Adiparva Adhyaya 29 (आदिपर्वणि अध्यायः २९)

From Dharmawiki
Revision as of 18:44, 4 September 2019 by Pṛthvī (talk | contribs) (new)
(diff) ← Older revision | Latest revision (diff) | Newer revision → (diff)
Jump to navigation Jump to search

सौतिरुवाच

तस्य कण्ठमनुप्राप्तो ब्राह्मणः सह भार्यया।

दहन्दीप्त इवाङ्गारस्तमुवाचान्तरिक्षगः॥ 1-29-1

द्विजोत्तम विनिर्गच्छ तूर्णमास्यादपावृतात्।

न हि मे ब्राह्मणो वध्यः पापेष्वपि रतः सदा॥ 1-29-2

ब्रुवाणमेवं गरुडं ब्राह्मणः प्रत्यभाषत।

निषादी मम भार्येयं निर्गच्छतु मया सह॥ 1-29-3

गरुड उवाच

एतामपि निषादीं त्वं परिगृह्याशु निष्पत।

तूर्णं सम्भावयात्मानमजीर्णं मम तेजसा॥ 1-29-4

सौतिरुवाच

ततः स विप्रो निष्क्रान्तो निषादीसहितस्तदा।

वर्धयित्वा च गरुडमिष्टं देशं जगाम ह॥ 1-29-5

सहभार्ये विनिष्क्रान्ते तस्मिन्विप्रे च पक्षिराट्।

वितत्य पक्षावाकाशमुत्पपात मनोजवः॥ 1-29-6

ततोऽपश्यत्स पितरं पृष्टश्चाख्यातवान्पितुः।

यथान्यायममेयात्मा तं चोवाच महानृषिः॥ 1-29-7

कश्यप उवाच

कच्चिद्वः कुशलं नित्यं भोजने बहुलं सुत।

कच्चिच्च मानुषे लोके तवान्नं विद्यते बहु॥ 1-29-8

गरुड उवाच

माता मे कुशला शश्वत्तथा भ्राता तथा ह्यहम्।

न हि मे कुशलं तात भोजने बहुले सदा॥ 1-29-9

अहं हि सर्पैः प्रहितः सोममाहर्तुमुत्तमम्।

मातुर्दास्यविमोक्षार्थमाहरिष्ये तमद्य वै॥ 1-29-10

मात्रा चात्र समादिष्टो निषादान्भक्षयेति ह।

न च मे तृप्तिरभवद्भक्षयित्वा सहस्रशः॥ 1-29-11

तस्माद्भक्ष्यं त्वमपरं भगवन्प्रदिशस्व मे।

यद्भुक्त्वामृतमाहर्तुं समर्थः स्यामहं प्रभो।

क्षुत्पिपासाविघातार्थं भक्ष्यमाख्यातु मे भवान्॥ 1-29-12

कश्यप उवाच

इदं सरो महापुण्यं देवलोकेऽपि विश्रुतम्।

यत्र कूर्माग्रजं हस्ती सदा कर्षत्यवाङ्मुखः।

तयोर्जन्मान्तरे वैरं सम्प्रवक्ष्याम्यशेषतः॥ 1-29-13

तन्मे तत्त्वं निबोधस्व यत्प्रमाणौ च तावुभौ।

आसीद्विभावसुः नाम महर्षिः कोपनो भृशम्॥ 1-29-14

भ्राता तस्यानुजश्चासीत्सुप्रतीको महातपाः।

स नेच्छति धनं भ्राता सहैकस्थं महामुनिः॥ 1-29-15

विभागं कीर्तयत्येव सुप्रतीको हि नित्यशः।

अथाब्रवीच्च तं भ्राता सुप्रतीकं विभावसुः॥ 1-29-16

विभागं बहवो मोहात्कर्तुमिच्छन्ति नित्यशः।

ततो विभक्तास्त्वन्योन्यं विक्रुध्यन्तेऽर्थमोहिताः॥ 1-29-17

ततः स्वार्थपरान्मूढान्पृथग्भूतान्स्वकैर्धनैः।

विदित्वा भेदयन्त्येतानमित्रा मित्ररूपिणः॥ 1-29-18

विदित्वा चापरे भिन्नानन्तरेषु पतन्त्यथ।

भिन्नानामतुलो नाशः क्षिप्रमेव प्रवर्तते॥ 1-29-19

तस्माद्विभागं भ्रातॄणां न प्रशंसन्ति साधवः।

एवमुक्तः सुप्रतीको भागं कीर्तयतेऽनिशम्।

एवं निर्बध्यमानस्तु शशापैनं विभावसुः।

गुरुशास्त्रे निबद्धानामन्योन्येनाभिशङ्किनाम्॥ 1-29-20

नियन्तुं न हि शक्यस्त्वं भेदतो धनमिच्छसि।

यस्मात्तस्मात्सुप्रतीक हस्तित्वं समवाप्स्यसि॥ 1-29-21

शप्तस्त्वेवं सुप्रतीको विभावसुमथाब्रवीत्।

त्वमप्यन्तर्जलचरः कच्छपः सम्भविष्यसि॥ 1-29-22

एवमन्योन्यशापात्तौ सुप्रतीकविभावसू।

गजकच्छपतां प्राप्तावर्थार्थं मूढचेतसौ॥ 1-29-23

रोषदोषानुषङ्गेण तिर्यग्योनिगतावुभौ।

परस्परद्वेषरतौ प्रमाणबलदर्पितौ॥ 1-29-24

सरस्यस्मिन्महाकायौ पूर्ववैरानुसारिणौ।

तयोरन्यतरः श्रीमान्समुपैति महागजः॥ 1-29-25

यस्य बृंहितशब्देन कूर्मोऽप्यन्तर्जलेशयः।

उत्थितोऽसौ महाकायः कृत्स्नं विक्षोभयन्सरः॥ 1-29-26

यं दृष्ट्वा वेष्टितकरः पतत्येष गजो जलम्।

दन्तहस्ताग्रलाङ्गूलपादवेगेन वीर्यवान्॥ 1-29-27

विक्षोभयंस्ततो नागः सरो बहुझषाकुलम्।

कूर्मोऽप्यभ्युद्यतशिरा युद्धायाभ्येति वीर्यवान्॥ 1-29-28

षडुच्छ्रितो योजनानि गजस्तद्द्विगुणायतः।

कूर्मस्त्रियोजनोत्सेधो दशयोजनमण्डलः॥ 1-29-29

तावुभौ युद्धसम्मत्तौ परस्परवधैषिणौ।

उपयुज्याशु कर्मेदं साधयेप्सितमात्मनः॥ 1-29-30

महाभ्रघनसंकाशं तं भुक्त्वामृतमानय।

महागिरिसमप्रख्यं घोररूपं च हस्तिनम्॥ 1-29-31

सौतिरुवाच

इत्युक्त्वा गरुडं सोऽथ माङ्गल्यमकरोत्तदा।

युध्यतः सह देवैस्ते युद्धे भवतु मङ्गलम्॥ 1-29-32

पूर्णकुम्भो द्विजा गावो यच्चान्यत्किञ्चिदुत्तमम्।

शुभं स्वस्त्ययनं चापि भविष्यति तवाण्डज॥ 1-29-33

युध्यमानस्य संग्रामे देवैः सार्धं महाबल।

ऋचो यजूंषि सामानि पवित्राणि हवींषि च॥ 1-29-34

रहस्यानि च सर्वाणि सर्वे वेदाश्च ते बलम्।

इत्युक्तो गरुडः पित्रा गतस्तं ह्रदमन्तिकात्॥ 1-29-35

अपश्यन्निर्मलजलं नानापक्षिसमाकुलम्।

स तत्स्मृत्वा पितुर्वाक्यं भीमवेगोऽन्तरिक्षगः॥ 1-29-36

नखेन गजमेकेन कूर्ममेकेन चाक्षिपत्।

समुत्पपात चाकाशं तत उच्चैर्विहङ्गमः॥ 1-29-37

सः अलम्बं तीर्थमासाद्य देववृक्षानुपागमत्।

ते भीताः समकम्पन्त तस्य पक्षानिलाहताः॥ 1-29-38

न नो भञ्ज्यादिति तदा दिव्याः कनकशाखिनः।

प्रचलाङ्गान्स तान्दृष्ट्वा मनोरथफलद्रुमान्॥ 1-29-39

अन्यानतुलरूपाङ्गानुपचक्राम खेचरः।

काञ्चनै राजतैश्चैव फलैर्वैदूर्यशाखिनः॥ 1-29-40

सागराम्बुपरिक्षिप्तान्भ्राजमानान्महाद्रुमान्।

तमुवाच खगश्रेष्ठं तत्र रौहिणपादपः।

अतिप्रवृद्धः सुमहानापतन्तं मनोजवम्॥ 1-29-41

रौहिण उवाच

यैषा मम महाशाखा शतयोजनमायता।

एतामास्थाय शाखां त्वं खादेमौ गजकच्छपौ॥ 1-29-42

ततो द्रुमं पतगसहस्रसेवितं महीधरप्रतिमवपुः प्रकम्पयन्।

खगोत्तमो द्रुतमभिपत्य वेगवान्बभञ्ज तामविरलपत्रसंचयाम्॥ 1-29-43

इति श्रीमहाभारते आदिपर्वणि आस्तीकपर्वणि सौपर्णे एकोनत्रिंशोऽध्यायः॥ 29 ॥