Changes

Jump to navigation Jump to search
Created page with "वैशम्पायन उवाच पाण्डवान्धार्तराष्ट्रांश्च कृतास्त्रान्प्रसमी..."
वैशम्पायन उवाच

पाण्डवान्धार्तराष्ट्रांश्च कृतास्त्रान्प्रसमीक्ष्य सः।

गुर्वर्थं दक्षिणाकाले प्राप्तेऽमन्यत वै गुरुः॥ 1-137-1

ततः शिष्यान्समानीय ह्या[आ]चार्योऽर्थमचोदयत्।

अस्त्रशिक्षामनुज्ञातान्गङ्गाद्वारमुपागतान्॥

भारद्वाजस्ततस्तांस्तु सर्वानेवाभ्यभाषत॥

इच्छामि दत्तां सहितैर्मह्यं परमदक्षिणाम्॥

एवमुक्तास्ततस्ते वै शिष्या द्रोणमुपागमन्।

भगवन्किं प्रयच्छाम आज्ञापयतु नो गुरुः॥

ततश्शिष्यान्समाहूय आचार्यस्समचोदयत्।

द्रोणः सर्वानशेषेण दक्षिणार्थं महीपते॥ 1-137-2

पञ्चालराजं द्रुपदं गृहीत्वा रणमूर्धनि।

पा[प]र्यानयत भद्रं वः सा स्यात्परमदक्षिणा॥ 1-137-3

तथेत्युक्त्वा तु ते सर्वे रथैस्तूर्णं प्रहारिणः।

आचार्यधनदानार्थं द्रोणेन सहिता ययुः॥ 1-137-4

ततोऽभिजग्मुः पञ्चालान्निघ्नन्तस्ते नरर्षभाः।

ममृदुस्तस्य नगरं द्रुपदस्य महौजसः॥ 1-137-5

दुर्योधनश्च कर्णश्च युयुत्सुश्च महाबलः।

दुःशासनो विकर्णश्च जलसन्धः सुलोचनः॥ 1-137-6

एते चान्ये च बहवः कुमारा बहुविक्रमाः।

अहं पूर्वमहं पूर्वमित्येवं क्षत्रियर्षभाः॥ 1-137-7

ततो वररथारूढाः कुमाराः सादिभिः सह।

प्रविश्य नगरं सर्वे राजमार्गमुपाययुः॥ 1-137-8

तस्मिन्काले तु पाञ्चाल्यः[लः] श्रुत्वा दृष्ट्वा महद्बलम्।

भ्रातृभिः सहितो राजंस्त्वरया निर्ययौ गृहात्॥ 1-137-9

ततस्तु कृतसन्नाह्यो[हा] यज्ञसेनो[न] महीधरः[सहोदराः]।

शरवर्षाणि मुञ्चन्तः प्रणेदुः सर्व एव ते॥ 1-137-10

ततो रथेन शुभ्रेण समासाद्य तु कौरवान्।

यज्ञसेनः शरान्घोरान्ववर्ष युधि दुर्जयः॥ 1-137-11

वैशम्पायन उवाच

पूर्वमेव तु सम्मन्त्र्य पार्थो द्रोणमथाब्रवीत्।

दर्पोद्रेकात्कुमाराणामाचार्यं द्विजसत्तमम्॥ 1-137-12

एषां पराक्रमस्यान्ते वयं कुर्याम साहसम्।

एतैरशक्यः पाञ्चाल्योलो ग्रहीतुं रणमूर्धनि॥ 1-137-13

एवमुक्त्वा तु कौन्तेयो भ्रातृभिः सहितोऽनघः।

अर्धक्रोशे तु नगरादतिष्ठद्बहिरेव सः॥ 1-137-14

द्रुपदः कौरवान्दृष्ट्वा प्राधावत समन्ततः।

शरजालेन महता मोहयन्कौरवीं चमूम्॥ 1-137-15

तमुद्यतं रथेनैकमाशुकारिणमाहवे।

अनेकमिव सन्त्रासान्मेनिरे तत्र कौरवाः॥ 1-137-16

द्रुपदस्य शरा घोरा विचेरुः सर्वतो दिशम्।

ततः शङ्खाश्च भेर्यश्च मृदङ्गाश्च सहस्रशः॥ 1-137-17

प्रावाद्यन्त महाराज पाञ्चालानां निवेशने।

सिंहनादश्च सञ्जज्ञे पाञ्चालानां महात्मनाम्॥ 1-137-18

धनुर्ज्यातलशब्दश्च संस्पृश्य गगनं महान्।

दुर्योधनो विकर्णश्च सुबाहुर्दीर्घलोचनः॥ 1-137-19

दुःशासनश्च सङ्क्रुद्धः शरवर्षैरवाकिरन्।

सोऽतिविद्धो महेष्वासः पार्षतो युधि दुर्जयः॥ 1-137-20

व्यधमत्तान्यनीकानि तत्क्षणादेव भारत।

दुर्योधनं विकर्णं च कर्णं चापि महाबलम्॥ 1-137-21

नानानृपसुतान्वीरान्सैन्यानि विविधानि च।

अलातचक्रवत्सर्वं चरन्बाणैरतर्पयत्॥ 1-137-22

(दुःशासनं च दशभिर्विकर्णं विँशकैः शरैः।

शकुनिं विंशकैस्तीक्ष्णैर्दशभिर्मर्मभेदिभिः॥

कर्णदुर्योधनौ चोभौ शरैः सर्वाङ्गसन्धिषु।

अष्टाविंशतिभिः सर्वैः पृथक्पृथगरिन्दमः॥

सुबाहुं पञ्चभिर्विद्ध्वा तथान्यान्विविधैः शरैः।

विव्याध सहसा भूयो ननाद बलवत्तरम्॥

विनद्य कोपात्पाञ्चालः सर्वशस्त्रभृतां वरः।

धनूंषि रथयन्त्रं च हयांश्चित्रध्वजानपि॥

चकर्त सर्वपाञ्चालाः प्रणेदुः सिंहसङ्घवत्।)

ततस्तु नागराः सर्वे मुसलैर्यष्टिभिस्तदा।

अभ्यवर्षन्त कौरव्यान्वर्षमाणा घना इव॥ 1-137-23

सबालवृद्धास्ते पौराः कौरवानभ्ययुस्तदा।

श्रुत्वा तु[सु]तुमुलं युद्धं कौरवानेव भारत॥ 1-137-24

द्रवन्ति स्म नदन्ति स्म क्रोशन्तःपाण्डवान्प्रति।

(पाञ्चालशरभिन्नाङ्गो भयमासाद्य वै वृषः।

कर्णो रथादवप्लुत्य पलायनपरोऽभवत्॥)

पाण्डवास्तु स्वनं श्रुत्वा आर्तानां लोमहर्षणम्॥ 1-137-25

अभिवाद्य ततो द्रोणं रथानारुरुहुस्तदा।

युधिष्ठिरं निवार्याशु मा युध्यस्वेति पाण्डवम्॥ 1-137-26

माद्रेयौ चक्ररक्षौ तु फाल्गुनश्च तदाकरोत्।

सेनाग्रगो भीमसेनः सदाभूद्गदया सह॥ 1-137-27

तदा शत्रुस्वनं श्रुत्वा भ्रातृभिः सहितोऽनघः।

आ[अ]याज्जवेन कौन्तेयो रथेनानादयन्दिशः॥ 1-137-28

पाञ्चालानां ततः सेनामुद्ध[द्धू]तार्णवनिःस्वनाम्।

भीमसेनो महाबाहुर्दण्डपाणिरिवान्तकः॥ 1-137-29

प्रविवेश महासेनां मकरः सागरं यथा।

स्वयमभ्यद्रवद्भीमो नागानीकं गदाधरः॥ 1-137-30

स युद्धकुशलः पार्थो बाहुवीर्येण चातुलः।

अहनत्कुञ्जरानीकं गदया कालरूपभृ[धृ]त्॥ 1-137-31

ते गजा गिरिसङ्काशाः क्षरन्तो रुधिरं बहु।

भीमसेनस्य गदया भिन्नमस्तकपिण्डकाः॥ 1-137-32

पतन्ति द्विरदा भूमौ वज्रघातादिवाचलाः।

गजानश्वान्रथांश्चैव पातयामास पाण्डवः॥ 1-137-33

पदातींश्च रथांश्चैव न्यवधीदर्जुनाग्रजः।

गोपाल इव दण्डेन यथा पशुगणान्वने।

चालयन्रथनागांश्च सञ्चचाल वृकोदरः॥ 1-137-34

वैशम्पायन उवाच

भारद्वाजप्रियं कर्तुमुद्यतः फाल्गुनस्तदा।

पार्षतं शरजालेन क्षिपन्नागात्स पाण्डवः।

हयौघांश्च रथौघांश्च गजौघांश्च समन्ततः॥ 1-137-35

पातयन्समरे राजन्युगान्ताग्निरिव ज्वलन्।

ततस्ते हन्यमाना वै पाञ्चालाः सृञ्जयास्तथा॥ 1-137-36

शरैर्नानाविधैस्तूर्णं पार्थं सञ्छाद्य सर्वशः।

सिंहनादं मुखैः कृत्वा समयुध्यन्त पाण्डवम्॥ 1-137-37

तद्युद्धमभवद्घोरं सुमहाद्भुतदर्शनम्।

सिंहनादस्वनं श्रुत्वा नामृष्यत्पाकशासनिः॥ 1-137-38

ततः किरीटी सहसा पाञ्चालान्समरेऽद्रवत्।

छादयन्निषुजालेन महता मोहयन्निव ॥ 1-137-39

शीघ्रमभ्यस्यतो बाणान्सन्दधानस्य चानिशम्।

नान्तरं ददृशे किञ्चित्कौन्तेयस्य यशस्विनः॥ 1-137-40

(न दिशो नान्तरिक्षं च तदा नैव च मेदिनी।

अदृश्यत महाराज तत्र किञ्चन संयुगे॥

बाणान्धकारे बलिना कृते गाण्डीवधन्वना।)

पाञ्चालानां कुरूणां च साधु सीध्विति निस्वनः॥

तत्र तूर्यनिनादश्च शङ्खानां च महाखनः।

सिंहनादश्च सञ्जज्ञे साधुशब्देन मिश्रितः।

ततः पञ्चालराजस्तु तथा सत्यजिता सह॥ 1-137-41

त्वरमाणोऽभिदुद्राव महेन्द्रं शम्बरो यथा।

महता शरवर्षेण पार्थः पाञ्चालमावृणोत्॥ 1-137-42

ततो हलहलाशब्द आसीत्पाञ्चालके बले।

जिघृक्षति महासिंहो गजानामिव यूथपम्॥ 1-137-43

दृष्ट्वा पार्थं तदाऽऽयान्तं सत्यजित् सत्यविक्रमः।

पाञ्चालं वै परिप्रेप्सुर्धनञ्जयमुपाद्रवत्॥ 1-137-44

ततस्त्वर्जुनपाञ्चालौ युद्धाय समुपागतौ।

व्यक्षोभयेतां तौ सैन्यमिन्द्रवैरोचनाविव॥ 1-137-45

ततः सत्यजितं पार्थो दशभिर्मर्मभेदिभिः।

विव्याध बलवद्गाढं तदद्भुतमिवाभवत्॥ 1-137-46

ततः शरशतैः पार्थं पाञ्चालः शीघ्रमार्दयत्।

पार्थस्तु शरवर्षेण छाद्यमानो महारथः॥ 1-137-47

वेगं चक्रे महावेगो धनुर्ज्यामवमृज्य च।

ततः सत्यजितश्चापं छित्त्वा राजानमभ्ययात्॥ 1-137-48

अथान्यद्धनुरादाय सत्यजिद्वेगवत्तरम्।

साश्वं ससूतं सरथं पार्थं विव्याध सत्वरः॥ 1-137-49

स तं न ममृषे पार्थः पाञ्चालेनार्दितो युधि।

ततस्तस्य विनाशार्थं सत्वरं व्यसृजच्छरान्॥ 1-137-50

हयान्ध्वजं धनुर्मुष्टिमुभौ तौ पार्ष्णिसारथी।

स तथा भिद्यमानेषु कार्मुकेषु पुनः पुनः॥ 1-137-51

हयेषु विनियुक्तेषु विमुखोऽभवदाहवे।

स सत्यजितमालोक्य तथा विमुखमाहवे॥ 1-137-52

वेगेन महता राजन्नभ्यवर्षत पाण्डवम्।

तदा चक्रे महद्युद्धमर्जुनो जयतां वरः॥ 1-137-53

तस्य पार्थो धनुश्छित्त्वा ध्वजं चोर्व्यामपातयत्।

पञ्चभिस्तस्य विव्याध हयान्सूतं च सायकैः॥ 1-137-54

तत उत्सृज्य तच्चापमाददानं शरावरम्।

खड्गमुद्धृत्य कौन्तेयः सिंहनादमथाकरोत्॥ 1-137-55

पाञ्चालस्य रथस्येषामाप्लुत्य सहसापतत्।

पाञ्चालरथमास्थाय ह्य[अ]वित्रस्तो धनञ्जयः॥ 1-137-56

विक्षोभ्याम्भोनिधिं पार्थस्तं नागमिव सोऽग्रहीत्।

ततस्तु सर्वपाञ्चाला विद्रवन्ति दिशो दश॥ 1-137-57

दर्शयन्सर्वसैन्यानां स बाह्वोर्बलमात्मनः।

सिंहनादस्वनं कृत्वा निर्जगाम धनञ्जयः॥ 1-137-58

आयान्तमर्जुनं दृष्ट्वा कुमाराः सहितास्तदा।

ममृदुस्तस्य नगरं द्रुपदस्य महात्मनः॥ 1-137-59

अर्जुन उवाच

सम्बन्धी कुरुवीराणां द्रुपदो राजसत्तमः।

मा वधीस्तद्बलं भीम गुरुदानं प्रदीयताम्॥ 1-137-60

वैशम्पायन उवाच

भीमसेनस्तदा राजन्नर्जुनेन निवारितः।

अतृप्तो युद्धधर्मेषु न्यवर्तत महाबलः॥ 1-137-61

ते यज्ञसेनं द्रुपदं गृहीत्वा रणमूर्धनि।

उपाजह्रुः सहामात्यं द्रोणाय भरतर्षभ॥ 1-137-62

भग्नदर्पं हृतधनं तं तथा वशमागतम्।

स वैरं मनसा ध्यात्वा द्रोणो द्रुपदमब्रवीत्॥ 1-137-63

विमृद्य तरसा राष्ट्रं पुरं ते मृदितं मया।

प्राप्य जीवं रिपुवशं सखिपूर्वं किमिष्यते॥ 1-137-64

एवमुक्त्वा प्रहस्यैवं[नं] किञ्चित्स पुनरब्रवीत्।

मा भैः प्राणभयाद्वीर क्षमिणो ब्राह्मणा वयम्॥ 1-137-65

आश्रमे क्रीडितं यत्तु त्वया बाल्ये मया सह।

तेन संवर्द्धितः स्नेहः प्रीतिश्च क्षत्रियर्षभ॥ 1-137-66

प्रार्थयेयं त्वया सख्यं पुनरेव जनाधिप।

वरं ददामि ते राजन्राज्यस्यार्धमवाप्नुहि॥ 1-137-67

अराजा किल नो राज्ञः सखा भवितुमर्हति[सि]।

अतः प्रयतितं राज्ये यज्ञसेन मया तव॥ 1-137-68

राजासि दक्षिणे कूले भागीरथ्याहमुत्तरे।

सखायं मां विजानीहि पाञ्चाल यदि मन्यसे॥ 1-137-69

द्रुपद उवाच

अनाश्चर्यमिदं ब्रह्मन्विक्रान्तेषु महात्मसु।

प्रीये त्वयाहं त्वत्तश्च प्रीतिमिच्छामि शाश्वतीम्॥ 1-137-70

वैशम्पायन उवाच

एवमुक्तः स तं द्रोणो मोच[क्ष]यामास भारत।

सत्कृत्य चैनं प्रीतात्मा राज्यार्धं प्रत्यपादयत्॥ 1-137-71

माकन्दीम् अथ गङ्गायास्तीरे जनपदायुताम्।

सोऽध्यावसद्दीनमनाः काम्पिल्यं च पुरोत्तमम्॥ 1-137-72

दक्षिणांश्चापि पञ्चालान्यावत्चर्मण्वती नदी।

द्रोणेन चैवं द्रुपदः परिभूयाथ पालितः॥ 1-137-73

क्षात्रेण च बलेनास्य नापश्यत्स पराजयम्।

हीनं विदित्वा चात्मानं ब्राह्मेण स बलेन तु॥ 1-137-74

पुत्रजन्म परीप्सन्वै पृथिवीमन्वसञ्चरत्।

अहिच्छत्रं च विषयं द्रोणः समभिपद्यत॥ 1-137-75

एवं राजन्नहिच्छत्रा पुरी जनपदायुता।

युधि निर्जित्य पार्थेन द्रोणाय प्रतिपादिता॥ 1-137-76

वैशम्पायनः--

द्रोणेन वैरं द्रुपदो न सुष्वाप स्मरंस्तदा।

क्षात्रेण च बलेनास्य नाऽशशंसे पराजयम्॥

हीनं विदित्वा चात्मानं ब्राह्मणेन बलेन च।

द्रुपदस्त्वमर्षणाद्राजन्कर्मसिद्ध्यै द्विजोत्तमात्॥

अन्विच्छन्परिचक्राम ब्राह्मणावसथान्बहून्॥

नास्ति श्रेष्ठं ममापत्यं धिग्बन्धूनिति च ब्रुवन्॥

निश्वासपरमो ह्यासीद्द्रोणप्रतिचिकीर्षया॥

न सन्ति मम मित्राणि द्रोणेऽस्मिन्नास्ति वीर्यवान्।

पुत्रजन्म परीप्सन्वै पृथिवीमन्वयादिमाम्॥

प्रभावशिक्षाविनयाद्द्रोणस्यास्य बलेन च।

कर्तुं प्रयतमानोऽपि न शशाक पराजयम्॥

अभितस्सोऽथ कल्माषीं गङ्गातीरे परिभ्रमन्।

ब्राह्मणावसथं पुण्यमाससाद महीपतिः॥

तत्र नास्नातकः कश्चिन्न चासीदव्रती द्विजः।

तदैव तौ महाभागौ सोऽपश्यत्संशितव्रतौ॥

याजोपयाजौ ब्रह्मर्षी श्राम्यन्तौ पृषतात्मजः॥

संहिताध्ययने युक्तौ गोत्रतश्चापि काश्यपौ।

अरण्ये युक्तरूपौ तौ ब्राह्मणावृषिसत्तमौ॥

स उपामन्त्रयामास सर्वकामैरतन्द्रितः।

बुद्ध्वा तयोर्बलं बुद्धिं कनीयांसमुपह्वरे॥

प्रपेदे छन्दयन्कामैरुपयाजं धृतव्रतम्॥

गुरुशुश्रूषणे युक्तः प्रियकृत्सर्वकामदः॥

पाद्येनासनदानेन तथाऽर्थ्येण फलैश्च तम्।

अर्चयित्वा यथान्यायमुपयाजोऽब्रवीत्ततः॥

उपयाजः--

केन कार्यविशेषेण त्वमस्मानभिकाङ्क्षसे।

कुतश्चायं समुद्योगस्तद्ब्रवीतु भवानिति॥

वैशंपायनः--

स बुद्ध्वा प्रीतिसंयुक्तमृषीणामुत्तमं तदा।

उवाच छन्दयन्कामैर्द्रुपदस्स तपस्विनम्॥

द्रुपदः--

येन मे कर्मणा ब्रह्मन्पुत्रस्स्याद्द्रोणमृत्यवे।

उपयाज चरस्वैतत्प्रदास्याम्यर्बुदं गवाम्॥

वैशंपायनः--

एवमुक्तस्तु तेनर्षिः प्रत्युवाच पुनश्च तम्॥

उपयाजः--

नाहं फलार्थी द्रुपदं योऽर्थी स्यात्तत्र गम्यताम्॥

वैशम्पायनः--

प्रत्याख्यातस्तु तेनैवं स वै सज्जनसंनिधौ।

आराधयिष्यन्द्रुपदसः स तं पर्यचरत्ततः॥

ततस्संवत्सरस्यान्ते द्रुपदं द्विजसत्तमः।

उपयाजोऽब्रवीद्वाक्यं काले मधुरया गिरा॥

उपयाजः--

ज्येष्ठो भ्राता न मेऽत्याक्षीत्विचिन्वन्वननिर्झरे॥

अपरिज्ञातशौचायां भूमौ निपतितं फलम्।

तदपश्यमहं भ्रातुरसांप्रतमनुव्रजन्॥

विमर्शनं फलादाने नायं कुर्यात्कथं चन।

यो नापश्यत्फलं दृष्ट्वा दोषांस्तस्याऽऽनुबन्धिकान्॥

विविनक्ति न शौचार्थी सोऽन्यत्रापि कथं भवेत्॥

संहिताध्ययनस्यान्ते पञ्चयज्ञान्निरूप्य च।

भैक्षमुञ्छेन संभिन्नं भुञ्जानस्तु तदा ततः॥

कीर्तयत्येव राजर्षे भोजनस्य रसं पुनः॥

संहिताध्ययनं कुर्वन्वने गुरुकुले वसन्।

भैक्षमुच्छिष्टमन्येषां भुङ्क्ते स्म सततं तदा॥

कीर्तयन्गुणमन्नानामथ प्रीतो मुहुर्मुहुः॥

एवं फलार्थिनस्तस्मान्मन्येऽहं तर्कचक्षुषा॥

तं वै गच्छेह नृपते स त्वां संयाजयिष्यति॥

वैशम्पायनः--

जुगुप्समानो नृपतिः फलानां कलुषां गतिम्।

उपयाजवचश्श्रुत्वा द्रुपदस्सर्वधर्मवित्॥

भृशं संपूज्य पूजार्हमृषिं याजमुवाच ह॥

द्रुपदः--

गोऽयुतानि ददाम्यष्टौ याज याजय मां विभो।

द्रोणवैरान्तरे तप्तं विषण्णं शरणागतम्॥

ब्रह्मबन्धुप्रणिहितं न क्षत्रं क्षत्रियो जयेत्।

तस्माद्द्रोणभयार्तं मां भवांस्त्रातुमिहार्हति॥

भारद्वाजाग्निना दग्धं संह्लादयितुमर्हसि।

स हि ब्रह्मविदां श्रेष्ठशः शस्त्रास्त्रेष्वसमो भुवि॥

ततो द्रोणस्तस्थाऽजैषीत्स हि विग्रहकारणात्।

क्षत्रियो नास्ति तुल्योऽस्य पृथिव्यां कश्चिदर्हणः॥

भारताचार्यमुख्यस्य भारद्वाजस्य धीमतः।

द्रोणस्य शरजालानि रिपुदेहहराणि च॥

षडरत्नि धनुश्चास्य खड्गमप्रतिमं महत्।

स हि ब्राह्मणवेगेन क्षत्रवेगमसंशयम्॥

प्रतिहत्य चरत्येव भारद्वाजो महामनाः॥

कार्तवीर्यसमो ह्येष खट्वाङ्गप्रतिमोऽपि वा॥

क्षत्रोच्छेदपरायत्तं जामदग्न्यमिवोद्यतम्।

सहितं क्षत्रवेगेन ब्राह्मवेगेन सांप्रतम्॥

उपपन्नं हि मन्येऽहं भारद्वाजं यशस्विनम्॥

नेषवस्तं पराभूवन्न च प्रासा न चासयः।

ब्राह्मं तस्य हरेत्तेजो मन्त्राहुतिहुतं यथा॥

तस्य ह्यस्त्रबलं घोरमप्रसह्यं परैर्भुवि।

शत्रून्समेत्य जयति क्षत्रं ब्रह्मपुरस्कृतम्॥

ब्रह्मक्षत्रे च सहिते ब्रह्मतेजो विशिष्यते॥

सोऽहं क्षत्रबलाद्दीनो ब्रह्मतेजः प्रपेदिवान्॥

द्रोणाद्विशिष्टमासाद्य भवन्तं वेदवित्तमम्।

द्रोणान्तकमहं पुत्रं लभेयं युधि दुर्जयम्॥

द्रोणमृत्युर्यथा मेऽद्य पुत्रो जायेत वीर्यवान्।

तत्कर्म कुरु मे याज्ञ निर्वपाम्यर्बुदं गवाम्॥

वैशंपायनः--

तथेत्युक्त्वा तु तं याजो याज्थार्थ वाक्यमब्रवीत्॥

याजः--

मा भैस्त्वं संप्रदातास्मि कर्मणा भवतस्सुतम्।

क्षिप्रमुत्तिष्ठ चाव्यग्रसः संभारांश्चोपकल्पय॥

वैशम्पायनः--

एवमुक्त्वा प्रतिज्ञाय कर्म चास्याददे मुनिः॥

ब्राह्मणो द्विपदां श्रेष्ठो यथाविधि यथाक्रमम्॥

याजो द्रोणविनाशाय याजयामास तं नृपम्॥

गुर्वर्थं याजयत्कर्म याजस्यापि समीपगः॥

ततस्तस्य नरेन्द्रस्य उपयाजो महातपाः।

आचख्यौ कर्म वैतानं तदा पुत्रफलाय वै॥

उपयाजः--

इह पुत्रो महावीर्यो महातेजा महाबलः।

इष्यते यद्विधो राजन्भविता स तथाविधः॥

वैशम्पायनः--

भारद्वाजस्य हन्तारं सोऽभिसन्धाय भूमिपः।

आजह्रेऽयं तथा यज्ञं द्रुपदः कर्मसिद्धये॥

ब्राह्मणो द्विपदां श्रेष्ठो जुहाव च यथाविधि।

कौकिलीं नाम तां तस्य चक्रे वै पुत्रगर्धिनः॥

सौत्रामणी तं तु पत्नी ततः कालेऽभ्ययात्तदा।

याजस्तु सवनस्यान्ते देवीमाह्वापयत्तदा॥

याजः--

प्रैहि मां राज्ञि पृषति मिथुनं त्वामुपस्थितम्।

कुमारश्च कुमारी च पितृवंशविवृद्धये॥

पृषती--

नालिप्तं वै मम मुखं पुण्यान्गन्धान्बिभर्मि च।

न पत्नी तेऽस्मि सूत्यर्थ तिष्ठ याज मम प्रिये॥

याजः--

याजेनाश्रपितं हव्यमुपयाजेन मन्त्रितम्।

कथं कामं न संदध्यात्पृषति प्रैहि तिष्ठ वा॥

वैशम्पायनः--

एवमुक्ते तु याजेन हुते हविषि संस्कृते।

उत्तस्थौ पावकात्तस्मात्कुमारो देवसंमितः॥

ज्वालावर्णो घोरवर्णः किरीटी वर्म धारयन्।

वीरस्सखड्गस्सशरो धनुष्मान्विनदन्मुहुः॥

सोऽध्यारोहद्रथवरं तेन च प्रययौ तदा॥

जातमात्रे कुमारे च वाक्किलान्तर्हिताऽब्रवीत्॥

एष शिष्यश्च भृत्युश्च भारद्वाजस्य धीमतः।

भयापहो राजपुत्रः पाञ्चालानां यशस्करः॥

राज्ञश्शोकापहो जात एष द्रोणवधाय हि॥

इत्यवोचन्महद्भूतमदृश्यं खेचरं तदा॥

द्वितीयायां च होत्रायां हुते हविषि मन्त्रतः।

कुमारी चापि पाञ्चाली वेदिमध्यात्समुत्थिता॥

प्रत्याख्याते पृषत्या च याजके भरतर्षभ।

पुनः कुमारी पाञ्चाली सुभगा वेदिमव्यगा॥

अन्तर्वेद्यां समुद्भूता कन्या सा सुमनोहरा॥

श्यामा पद्मपलाशाक्षी नीलकुञ्चितमूर्धजा।

मानुषं विग्रहं कुत्वा साक्षादमरवर्णिनी॥

नीलोत्पलसमो गन्धो यस्याः केशात्प्रवायति॥

या बिभर्ति परं रूपं यस्या नास्त्युपमा भुवि।

देवदानवयक्षाणामीप्सिता देववर्णिनी॥

तां सुजातां गुरुश्रोणीं वागुवाचाशरीरिणी॥

सर्वयोषिद्वरा कृष्णा क्षयं क्षत्रं निनीषति॥

सुरकार्यामियं काले करिष्यति सुमध्यमा॥

अस्या हेतोः क्षत्रियाणां महदुत्पत्स्गते भयम्॥

तच्छ्रुत्वा सर्वपाञ्चालाः प्रणेदुस्सिंहसङ्घवत्।

न चैनान्हर्षसंपूर्णानियं सेहे वसुन्धरा॥

तथा तु मिथुनं जज्ञे द्रुपदस्य महात्मनः।

कुमारश्च कुमारी च मनोज्ञौ च नरर्षभ॥

श्रिया परमया युक्ता क्षात्रेण वपुषा तथा।

तौ दृष्ट्वा पृषती याजं प्रपेदे सा सुतार्थिनी॥

न मां विनाऽन्यां जननीं जानीयेतामिमाविति।

तथेत्युवाच तां याजो राज्ञः प्रियचिकीर्षया॥

तयोस्तु नामनी चक्रुर्द्विजास्संपूर्णमानसाः॥

धृष्टत्वादप्रधृष्यत्वात्सर्वमन्यद्भवेदपि।

धृष्टद्युम्नः कुमारोऽयं द्रुपदस्य भवत्विति॥

कृष्णेत्येवाभवत्कृष्णा राजन्नेषा च पार्षती।

तथा तन्मिधुनं जज्ञे द्रुपदस्य महामखे॥

वैदिकाध्ययने पारं धृष्टद्युम्नो गतस्ततः॥

धृष्टद्युम्नं तु पाञ्चाल्यमानीय द्रुपदात्मजम्।

उपाकरोदस्त्रहेतोर्भारद्वाजः प्रतापवान्॥

अमोक्षणीयं दैवं हि एवं मत्वा महामतिः।

यथावत्कृतवान्द्रोण आत्मकीर्त्यर्थरक्षणात्॥

सर्वास्त्राणि स तु क्षिप्रमाप्तवान्दृष्टमात्रया॥

द्रुपदोत्पत्तिः॥

जनमेजयः--

द्रुपदस्यापि विप्रर्षे श्रोतुमिच्छामि संभवम्।

कथं चापि समुत्पन्नः कथमस्त्राण्यवाप्तवान्॥

एतदिच्छामि भगवंस्त्वत्तश्श्रोतुं द्विजोत्तम।

कौतूहलं जन्मसु मे कथ्यमानेष्वतीव हि॥

वैशम्पायनः--

राजा बभूव पाञ्चालः पुत्रार्थी पुत्रकारणात्।

वनं गतो महाराज तपस्तेपे सुदारुणम्॥

आराधयन्प्रयत्नेन तस्यापत्यस्य कारणात्॥

तस्य सुमहान्राजन्प्रत्यगात्सुतकारणात्॥

स तु राजा महावीरस्तपस्वीव्रं समाददे।

कंचित्कालं वायुभक्षो निराहारस्तथैव च॥

तस्य त्वेवं महाबाहोर्वर्तमानस्य भारत।

कालस्तत्र महाराज व्यत्ययान्नृपसत्तम॥

ततो नातिचिरात्काले वसन्ते कामदीपने।

फुल्लाशोकवने चैव प्राणिनां सुमनोरमे॥

नद्यास्तीरमथो गत्वा गङ्गायाः पद्मलोचनः।

नियमस्थश्च राजाऽऽसीत्तथा भरतसत्तम॥

ततो नातिचिरात्कालाद्वनं तन्मनुजेश्वर।

संप्राप्ता सहसा राजन्मेनकेति परिश्रुता॥

नद्यास्तीरे चरन्ती वै क्रीडन्ती च पुनः पुनः।

पुष्पद्रुमान्प्रभञ्जन्ती राज्ञो दर्शनमागमत्॥

न ददर्श तु सा राजंस्तत्र स्थानगतं नृपम्।

दृष्ट्वा चाप्सरसं तां तु शुक्रं राज्ञोऽपतद्भुवि॥

तच्च राजा तु राजेन्द्र लज्जया नृपतिस्स्वयम्।

पद्भ्यामाक्रमतायुष्मंस्ततस्तु द्रुपदोऽभवत्॥

ततस्तु तपसा तस्य राजर्षेर्भावितात्मनः।

पुत्रस्समभवच्चार्द्गात्पादात्तस्यान्तरेण तु॥

ते तस्य ऋषयस्सर्वे समागम्य तपोधनाः।

नाम चक्रुर्हि विद्वांसो द्रुपदोऽस्त्विति भूमिप।

स तस्यैवाश्रमे राजन्भरद्वाजस्य भारत।

ववृधे च सुखं तत्र कामैस्सर्वैर्नृपोत्तम॥

पाञ्चालोऽपि हि राजेन्द्र स्वराज्यं गतवान्प्रभुः।

भरद्वाजस्य शिष्यार्थं सुतं दत्वा महात्मनः॥

स कुमारस्ततो राजन्द्रोणेन सहितो वने।

वेदांश्चाधिजगे सङ्गान्धनुर्वेदांश्च भारत॥

परया स मुदा युक्तो विचचरि वने सुखम्॥

तस्यैवं वर्तमानस्य वने वनचरैस्सह।

कालाब्रातिचिराद्राजन्पिता स्वर्गमुपेयिवान्॥

स समागम्य पाञ्चालैः पाञ्चालेष्वभिषेचितः।

प्राप्तश्च राज्यं राजेन्द्र सुहृदां प्रीतिवर्धनः॥

राज्यं ररक्ष धर्मेण यथा चेन्द्रस्त्रिविष्टपम्॥

एतन्मया ते राजेन्द्र यथावत्परिकीर्तितम्।

द्रु पदस्य जन्म राजर्षेर्धृष्टद्युम्नस्य चैव हि॥

इति श्रीमहाभारते आदिपर्वणि सम्भवपर्वणि द्रुपदशासने सप्तत्रिंशदधिकशततमोऽध्यायः॥ 137॥

Navigation menu