Difference between revisions of "Adiparva Adhyaya 132 (आदिपर्वणि अध्यायः १३२)"

From Dharmawiki
Jump to navigation Jump to search
(Created page with "वैशम्पायन उवाच ततो धनञ्जयं द्रोणः स्मयमानोऽभ्यभाषत। त्वयेदानी...")
(No difference)

Revision as of 17:27, 28 July 2019

वैशम्पायन उवाच

ततो धनञ्जयं द्रोणः स्मयमानोऽभ्यभाषत।

त्वयेदानीं प्रहर्तव्यमेतल्लक्ष्यं विलोक्यताम्॥ 1-132-1

मद्वाक्यसमकालं ते मोक्तव्योऽत्र भवेच्छि[च्छ]रः।

वितत्य कार्मुकं पुत्र तिष्ठ तावन्मुहूर्तकम्॥ 1-132-2

एवमुक्तः सव्यसाची मण्डलीकृतकार्मुकः।

तस्थौ भासं समुद्दिश्य गुरुवाक्यप्रचोदितः॥ 1-132-3

मुहूर्तादिव तं द्रोणस्तथैव समभाषत।

पश्यस्येनं स्थितं भासं द्रुमं मामपि चार्जुन॥ 1-132-4

पश्याम्येकं भासमिति द्रोणं पार्थोऽभ्यभाषत।

न तु वृक्षं भवन्तं वा पश्यामीति च भारत॥ 1-132-5

ततः प्रीतमना द्रोणो मुहूर्तादिव तं पुनः।

प्रत्यभाषत दुर्धर्षः पाण्डवानां महारथम्॥ 1-132-6

भासं पश्यसि यद्येनं तथा ब्रूहि पुनर्वचः।

शिरः पश्यामि भासस्य न गात्रमिति सोऽब्रवीत्॥ 1-132-7

अर्जुनेनैवमुक्तस्तु द्रोणो हृष्टतनूरुहः।

मुञ्चस्वेत्यब्रवीत्पार्थं स मुमोचाविचारयन्॥ 1-132-8

ततस्तस्य नगस्थस्य क्षुरेण निशितेन च।

शिर उत्कृत्य तरसा पातयामास पाण्डवः॥ 1-132-9

तस्मिन्कर्मणि संसिद्धे पर्यष्वजत पाण्डवम्।

मेने च द्रुपदं सङ्ख्ये सानुबन्धं पराजितम्॥ 1-132-10

कस्यचित्त्वथ कालस्य सशिष्योऽङ्गिरसां वरः।

जगाम गङ्गामभितो मज्जितुं भरतर्षभ॥ 1-132-11

अवगाढमथो द्रोणं सलिले सलिलेचरः।

ग्राहो जग्राह बलवाञ्जङ्घान्ते कालचोदितः॥ 1-132-12

स समर्थोऽपि मोक्षाय शिष्यान्सर्वानचोदयत्।

ग्राहं हत्वा मोक्षयध्वं मामिति त्वरयन्निव॥ 1-132-13

तद्वाक्यसमकालं तु बीभत्सुर्निशितैः शरैः।

अवार्यैः पञ्चभिर्ग्राहं मग्नमम्भस्यताडयत्॥ 1-132-14

इतरे त्वथ सम्मूढास्तत्र तत्र प्रपेदिरे।

तं तु दृष्ट्वा क्रियोपेतं द्रोणोऽमन्यत पाण्डवम्॥ 1-132-15

विशिष्टं सर्वशिष्येभ्यः प्रीतिमांश्चाभवत्तदा।

स पार्थबाणैर्बहुधा खण्डशः परिकल्पितः॥ 1-132-16

ग्राहः पञ्चत्वमापेदे जङ्घां त्यक्त्वा महात्मनः।

अथाब्रवीन्महात्मानं भारद्वाजो महारथम्॥ 1-132-17

गृहाणेदं महाबाहो विशिष्टमतिदुर्धरम्।

अस्त्र ब्रह्मशिरो नाम सप्रयोगनिवर्तनम्॥ 1-132-18

न च ते मानुषेष्वेतत्प्रयोक्तव्यं कथञ्चन।

जगद्विनिर्दहेदेतदल्पतेजसि पातितम्॥ 1-132-19

असामान्यमिदं तात लोकेष्वस्त्रं निगद्यते।

तद्धारयेथाः प्रयतः शृणु चेदं वचो मम॥ 1-132-20

बाधेतामानुषः शत्रुर्यदि त्वां वीर कश्चन।

तद्वधाय प्रयुञ्जीथास्तदस्त्रमिदमाहवे॥ 1-132-21

तथेति सम्प्रतिश्रुत्य बीभत्सुः स कृताञ्जलिः।

जग्राह परमास्त्रं तदाह चैनं पुनर्गुरुः।

भविता त्वत्समो नान्यः पुमाँल्लोके धनुर्धरः॥ 1-132-22

इति श्रीमहाभारते आदिपर्वणि सम्भवपर्वणि द्रोणग्राहमोक्षणे द्वात्रिंशदधिकशततमोऽध्यायः॥ 132॥