्टमिमं जीवय काश्यप॥ 1-43-1

परं मन्त्रबलं यत्ते तद्दर्शय यतस्व च।

न्यग्रोधमेनं धक्ष्यामि पश्यतस्ते द्विजोत्तम॥ 1-43-2

काश्यप उवाच

दश नागेन्द्र वृक्षं त्वं यद्येतदभिमन्यसे।

अहमेनं त्वया दष्टं जीवयिष्ये भुजङ्गम॥ 1-43-3

सौतिरुवाच

एवमुक्तः स नागेन्द्रः काश्यपेन महात्मना।

अदशद्वृक्षमभ्येत्य न्यग्रोधं पन्नगोत्तमः॥ 1-43-4

स वृक्षस्तेन दष्टस्तु पन्नगेन महात्मना।

आशीविषविषोपेतः प्रजज्वाल समन्ततः॥ 1-43-5

तं दग्ध्वा स नगं नागः काश्यपं पुनरब्रवीत्।

कुरु यत्नं द्विजश्रेष्ठ जीवयैनं वनस्पतिम्॥ 1-43-6

सौतिरुवाच

भस्मीभूतं ततो वृक्षं पन्नगेन्द्रस्य तेजसा।

भस्म सर्वं समाहृत्य काश्यपो वाक्यमब्रवीत्॥ 1-43-7

विद्याबलं पन्नगेन्द्र पश्य मेऽद्य वनस्पतौ।

अहं संजीवयाम्येनं पश्यतस्ते भुजङ्गम॥ 1-43-8

ततः स भगवान्विद्वान्काश्यपो द्विजसत्तमः।

भस्मराशीकृतं वृक्षं विद्यया समजीवयत्॥ 1-43-9

अङ्कुरं कृतवांस्तत्र ततः पर्णद्वयान्वितम्।

पलाशिनं शाखिनं च तथा विटपिनं पुनः॥ 1-43-10

तं दृष्ट्वा जीवितं वृक्षं काश्यपेन महात्मना।

उवाच तक्षको ब्रह्मन्नैतदत्यद्भुतं त्वयि॥ 1-43-11

द्विजेन्द्र यद्विषं हन्या मम वा मद्विधस्य वा।

कं त्वमर्थमभिप्रेप्सुर्यासि तत्र तपोधन॥ 1-43-12

यत्तेऽभिलषितं प्राप्तुं फलं तस्मान्नृपोत्तमात्।

अहमेव प्रदास्यामि तत्ते यद्यपि दुर्लभम्॥ 1-43-13

विप्रशापाभिभूते च क्षीणायुषि नराधिपे।

घटमानस्य ते विप्र सिद्धिः संशयिता भवेत्॥ 1-43-14

ततो यशः प्रदीप्तं ते त्रिषु लोकेषु विश्रुतम्।

निरंशुरिव घर्मांशुरन्तर्धानमितो [व्रजेत्]ऽब्रवीच्॥ 1-43-15

काश्यप उवाच

धनार्थी याम्यहं तत्र तन्मे देहि भुजङ्गम।

ततोऽहं विनिवर्तिष्ये स्वापतेयं प्रगृह्य वै॥ 1-43-16

तक्षक उवाच

यावद्धनं प्रार्थयसे तस्माद्राज्ञस्ततोऽधिकम्।

अहमेव प्रदास्यामि निवर्तस्व द्विजोत्तम॥ 1-43-17

सौतिरुवाच

तक्षकस्य वचः श्रुत्वा काश्यपो द्विजसत्तमः।

प्रदध्यौ सुमहातेजा राजानं प्रति बुद्धिमान्॥ 1-43-18

दिव्यज्ञानः स तेजस्वी ज्ञात्वा तं नृपतिं तदा।

क्षीणायुषं पाण्डवेयमपावर्तत काश्यपः॥ 1-43-19

लब्ध्वा वित्तं मुनिवरस्तक्षकाद्यावदीप्सितम्।

निवृत्ते काश्यपे तस्मिन्समयेन महात्मनि॥ 1-43-20

जगाम तक्षकस्तूर्णं नगरं नागसाह्वयम्।

अथ शुश्राव गच्छन्स तक्षको जगतीपतिम्।

मन्त्रैर्गदैर्विषहरै रक्ष्यमाणं प्रयत्नतः॥ 1-43-21

सूत उवाच [सौतिरुवाच]

स चिन्तयामास तदा मायायोगेन पार्थिवः।

मया वञ्चयितव्योऽसौ क उपायो भवेदिति॥ 1-43-22

ततस्तापसरूपेण प्राहिणोत्स भुजङ्गमान्।

फलदर्भोदकं गृह्य राज्ञे नागोऽथ तक्षकः॥ 1-43-23

तक्षक उवाच

गच्छध्वं यूयमव्यग्रा राजानं कार्यवत्तया।

फलपुष्पोदकं नाम प्रतिग्राहयितुं नृपम्॥ 1-43-24

सौतिरुवाच

ते तक्षकसमादिष्टास्तथा चक्रुर्भुजङ्गमाः।

उपनिन्युस्तथा राज्ञे दर्भानापः फलानि च।

तच्च सर्वं स राजेन्द्रः प्रतिजग्राह वीर्यवान्॥ 1-43-25

कृत्वा तेषां च कार्याणि गम्यतामित्युवाच तान्।

गतेषु तेषु नागेषु तापसच्छद्मरूपिषु॥ 1-43-26

अमात्यान्सुहृदश्चैव प्रोवाच स नराधिपः।

भक्षयन्तु भवन्तो वै स्वादूनीमानि सर्वशः॥ 1-43-27

तापसैरुपनीतानि फलानि सहिता मया।

ततो राजा ससचिवः फलान्यादातुमैच्छत॥ 1-43-28

विधिना सम्प्रयुक्तो वै ऋषिवाक्येन तेन तु।

यस्मिन्नेव पले नागस्तमेवाभक्षयत्स्वयम्॥ 1-43-29

ततो भक्षयतस्तस्य फलात्कृमिरभूदणुः।

ह्रस्वकः कृष्णनयनस्ताम्रवर्णोऽथ शौनक॥ 1-43-30

स तं गृह्य्नृपश्रेष्ठः सचिवानिदमब्रवीत्।

अस्तमभ्येति सविता विषादद्य न मे भयम्॥ 1-43-31

सत्यवागस्तु स मुनिः कृमिर्मां दशतामयम्।

तक्षको नाम भूत्वा वै तथा परिहृतं भवेत्॥ 1-43-32

ते चैनमन्ववर्तन्त मन्त्रिणः कालचोदिताः।

एवमुक्त्वा स राजेन्द्रो ग्रीवायां संनिवेश्य ह॥ 1-43-33

कृमिकं प्राहसत्तूर्णं मुमूर्षुर्नष्टचेतनः।

प्रहसन्नेव भोगेन तक्षकेण त्ववेष्ट्यत॥ 1-43-34

तस्मात्फलाद्विनिष्क्रम्य [यत्तद्] तदा राज्ञे निवेदितम्।

वेष्टयित्वा च वेगेन विनद्य च महास्वनम्।

अदशत्पृथिवीपालं तक्षकः पन्नगेश्वरः॥ 1-43-35

इति श्रीमहाभारते आदिपर्वणि आस्तीकपर्वणि तक्षकदंशे त्रिचत्वारिंशोऽध्यायः॥ 43 ॥