Difference between revisions of "Adiparva Adhyaya 3 (आदिपर्वणि अध्यायः ३)"

From Dharmawiki
Jump to: navigation, search
(slokas)
 
(No difference)

Latest revision as of 15:57, 11 July 2019

सौतिरुवाच

जनमेजयः पारीक्षितः सह भ्रातृभिः कुरुक्षेत्रे दीर्घसत्रमुपास्ते॥

तस्य भ्रातरस्त्रयः श्रुतसेन उग्रसेनो भीमसेन इति॥

तेषु तत्सत्रमुपासीनेष्वागच्छत्सारमेयः॥ 1-3-1

स जनमेजयस्य भ्रातृभिरभिहतो रोरूयमाणो मातुः समीपमुपागच्छत्॥ 1-3-2

तं माता रोरूयमाणमुवाच॥

किं रोदिषि केनास्यभिहत इति॥ 1-3-3

स एवमुक्तो मातरं प्रत्युवाच जनमेजयस्य भ्रातृभिरभिहतोऽस्मीति॥ 1-3-4

तं माता प्रत्युवाच व्यक्तं त्वया तत्रापराद्धं येनास्यभिहत इति॥ 1-3-5

स तां पुनरुवाच नापराध्यामि किंचिन्नावेक्षे हवींषि नावलिह इति॥ 1-3-6

तच्छ्रुत्वा तस्य माता सरमा पुत्रदुःखार्ता तत्सत्रमुपागच्छद्यत्र स जनमेजयः सह भ्रातृभिर्दीर्घसत्रमुपास्ते॥ 1-3-7

स तया क्रुद्धया तत्रोक्तोऽयं मे पुत्रो न किंचिदपराध्यति नावेक्षते हवींषि नावलेढि किमर्थमभिहत इति॥ 1-3-8

न किंचिदुक्तवन्तस्ते सा तानुवाच यस्मादयमभिहतोऽनपकारी तस्माददृष्टं त्वां भयमागमिष्यतीति॥ 1-3-9

[जनमेजय] एवमुक्तो देवशुन्या सरमया भृशं सम्भ्रान्तो विषण्णश्चासीत्॥ 1-3-10

स तस्मिन्सत्रे समाप्ते हास्तिनपुरं प्रत्येत्य पुरोहितमनुरूपमन्विच्छमानः परं यत्नमकरोद्यो मे पापकृत्यां शमयेदिति॥ 1-3-11

स कदाचिन्मृगयां गतः पारीक्षितो जनमेजयः कस्मिंश्चित्स्वविषय आश्रममपश्यत्॥ 1-3-12

तत्र कश्चिदृषिरासांचक्रे श्रुतश्रवा नाम॥

तस्य तपस्यभिरतः पुत्र आस्ते सोमश्रवा नाम॥ 1-3-13

तस्य तं पुत्रमभिगम्य जनमेजयः पारीक्षितः पौरोहित्याय वव्रे॥ 1-3-14

स नमस्कृत्य तमृषिमुवाच भगवन्नयं तव पुत्रो मम पुरोहितोऽस्त्विति॥ 1-3-15

स एवमुक्तः प्रत्युवाच जनमेजयं भो जनमेजय पुत्रोऽयं मम सर्पाज्ज्या[सर्प्याजा]तो महातपस्वी स्वाध्यायसम्पन्नो मत्तपोवीर्यसम्भृतो मच्छुक्रं पीतवत्यास्तस्याः कुक्षौ जातः॥ 1-3-16

समर्थोऽयं भवतः सर्वाः पापकृत्याः शमयितुमन्तरेण महादेवकृत्याम्॥ 1-3-17

अस्य त्वेकमुपांशुव्रतं यदेनं कश्चिद्ब्राह्मणः कंचिदर्थमभियाचेत्तं तस्मै दद्यादयं यद्येतदुत्सहसे ततो नयस्वैनमिति॥ 1-3-18

तेनैवमुक्तो जनमेजयस्तं प्रत्युवाच भगवंस्तत्तथा भविष्यतीति॥ 1-3-19

स तं पुरोहितमुपादायोपावृत्तो भ्रातॄनुवाच मयायं वृत उपाध्यायो यदयं ब्रूयात्तत्कार्यमविचारयद्भिर्भवद्भिरिति॥

तेनैवमुक्ता भ्रातरस्तस्य तथा चक्रुः॥

स तथा भ्रातॄन्संदिश्य तक्षशिलां प्रत्यभिप्रतस्थे तं च देशं वशे स्थापयामास॥ 1-3-20

एतस्मिन्नन्तरे कश्चिदृषिर्धौम्यो नामायोदस्तस्य शिष्यास्त्रयो बभूवुरुपमन्युरारुणिर्वेदश्चेति॥ 1-3-21

स एकं शिष्यमारुणिं पाञ्चालं[ल्यं] प्रेषयामास गच्छ केदारखण्डं बधानेति॥ 1-3-22

स उपाध्यायेन संदिष्ट आरुणिः पाञ्चाल्यस्तत्र गत्वा तत्केदारखण्डं बद्धुं नाशकत्॥

स क्लिश्यमानोऽपश्यदुपायं भवत्वेवं करिष्यामि॥ 1-3-23

त तत्र संविवेश केदारखण्डे शयाने च तथा तस्मिंस्तदुदकं तस्थौ॥ 1-3-24

ततः कदाचिदुपाध्याय अयोदो[आयोदो] धौम्यः शिष्यानपृच्छत्क्व आरुणिः पाञ्चाल्यो गत इति॥ 1-3-25

ते तं प्रत्यूचुर्भगवंस्त्वयैव प्रेषितो गच्छ केदारखण्डं बधानेति॥

स एवमुक्तस्ताञ्छिष्यान्प्रत्युवाच तस्मात्तत्र सर्वे गच्छामो यत्र स गत इति॥ 1-3-26

स तत्र गत्वा तस्याह्वानाय शब्दं चकार॥

भो आरुणे पाञ्चल्य क्वासि वत्सैहीति॥ 1-3-27

स तच्छ्रुत्वा आरुणिरुपाध्यायवाक्यं तस्मात्केदारखण्डात्सहसोत्थाय तमुपाध्यायमुपतस्थे॥ 1-3-28

प्रोवाच चैनमयमस्म्यत्र केदारखण्डे निःसरमाणमुदकमवारणीयं संरोद्धुं संविष्टो भगवच्छब्दं श्रुत्वैव सहसा विदार्य केदारखण्डं भगवन्तमुपस्थितः॥ 1-3-29

तदभिवादये भगवन्तमाज्ञापयतु भवान्कमर्थं करवाणीति॥ 1-3-30

स एवमुक्त उपाध्यायः प्रत्युवाच यस्माद्भवान्केदारखण्डं विदार्योत्थितस्तस्मातुद्दालक एव नाम्ना भवान्भविष्यतीत्युपाध्यायेनानुगृहीतः॥ 1-3-31

यस्माच्च त्वया मद्वचनमनुष्ठितं तस्माच्छ्रेयोऽवाप्स्यसि॥

सर्व एव[सर्वे च ते] वेदाः प्रतिभास्यन्ति सर्वाणि च धर्मशास्त्राणीति॥ 1-3-32

स एवमुक्त उपाध्यायेनेष्टं देशं जगाम॥

अथापरः शिष्यस्तस्यैव अयोदस्य धौम्यस्योपमन्युः नाम॥ 1-3-33

तं चोपाध्यायः प्रेषयामास वत्सोपमन्यो गा रक्षस्वेति॥ 1-3-34

स उपाध्यायवचनादरक्षद्गाः; स चाहनि गा रक्षित्वा दिवसक्षये गुरुगृहमागम्योपाध्यायस्याग्रतः स्थित्वा नमश्चक्रे॥ 1-3-35

तमुवाच चैनं[तमुपाध्यायः पीवानमपश्यदुवाच चैनं] वत्सोपमन्यो केन वृत्तिं कल्पयसि पीवानसि दृढमिति॥ 1-3-36

स उपाध्यायं प्रत्युवाच भो भैक्ष्येण वृत्तिं कल्पयामीति॥ 1-3-37

तमुपाध्यायः प्रत्युवाच मय्यनिवेद्य भैक्ष्यं नोपयोक्तव्यमिति॥

स तथेत्युक्त्वा भैक्ष्यं चरित्वोपाध्यायाय न्यवेदयत्॥ 1-3-38

स तस्मादुपाध्यायः सर्वमेव भैक्ष्यमगृह्णात्॥ स तथेत्युक्त्वा पुनररक्षद्गाः॥

अहनि रक्षित्वा निशामुखे गुरुकुलमागम्य गुरोरग्रतः स्थित्वा नमश्चक्रे॥ 1-3-39

तमुपाध्यायस्तथापि पीवानमेव दृष्ट्वोवाच वत्सोपमन्यो सर्वमशेषतस्ते भैक्ष्यं गृह्णामि केनेदानीं वृत्तिं कल्पयसीति॥ 1-3-40

स एवमुक्त उपाध्यायं प्रत्युवाच भगवते निवेद्य पूर्वमपरं चरामि तेन वृत्तिं कल्पयामीति॥ 1-3-41

तमुपाध्यायः प्रत्युवाच नैषा न्याय्या गुरुवृत्तिरन्येषामपि भैक्ष्योपजीविनां वृत्त्युपरोधं करोषि इत्येवं वर्तमानो लुब्धोऽसीति ॥ 1-3-42

स तथेत्युक्त्वा गा अरक्षत्॥

रक्षित्वा च पुनरुपाध्यायगृहमागम्योपाध्यायस्याग्रतः स्थित्वा नमश्चक्रे॥ 1-3-43

तमुपाध्यायस्तथापि पीवानमेव दृष्ट्वा पुनरुवाच वत्सोपमन्यो अहं ते सर्वं भैक्ष्यं गृह्णामि न चान्यच्चरसि पीवानसि भृशं केन वृत्तिं कल्पयसीति॥ 1-3-44

स एवमुक्तस्तमुपाध्यायं प्रत्युवाच भो एतासां गवां पयसा वृत्तिं कल्पयामीति॥

तमुवाचोपाध्यायो नैतन्न्याय्यं पय उपयोक्तुं मया नाभ्यनुज्ञातमिति॥ 1-3-45

स तथेति प्रतिज्ञाय गा रक्षित्वा पुनरुपाध्यायगृहमेत्य गुरोरग्रतः स्थित्वा नमश्चक्रे॥ 1-3-46

तमुपाध्यायः पीवानमेव दृष्ट्वोवाच वत्सोपमन्यो भैक्ष्यं नाश्नासि न चान्यच्चरसि पयो न पिबसि पीवानसि भृशं केनेदानीं वृत्तिं कल्पयसीति॥ 1-3-47

स एवमुक्त उपाध्यायं प्रत्युवाच भोः फेनं पिबामि यमिमे वत्सा मातॄणां स्तनात्पिबन्त उद्गिरन्ति॥ 1-3-48

तमुपाध्यायः प्रत्युवाच--एते त्वदनुकम्पया गुणवन्तो वत्साः प्रभूततरं फेनमुद्गिरन्ति॥

तदेषामपि वत्सानां वृत्त्युपरोधं करोष्येवं वर्तमानः॥

फेनमपि भवान्न पातुमर्हतीति॥

स तथेति प्रतिश्रुत्य पुनररक्षद्गाः॥ 1-3-49

तथा प्रतिषिद्धो भैक्ष्यं नाश्नाति न चान्यच्चरति पयो न पिबति फेनं नोपयुङ्क्ते॥

स कदाचिदरण्ये क्षुधार्तोऽर्कपत्राण्यभक्षयत्॥ 1-3-50

स तैरर्कपत्रैर्भक्षितैः क्षारतिक्तकटुरूक्षैस्तीक्ष्णविपाकैश्चक्षुष्युपहतोऽन्धो बभूव॥

ततः सोऽन्धोऽपि चङ्क्रम्यमाणः कूपे पपात॥ 1-3-51

अथ तस्मिन्ननागच्छति सूर्ये चास्ताचलावलम्बिनि उपाध्यायः शिष्यानवोचत्--नायात्युपमन्युस्त ऊचुर्वनं गतो गा रक्षितुमिति॥ 1-3-52

तानाह उपाध्यायो मयोपमन्युः सर्वतः प्रतिषिद्धः स नियतं कुपितस्ततो नागच्छति चिरं ततोऽन्वेष्य इत्येवमुक्त्वा शिष्यैः सार्धमरण्यं गत्वा तस्याह्वानाय शब्दं चकार भो उपमन्यो क्वासि वत्सैहीति॥ 1-3-53

स उपाध्यायवचनं श्रुत्वा प्रत्युवाचोच्चैरयमस्मिन्कूपे पतितोऽहमिति तमुपाध्यायः प्रत्युवाच कथं त्वमस्मिन्कूपे पतित इति॥ 1-3-54

स उपाध्यायं प्रत्युवाच--अर्कपत्राणि भक्षयित्वान्धीभूतोऽस्म्यतः कूपे पतित इति॥ 1-3-55

तमुपाध्यायः प्रत्युवाच--अश्विनौ स्तुहि॥ तौ देवभिषजौ त्वां चक्षुष्मन्तं कर्ताराविति॥

स एवमुक्त उपाध्यायेनोपमन्युः स्तोतुमुपचक्रमे देवावश्विनौ वाग्भिरृग्भिः॥ 1-3-56

प्रपूर्वगौ पूर्वजौ चित्रभानू गिरा वाऽऽशंसामि तपसा ह्यनन्तौ।

दिव्यौ सुपर्णौ विरजौ विमानावधिक्षिपन्तौ भुवनानि विश्वा॥ 1-3-57

हिरण्मयौ शकुनी साम्परायौ नासत्यदस्रौ सुनसौ वै जयन्तौ।

शुक्लं वयन्तौ तरसा सुवेमावधिव्ययन्तावसितं विवस्वतः॥ 1-3-58

ग्रस्तां सुपर्णस्य बलेन वर्तिकाममुञ्चतामश्विनौ सौभगाय।

तावत्सुवृत्तावनमन्त मायया वसत्तमा गा अरुणा उदावहन्॥ 1-3-59

षष्टिश्च गावस्त्रिशताश्च धेनव एकं वत्सं सुवते तं दुहन्ति।

नानागोष्ठा विहिता एकदोहनास्तावश्विनौ दुहतो धर्ममुक्थ्यम्॥ 1-3-60

एकां नाभिं सप्तशता अराः श्रिताः प्रधिष्वन्या विंशतिरर्पिता अराः।

अनेमि चक्रं परिवर्ततेऽजरं मायाश्विनौ समनक्ति चर्षणी॥ 1-3-61

एकं चक्रं वर्तते द्वादशारं षण्णाभिमेकाक्षमृतस्य धारणम्।

यस्मिन्देवा अधि विश्वे विषक्तास्तावश्विनौ मुञ्चतं मा विषीदतम्॥ 1-3-62

अश्विनाविन्दुममृतं वृत्तभूयौ तिरोधत्तामश्विनौ दासपत्नी।

हित्वा गिरिमश्विनौ गा मुदा चरन्तौ तद्वृष्टिमह्ना प्रस्थितौ बलस्य॥ 1-3-63

युवां दिशो जनयथो दशाग्रे समानं मूर्ध्नि रथयानं वियन्ति।

तासां यातमृषयोऽनुप्रयान्ति देवा मनुष्याः क्षितिमाचरन्ति॥ 1-3-64

युवां वर्णान्विकुरुथोनिश्वरूपास्तेऽधिक्षिपन्ते भुवनानि विश्वा।

ते मानवोऽप्यनुसृताश्चरन्ति देवा मनुष्याः क्षितिमाचरन्ति॥ 1-3-65

तौ नासत्यावश्विनौ वां महेऽहं स्रजं च यां बिभृथः पुष्करस्य।

तौ नासत्यावमृतावृतावृधावृते देवास्तत्प्रपदे न सूते॥ 1-3-66

मुखेन गर्भं लभेतां युवानौ गतासुरेतत्प्रपदेन सूते।

सद्यो जातो मातरमत्ति गर्भस्तावश्विनौ मुञ्चथो जीवसे गाः॥ 1-3-67

स्तोतुं न शक्नोमि गुणैर्भवन्तौ चक्षुर्विहीनः पथि सम्प्रमोहः।

दुर्गेऽहमस्मिन्पतितोऽस्मि कूपेयुवां शरण्यौ शरणं प्रपद्ये॥ 1-3-68

इत्येवं तेनाभिष्टुतावश्विनावाजग्मतुराहतुश्चैनं प्रीतौ स्व एष तेऽपूपोऽशानैनमिति॥ 1-3-69

स एवमुक्तः प्रत्युवाच नानृतमूचतुर्भगवन्तौ न त्वहमेतमपूपमुपयोक्तुमुत्सहे गुरवेऽनिवेद्येति॥ 1-3-70

ततस्तमश्विनावूचतुः-- आवाभ्यां पुरस्ताद्भवत उपाध्यायेनैवमेवाभिष्टुताभ्यामपूपो दत्त उपयुक्तः स तेनानिवेद्य गुरवे त्वमपि तथैव कुरुष्व यथा कृतमुपाध्यायेनेति॥ 1-3-71

स एवमुक्तः प्रत्युवाच-एतत्प्रत्यनुनये भवन्तावश्विनौ नोत्सहेऽहमनिवेद्य गुरवेऽपूपमुपयोक्तुमिति॥ 1-3-72

तमश्विनावाहतुः प्रीतौ स्वस्तवानया गुरुभक्त्या उपाध्यायस्य ते कार्ष्णायसा दन्ता भवतोऽपि हिरण्मया भविष्यन्ति चक्षुष्मांश्च भविष्यसीति श्रेयश्चावाप्स्यसीति॥ 1-3-73

स एवमुक्तोऽश्विभ्यां लब्धचक्षुरुपाध्यायसकाशमागम्याभ्यवादयत्॥ 1-3-74

आचचक्षे च स चास्य प्रीतिमान्बभूव॥ 1-3-75

आह चैनं यथाश्विनावाहतुस्तथा त्वं श्रेयोऽवाप्स्यसि॥ 1-3-76

सर्वे च ते वेदाः प्रतिभास्यन्ति सर्वाणि च धर्मशास्त्राणीति॥ एषा तस्यापि परीक्षोपमन्योः॥ 1-3-77

अथापरः शिष्यस्तस्यैवायोदस्य धौम्यस्य वेदो नाम तमुपाध्यायः समादिदेश वत्स वेद इहास्यतां तावन्मम गृहे कंचित्कालं शुश्रूषुणा च भवितव्यं श्रेयस्ते भविष्यतीति॥ 1-3-78

स तथेत्युक्त्वा गुरुकुले दीर्घकालं गुरुशुश्रूषणपरोऽवसद्गौरिव नित्यं गुरुणा धूर्षु नियोज्यमानः शीतोष्णक्षुत्तृष्णादुःखसहः सर्वत्राप्रतिकूलस्तस्य महता कालेन गुरुः परितोषं जगाम॥ 1-3-79

तत्परितोषाच्च श्रेयः सर्वज्ञतां चावाप॥

एषा तस्यापि परीक्षा वेदस्य॥ 1-3-80

स उपाध्यायेनानुज्ञातः समावृतस्तस्माद्गुरुकुलवासाद्गृहाश्रमं प्रत्यपद्यत॥

तस्यापि स्वगृहे वसतस्त्रयः शिष्या बभूवुः स शिष्यान्न किंचिदुवाच कर्म वा क्रियतां गुरुशुश्रूषा चेति॥

दुःखाभिज्ञो हि गुरुकुलवासस्य शिष्यान्परिक्लेशेन योजयितुं नेयेष॥ 1-3-81

अथ कस्मिंश्चित्काले वेदं ब्राह्मणं जनमेजयः पौष्यश्च क्षत्रियावुपेत्य वरयित्वोपाध्यायं चक्रतुः॥ 1-3-82

स कदाचिद्याज्यकार्येणाभिप्रस्थित उद[त्त]ङ्कनामानं शिष्यं नियोजयामास॥ 1-3-83

भो यत्किंचिदस्मद्गृहे परिहीयते तदिच्छाम्यहमपरिहीयमानं भवता क्रियमाणमिति स एवं प्रतिसंदिश्योद[त्त]ङ्कं वेदः प्रवासं जगाम॥ 1-3-84

अथोद[त्त]ङ्कः शुश्रूषुर्गुरुनियोगमनुतिष्ठमानो गुरुकुले वसति स्म॥

स तत्र वसमान उपाध्यायस्त्रीभिः सहिताभिराहूयोक्तः॥ 1-3-85

उपाध्यायानी ते ऋतुमती उपाध्यायश्चोषितोऽस्या यथायमृतुर्वन्ध्यो न भवति तथा क्रियतामेषा विषीदतीति॥ 1-3-86

एवमुक्तस्ताः स्त्रियः प्रत्युवाच न मया स्त्रीणां वचनादिदमकार्यं करणीयम्॥

न ह्यहमुपाध्यायेन संदिष्टोऽकार्यमपि त्वया कार्यमिति॥ 1-3-87

तस्य पुनरुपाध्यायः कालान्तरेण गृहमाजगाम तस्मात्प्रवासात्॥ 1-3-88

(स तु तद्वृत्तं तस्याशेषमुपलभ्य प्रीतिमानभूत्॥)

उवाच चैनं वत्सोद[त्त]ङ्क किं ते प्रियं करवाणीति॥

धर्मतो हि शुश्रूषितोऽस्मि भवता तेन प्रीतिः परस्परेण नौ संवृद्धा तदनुजाने भवन्तं सर्वानेव कामानवाप्स्यसि गम्यतामिति॥ 1-3-89

स एवमुक्तः प्रत्युवाच किं ते प्रियं करवाणीति एवमाह॥ 1-3-90

यश्चाधर्मेण वै ब्रूयाद्यश्चाधर्मेण पृच्छति।

तयोरन्यतरः प्रैति विद्वेषं चाधिगच्छति॥ 1-3-91

सोऽहमनुज्ञातो भवतेच्छामीष्टं गुर्वर्थमुपहर्तुमिति॥

तेनैवमुक्त उपाध्यायः प्रत्युवाच वत्सोद[त्त]ङ्क उष्यतां तावदिति॥ 1-3-92

स कदाचिदुपाध्यायमाहोद[त्त]ङ्क आज्ञापयतु भवान्किं ते प्रियमुपाहरामि गुर्वर्थमिति॥ 1-3-93

तमुपाध्यायः प्रत्युवाच वत्सोद[त्त]ङ्क बहुशो मां चोदयसि गुर्वर्थमुपाहरामीति तद्गच्छैनां प्रविश्योपाध्यायानीं पृच्छ किमुपाहरामीति॥

एषा यद्ब्रवीति तदुपाहरस्वेति॥ 1-3-94

स एवमुक्त उपाध्यायेनोपाध्यायानीमपृच्छद्भगवत्युपाध्यायेनास्म्यनुज्ञातो गृहं गन्तुमिच्छामीष्टं ते गुर्वर्थमुपहृत्यानृणो गन्तुमिति॥

तदाज्ञापयतु भवती किमुपाहरामि गुर्वर्थमिति॥ 1-3-95

सैवमुक्तोपाध्यायानी तमुद[त्त]ङ्कं प्रत्युवाच गच्छ पौष्यं प्रति राजानं कुण्डले भिक्षितुं तस्य क्षत्रियया पिनद्धे॥ 1-3-96

ते आनयस्व चतुर्थेऽहनि पुण्यकं भविता ताभ्यामाबद्धाभ्यां शोभमाना ब्राह्मणान्परिवेष्टुमिच्छामि॥

तत्सम्पादयस्व एवं हि कुर्वतः श्रेयो भवितान्यथा कुतः श्रेय इति॥ 1-3-97

स एवमुक्तस्तया प्रातिष्ठतोद[त्त]ङ्कः स पथि गच्छन्नपश्यदृषभमतिप्रमाणं तमधिरूढं च पुरुषमतिप्रमाणमेव स पुरुष उद[त्त]ङ्कमभ्यभाषत॥ 1-3-98

भो उद[त्त]ङ्कैतत्पुरीषमस्य ऋषभस्य भक्षयस्वेति स एवमुक्तो नैच्छत्॥ 1-3-99

तमाह पुरुषो भूयो भक्षयस्वोत्तङ्का मा विचारयोपाध्यायेनापि ते भक्षितं पूर्वमिति॥ 1-3-100

स एवमुक्तो बाढमित्युक्त्वा तदा तद्वृषभस्य मूत्रं पुरीषं च भक्षयित्वोद[त्त]ङ्कः सम्भ्रमादुत्थित एवाप उपस्पृश्य प्रतस्थे॥ 1-3-101

यत्र स क्षत्रियः पौष्यस्तमुपेत्यासीनमपश्यदुद[त्त]ङ्कः॥

स उद[त्त]ङ्कस्तमुपेत्याशीर्भिरभिनन्द्योवाच॥ 1-3-102

अर्थी भवन्तमुपागतोऽस्मीति स एनमभिवाद्योवाच भगवन्पौष्यः खल्वहं किं करवाणीति॥ 1-3-103

तमुवाच गुर्वर्थं कुण्डलयोरर्थेनाभ्यागतोऽस्मीति॥

ये वै ते क्षत्रियया पिनद्धे कुण्डले ते भवान्दातुमर्हतीति॥ 1-3-104

तं प्रत्युवाच पौष्यः प्रविश्यान्तःपुरं क्षत्रिया याच्यतामिति॥

स तेनैवमुक्तः प्रविश्यान्तःपुरं क्षत्रियां नापश्यत्॥ 1-3-105

स पौष्यं पुनरुवाच न युक्तं भवताहमनृतेनोपचरितुं न हि तेऽन्तःपुरे क्षत्रिया सन्निहिता नैनां पश्यामि॥ 1-3-106

स एवमुक्तः पौष्यः क्षणमात्रं विमृश्योत्तङ्कं प्रत्युवाच नियतं भवानुच्छिष्टः स्मर तावन्न हि सा क्षत्रिया उच्छिष्टेनाशुचिना शक्या द्रष्टुं पतिव्रतात्वात्सैषा नाशुचेर्दर्शनमुपैतीति॥ 1-3-107

(अथैवमुक्त उद[त्त]ङ्कः स्मृत्वोवाचास्ति खलु मयोत्थितेनोपस्पृष्टं गच्छता चेति॥

तं पौष्यः प्रत्युवाच-- एष ते व्यतिक्रमो नोत्थितेनोपस्पृष्टं भवतीति शीघ्रं गच्छता चेति॥)

अथोद[त्त]ङ्कस्तं तथेत्युक्त्वा प्राङ्मुख उपविश्य सुप्रक्षालितपाणिपादवदनो निःशब्दाभिरफेनाभिरनुष्णाभिर्हृद्गताभिरद्भिस्त्रिः पीत्वा द्विः परिमृज्य खान्यद्भिरुपस्पृश्य चान्तःपुरं प्रविवेश॥ 1-3-108

ततस्तां क्षत्रियामपश्यत् सा च दृष्ट्वैवोत्तङ्कं प्रत्युत्थायाभिवाद्योवाच स्वागतं ते भगवन्नाज्ञापय किं करवाणीति॥ 1-3-109

स तामुवाचैते कुण्डले गुर्वर्थं मे भिक्षिते दातुमर्हसीति॥

सा प्रीता तेन तस्य सद्भावेन पात्रमयमनतिक्रमणीयश्चेति मत्वा ते कुण्डलेऽवमुच्यास्मै प्रायच्छदाह चैन मेते कुण्डले तक्षको नागराजः सुभृशं प्रार्थयत्यप्रमत्तो नेतुमर्हसीति॥ 1-3-110

स एवमुक्तस्तां क्षत्रियां प्रत्युवाच भगवति सुनिर्वृत्ता भव॥

न मां शक्तस्तक्षको नागराजो धर्षयितुमिति॥ 1-3-111

स एवमुक्त्वा तां क्षत्रियामामन्त्र्य पौष्यसकाशमागच्छत्॥

आह चैनं भोः पौष्य प्रीतोऽस्मीति तमुत्तङ्कं पौष्यः प्रत्युवाच॥ 1-3-112

भगवंश्चिरेण पात्रमासाद्यते भवांश्च गुणवानतिथिस्तदिच्छे श्राद्धं कर्तुं क्रियतां क्षण इति॥ 1-3-113

तमुद[त्त]ङ्कः प्रत्युवाच कृतक्षण एवास्मि शीघ्रमिच्छामि यथोपपन्नमन्नमुपस्कृतं भवतेति स तथेत्युक्त्वा यथोपपन्नेनान्नेनैनं भोजयामास॥ 1-3-114

अथोद[त्त]ङ्कः सकेशं शीतमन्नं दृष्ट्वा अशुच्येतदिति मत्वा तं पौष्यमुवाच यस्मान्मेऽशुच्यन्नं ददासि तस्मादन्धो भविष्यसीति॥ 1-3-115

तं पौष्यः प्रत्युवाच यस्मात्त्वमप्यदुष्टमन्नं दूषयसि तस्मात्त्वमनपत्यो भविष्यसीति तमुद[त्त]ङ्कः प्रत्युवाच॥ 1-3-116

न युक्तं भवतान्नमशुचि दत्त्वा प्रतिशापं दातुं तस्मादन्नमेव प्रत्यक्षीकुरु॥

ततः पौष्यस्तदन्नमशुचि दृष्ट्वा तस्याशुचिभावमपरोक्षयामास॥ 1-3-117

अथ तदन्नं मुक्तकेश्या स्त्रिया यत्कृतमनुष्णं सकेशं चाशुच्येतदिति मत्वा तमृषिमुद[त्त]ङ्कं प्रसादयामास॥ 1-3-118

भगवन्नेतदज्ञानादन्नं सकेशमुपाहृतं शीतं तत्क्षामये भवन्तं न भवेयमन्ध इति तमुद[त्त]ङ्कः प्रत्युवाच॥ 1-3-119

न मृषा ब्रवीमि भूत्वा त्वमन्धो न चिरादनन्धो भविष्यसीति॥

ममापि शापो भवता दत्तो न भवेदिति॥ 1-3-120

तं पौष्यः प्रत्युवाच न चाहं शक्तः शापं प्रत्यादातुं न हि मे मन्युरद्याप्युपशमं गच्छति किं चैतद्भवता न ज्ञायते यथा--॥ 1-3-121

नवनीतं हृदयं ब्राह्मणस्य वाचि क्षुरो निहितस्तीक्ष्णधारः।

तदुभयमेतद्विपरीतं क्षत्रियस्य वाङ्नवनीतं हृदयं तीक्ष्णधारम्। इति॥ 1-3-122

तदेवं गते न शक्तोऽहं तीक्ष्णहृदयत्वात्तं शापमन्यथा कर्तुं गम्यतामिति॥

तमुद[त्त]ङ्कः प्रत्युवाच भवताहमन्नस्याशुचिभावमालक्ष्य प्रत्यनुनीतः प्राक्च तेऽभिहितम्॥ 1-3-123

यस्माददुष्टमन्नं दूषयसि तस्मादनपत्यो भविष्यसीति॥

दुष्टे चान्ने नैष मम शापो भविष्यतीति॥ 1-3-124

साधयामस्तावदित्युक्त्वा प्रातिष्ठतोद[त्त]ङ्कस्ते कुण्डले गृहीत्वा सोऽपश्यदथ पथि नग्नं क्षपणकमागच्छन्तं मुहुर्मुहुर्दृश्यमानमदृश्यमानं च॥ 1-3-125

अथोद[त्त]ङ्कस्ते कुण्डले संन्यस्य भूमावुदकार्थं प्रचक्रमे॥

एतस्मिन्नन्तरे स क्षपणकस्त्वरमाण उपसृत्य ते कुण्डले गृहीत्वा प्राद्रवत्॥ 1-3-126

तमुद[त्त]ङ्कोऽभिसृत्य कृतोदककार्यः शुचिः प्रयतो नमो देवेभ्यो गुरुभ्यश्च कृत्वा महता जवेन तमन्वयात्॥ 1-3-127

तस्य तक्षको दृढमासन्नः स तं जग्राह गृहीतमात्रः स तद्रूपं विहाय तक्षकस्वरूपं कृत्वा सहसा धरण्यां विवृतं महाबिलं प्रविवेश॥ 1-3-128

प्रविश्य च नागलोकं स्वभवनमगच्छत्॥

अथोद[त्त]ङ्कस्तस्याः क्षत्रियाया वचः स्मृत्वा तं तक्षकमन्वगच्छत्॥ 1-3-129

स तद्बिलं दण्डकाष्ठेन चखान न चाशकत्॥

तं क्लिश्यमानमिन्द्रोऽपश्यत्स वज्रं प्रेषयामास॥ 1-3-130

गच्छास्य ब्राह्मणस्य साहाय्यं कुरुष्वेति॥

अथ वज्रं दण्डकाष्ठमनुप्रविश्य तद्बिलमदारयत्॥ 1-3-131

तमुद[त्त]ङ्कोऽनुविवेश तेनैव बिलेन प्रविश्य च तं नागलोकमपर्यन्तमनेकविधप्रासादहर्म्यवलभीनिर्यूहशतसंकुलमुच्चावचक्रीडाश्चर्यस्थानावकीर्णमपश्यत्॥ 1-3-132

स तत्र नागांस्तानस्तुवदेभिः श्लोकैः-

य ऐरावतराजानः सर्पाः समितिशोभनाः।

क्षरन्त इव जीमूताः सविद्युत्पवनेरिताः॥ 1-3-133

सुरूपा बहुरूपाश्च तथा कल्माषकुण्डलाः।

आदित्यवन्नागलोके रेजुरैरावतोद्भवाः॥ 1-3-134

बहूनि नागवेश्मानि गङ्गायास्तीर उत्तरे।

तत्रस्थानपि संस्तौमि महतः पन्नगानहम्॥ 1-3-135

इच्छेत्कोऽर्कांशुसेनायां चर्तुमैरावतं विना।

शतान्यशीतिरष्टौ च सहस्राणि च विंशतिः॥ 1-3-136

सर्पाणां प्रग्रहा यान्ति धृतराष्ट्रोऽयमेजति।

ये चैनमुपसर्पन्ति ये च दूरपथं गताः॥ 1-3-137

अहमैरावतज्येष्ठभ्रातृभ्योऽकरवं नमः।

यस्य वासः कुरुक्षेत्रे खाण्डवे चाभवत्पुरा॥ 1-3-138

तं नागराजमस्तौषं कुण्डलार्थाय तक्षकम्।

तक्षकश्चाश्वसेनश्च नित्यं सहचरावुभौ॥ 1-3-139

कुरुक्षेत्रे च वसतां नदीमिक्षुमतीमनु।

जघन्यजस्तक्षकस्य श्रुतसेनेति यः सुतः॥ 1-3-140

अवसद्यो महद्युम्नि प्रार्थयन्नागमुख्यताम्।

करवाणि सदा चाहं नमस्तस्मै महात्मने॥ 1-3-141

एवं स्तुत्वा स विप्रर्षिरुद[त्त]ङ्को भुजगोत्तमान्।

नैव ते कुण्डले लेभे ततश्चिन्तामुपागमत्॥ 1-3-142

एवं स्तुवन्नपि नागान्यदा ते कुण्डले नालभत तदापश्यत्स्त्रियौ तन्त्रे अधिरोप्य सुवेमे पटं वयन्त्यौ॥

तस्मिंस्तन्त्रे कृष्णाः सिताञ्च तन्तवश्चक्रं चापश्यद्द्वादशारं षड्भिः कुमारैः परिवर्त्यमानं पुरुषं चापश्यदश्वं च दर्शनीयम्॥ 1-3-143

स तान्सर्वांस्तुष्टाव एभिर्मन्त्रवाद[वदेव] श्लोकैः॥ 1-3-144

त्रीण्यर्पितान्यत्र शतानि मध्ये षष्टिश्च नित्यं चरति ध्रुवेऽस्मिन्।

चक्रे चतुर्विंशतिपर्वयोगे षड्वै कुमाराः परिवर्तयन्ति॥ 1-3-145

तन्त्रं चेदं विश्वरूपे युवत्यौ वयतस्तन्तून्सततं वर्तयन्त्यौ।

कृष्णान्सितांश्चैव विवर्तयन्त्यौ भूतान्यजस्रं भुवनानि चैव॥ 1-3-146

वज्रस्य भर्ता भुवनस्य गोप्ता वृत्रस्य हन्ता नमुचेर्निहन्ता।

कृष्णे वसानो वसने महात्मा सत्यानृते यो विविनक्ति लोके॥ 1-3-147

यो वाजिनं गर्भमपां पुराणं वैश्वानरं वाहनमभ्युपैति।

नमोऽस्तु तस्मै जगदीश्वराय लोकत्रयेशाय पुरन्दराय॥ 1-3-148

ततः स एनं पुरुषः प्राह प्रीतोऽस्मि तेऽहमनेन स्तोत्रेण किं ते प्रियं करवाणीति स तमुवाच॥ 1-3-149

नागा मे वशमीयुरिति स चैनं पुरुषः पुनरुवाच एतमश्वमपाने धमस्वेति॥ 1-3-150

ततोऽश्वस्यापानमधमत्ततोऽश्वाद्धम्यमानात्सर्वस्रोतोभ्यः पावकार्चिष सधूमा निष्पेतुः॥ 1-3-151

ताभिर्नागलोक उपधूपितेऽथ सम्भ्रान्तस्तक्षकोऽग्नेस्तेजोभयाद्विषण्णः कुण्डले गृहीत्वा सहसा भवनान्निष्क्रम्योद[त्त]ङ्कमुवाच॥ 1-3-152

इमे कुण्डले गृह्णातु भवानिति स ते प्रतिजग्राहोद[त्त]ङ्कः प्रतिगृह्य च कुण्डलेऽचिन्तयत्॥ 1-3-153

अद्य तत्पुण्यकमुपाध्यायान्या दूरं चाहमभ्यागतः स कथं सम्भावयेयमिति तत एनं चिन्तयानमेव स पुरुष उवाच॥ 1-3-154

उद[त्त]ङ्क एनमेवाश्वमधिरोह त्वां क्षणेनैवोपाध्यायकुलं प्रापयिष्यतीति॥ 1-3-155

स तथेत्युक्त्वा तमश्वमधिरुह्य प्रत्याजगामोपाध्यायकुलमुपाध्यायानी च स्नाता केशानावापयन्त्युपविष्टोद[त्त]ङ्को नागच्छतीति शापायास्य मनो दधे॥ 1-3-156

अथ तस्मिन्नन्तरे स उद[त्त]ङ्कः प्रविश्य उपाध्यायगृहे उपाध्यायानीमभ्यवादयत्ते चास्यै कुण्डले प्रायच्छत्सा चैनं प्रत्युवाच॥ 1-3-157

उद[त्त]ङ्क देशे कालेऽभ्यागतः स्वागतं ते वत्स अनागतोऽसि यदि मूहूर्तं मया शप्तो भविष्यसि॥

श्रेयस्तवोपस्थितं सिद्धिमाप्नुहीति॥ 1-3-158

अथोद[त्त]ङ्क उपाध्यायमभ्यवादयत्॥

तमुपाध्यायः प्रत्युवाच वत्सोत्तङ्क स्वागतं ते किं चिरं कृतमिति॥ 1-3-159

तमुद[त्त]ङ्क उपाध्यायं प्रत्युवाच भोस्तक्षकेण मे नागराजेन विघ्नः कृतोऽस्मिन्कर्मणि तेनास्मि नागलोकं गतः॥ 1-3-160

तत्र च मया दृष्टे स्त्रियौ तन्त्रेऽधिरोप्य पटं वयन्त्यौ तस्मिश्च कृष्णा सिताश्च तन्तवः किं तत्॥ 1-3-161

तत्र च मया चक्रं दृष्टं द्वादशारं षट्चैनं कुमाराः परिवर्तयन्ति तदपि किम्॥

पुरुषश्चापि मया दृष्टः स चापि कः॥ 1-3-162

पथि गच्छता च मया ऋषभो दृष्टस्तं च पुरुषोऽधिरूढस्तेनास्मि सोपचारमुक्त उद[त्त]ङ्कास्य ऋषभस्य पुरीषं भक्षय उपाध्यायेनापि ते भक्षितमिति॥ 1-3-163

ततस्तस्य वचनान्मया तदृषभस्य पुरीषमुपयुक्तं स चापि कः॥

तदेतद्भवतोपदिष्टमिच्छेयं श्रोतुं किं तदिति स तेनैवमुक्त उपाध्यायः प्रत्युवाच॥ 1-3-164

ये ते स्त्रियौ धाता विधाता च ये च ते कृष्णाः सितास्तन्तवस्ते रात्र्यहनी॥

तदपि तच्चक्रं द्वादशारं षड्वै कुमाराः परिवर्तयन्ति तेऽपि षडृतवः द्वादशारा द्वादश मासाः संवत्सरश्चक्रम्॥ 1-3-165

यः पुरुषः स पर्जन्यो योऽश्वः सोऽग्निर्य ऋषभस्त्वया पथि गच्छता दृष्टः स ऐरावतो नागराट्॥ 1-3-166

यश्चैनमधिरूढः पुरुषः च चेन्द्रो यदपि ते भक्षितं तस्य ऋषभस्य पुरीषं तदमृतं तेन खल्वसि तस्मिन्नागभवने न व्यापन्नस्त्वम्॥ 1-3-167

स हि भगवानिन्द्रो मम सखा त्वदनुक्रोशादिममनग्रहं कृतवान्॥

तस्मात्कुण्डले गृहीत्वा पुनरागतोऽसि॥ 1-3-168

तत्सौम्य गम्यतामनुजाने भवन्तं श्रेयोऽवाप्स्यसीति॥

स उपाध्यायेनानुज्ञातो भगवानुद[त्त]ङ्कः क्रुद्धस्तक्षकं प्रति चिकीर्षमाणो हास्तिनपुरं प्रतस्थे॥ 1-3-169

स हास्तिनपुरं प्राप्य नचिराद्विप्रसत्तमः।

समागच्छत राजानमुद[त्त]ङ्को जनमेजयम्॥ 1-3-170

पुरा तक्षशिलासंस्थं निवृत्तमपराजितम्।

सम्यग्विजयिनं दृष्ट्वा समन्तान्मन्त्रिभिर्वृतम्॥ 1-3-171

तस्मै जयाशिषः पूर्वं यथान्यायं प्रयुज्य सः।

उवाचैनं वचः काले शब्दसम्पन्नया गिरा॥ 1-3-172

उद[त्त]ङ्क उवाच

अन्यस्मिन्करणीये तु कार्ये पार्थिवसत्तम।

बाल्यादिवान्यदेव त्वं कुरुषे नृपसत्तम॥ 1-3-173

सौतिरुवाच

एवमुक्तस्तु विप्रेण स राजा जनमेजयः।

अर्चयित्वा यथान्यायं प्रत्युवाच द्विजोत्तमम्॥ 1-3-174

जनमेजय उवाच

आसां प्रजानां परिपालनेन स्वं क्षत्रधर्मं परिपालयामि।

प्रब्रूहि मे किं करणीयमद्य येनासि कार्येण समागतस्त्वम्॥ 1-3-175

सौतिरुवाच

स एवमुक्तस्तु नृपोत्तमेन द्विजोत्तमः पुण्यकृतां वरिष्ठः।

उवाच राजानमदीनसत्त्वं स्वमेव कार्यं नृपते कुरुष्व॥ 1-3-176

उद[त्त]ङ्क उवाच

तक्षकेण महीन्द्रेन्द्र येन ते हिंसितः पिता।

तस्मै प्रतिकुरुष्व त्वं पन्नगाय दुरात्मने॥ 1-3-177

कार्यकालं हि मन्येऽहं विधिदृष्टस्य कर्मणः।

तद्गच्छापचितिं राजन्पितुस्तस्य महात्मनः॥ 1-3-178

तेन ह्यनपराधी स दष्टो दुष्टान्तरात्मना।

पञ्चत्वमगमद्राजा वज्राहत इव द्रुमः॥ 1-3-179

बलदर्पसमुत्सिक्तस्तक्षकः पन्नगाधमः।

अकार्यं कृतवान्पापो योऽदशत्पितरं तव॥ 1-3-180

राजर्षिवंशगोप्तारममरप्रतिमं नृपम्।

यियासुं काश्यपं चैव न्यवर्तयत्पापकृत्॥ 1-3-181

होतुमर्हसि तं पापं ज्वलिते हव्यवाहने।

सर्पसत्रे महाराज त्वरितं तद्विधीयताम्॥ 1-3-182

एवं पितुश्चापचितिं कृतवांस्त्वं भविष्यसि।

मम प्रियं च सुमहत्कृतं राजन्भविष्यसि॥ 1-3-183

कर्मणः पृथिवीपाल मम येन दुरात्मना।

विघ्नः कृतो महाराज गुर्वर्थं चरतोऽनघ॥ 1-3-184

सौतिरुवाच

एतच्छ्रुत्वा तु नृपतिस्तक्षकाय चुकोप ह।

उद[त्त]ङ्कवाक्यहविषा दीप्तोऽग्निर्हविषा यथा॥ 1-3-185

अपृच्छत्स तदा राजा मन्त्रिणस्तान्सुदुःखितः।

उद[त्त]ङ्कस्यैव सांनिध्ये पितुः स्वर्गगतिं प्रति॥ 1-3-186

तदैव हि स राजेन्द्रो दुःखशोकाप्लुतोऽभवत्।

यदैव वृत्तं पितरमुद[त्त]ङ्कादशृणोत्तदा॥ 1-3-187

इति श्रीमहाभारते आदिपर्वणि पौष्यपर्वणि उदङ्कोपाख्यानं नाम तृतीयोऽध्यायः॥ 3 ॥