Adiparva Adhyaya 15 (आदिपर्वणि अध्यायः १५)

From Dharmawiki
Revision as of 20:15, 11 August 2019 by Pṛthvī (talk | contribs) (Created page with "सौतिरुवाच मात्रा हि भुजगाः शप्ताः पूर्वं ब्रह्मविदां वर। जनमेजय...")
(diff) ← Older revision | Latest revision (diff) | Newer revision → (diff)
Jump to navigation Jump to search

सौतिरुवाच

मात्रा हि भुजगाः शप्ताः पूर्वं ब्रह्मविदां वर।

जनमेजयस्य वो यज्ञे धक्ष्यत्यनिलसारथिः॥ 1-15-1

तस्य शापस्य शान्त्यर्थं प्रददौ पन्नगोत्तमः।

स्वसारमृषये तस्मै सुव्रताय महात्मने॥ 1-15-2

स च तां प्रतिजग्राह विधिदृष्टेन कर्मणा।

आस्तीको नाम पुत्रश्च तस्यां जज्ञे महामनाः॥ 1-15-3

तपस्वी च महात्मा च वेदवेदाङ्गपारगः।

समः सर्वस्य लोकस्य पितृमातृभयापहः॥ 1-15-4

अथ दीर्घस्य कालस्य पाण्डवेयो नराधिपः।

आजहार महायज्ञं सर्पसत्रमिति श्रुतिः॥ 1-15-5

तस्मिन्प्रवृत्ते सत्रे तु सर्पाणामन्तकाय वै।

मोचयामास तान्नागानास्तीकः सुमहातपाः॥ 1-15-6

भ्रातॄंश्च मातुलांश्चैव तथैवान्यान्स पन्नगान्।

पितॄंश्च तारयामास संतत्या तपसा तथा॥ 1-15-7

व्रतैश्च विविधैर्ब्रह्मन्स्वाध्यायैश्चानृणोऽभवत्।

देवांश्च तर्पयामास यज्ञैर्विविधदक्षिणैः॥ 1-15-8

ऋषींश्च ब्रह्मचर्येण संतत्या च पितामहान्।

अपहृत्य गुरुं भारं पितॄणां संशितव्रतः॥ 1-15-9

जरत्कारुर्गतः स्वर्गं सहितः स्वैः पितामहैः।

आस्तीकं च सुतं प्राप्य धर्मं चानुत्तमं मुनिः॥ 1-15-10

जरत्कारुः सुमहता कालेन स्वर्गमेयिवान्।

एतदाख्यानमास्तीकं यथावत्कथितं मया।

प्रब्रूहि भृगुशार्दूल किमन्यत्कथयामि ते॥ 1-15-11

इति श्रीमहाभारते आदिपर्वणि आस्तीकपर्वणि सर्पाणां मातृशापप्रस्तावे पञ्चदशोऽध्यायः॥ 15 ॥