Adiparva Adhyaya 131 (आदिपर्वणि अध्यायः १३१)

From Dharmawiki
Revision as of 17:26, 28 July 2019 by Pṛthvī (talk | contribs) (Created page with "वैशम्पायन उवाच ततः सम्पूजितो द्रोणो भीष्मेण द्विपदां वरः। विशश्...")
(diff) ← Older revision | Latest revision (diff) | Newer revision → (diff)
Jump to navigation Jump to search

वैशम्पायन उवाच

ततः सम्पूजितो द्रोणो भीष्मेण द्विपदां वरः।

विशश्राम महातेजाः पूजितः कुरुवेश्मनि॥ 1-131-1

विश्रान्तेऽथ गुरौ तस्मिन्पौत्रानादाय कौरवान्।

शिष्यत्वेन ददौ भीष्मो वसूनि विविधानि च॥ 1-131-2

गृहं च सुपरिच्छन्नं धनधान्यसमाकुलम्।

भारद्वाजाय सुप्रीतः प्रत्यपादयत प्रभुः॥ 1-131-3

स ताञ्शिष्यान्महेष्वासः प्रतिजग्राह कौरवान्।

पाण्डवान्धार्तराष्ट्रांश्च द्रोणो मुदितमानसः॥ 1-131-4

प्रतिगृह्य च तान्सर्वान्द्रोणो वचनमब्रवीत्।

रहस्येकः प्रतीतात्मा कृतोपसदनांस्तथा॥ 1-131-5

द्रोण उवाच

कार्यं मे काङ्क्षितं किञ्चिद्धृदि सम्परिवर्तते।

कृतास्त्रैस्तत्प्रदेयं मे तदेतद्वदतानघाः॥ 1-131-6

वैशम्पायन उवाच

तच्छ्रुत्वा कौरवेयास्ते तूष्णीमासन्विशाम्पते।

अर्जुनस्तु ततः सर्वं प्रतिजज्ञे परन्तप॥ 1-131-7

ततोऽर्जुनं तदा मूर्ध्नि समाघ्राय पुनः पुनः।

प्रीतिपूर्वं परिष्वज्य प्ररुरोद मुदा तदा॥ 1-131-8

ततो द्रोणः पाण्डुपुत्रानस्त्राणि विविधानि च।

ग्राहयामास दिव्यानि मानुषाणि च वीर्यवान्॥ 1-131-9

राजपुत्रास्तथा चान्ये समेत्य भरतर्षभ।

अभिजग्मुस्ततो द्रोणमस्त्रार्थे द्विजसत्तमम्॥ 1-131-10

वृष्णयश्चान्धकाश्चैव नानादेश्याश्च पार्थिवाः।

सूतपुत्रश्च राधेयो गुरुं द्रोणमियात्तदा॥ 1-131-11

स्पर्धमानस्तु पार्थेन सूतपुत्रोऽत्यमर्षणः।

दुर्योधनं समाश्रित्य सोऽवमन्यत पाण्डवान्॥ 1-131-12

अभ्ययात्स ततो द्रोणं धनुर्वेदचिकीर्षया।

शिक्षाभुजबलोद्योगैस्तेषु सर्वेषु पाण्डवः॥ 1-131-13

अस्त्रविद्यानुरागाच्च विशिष्टोऽभवदर्जुनः।

तुल्येष्वस्त्रप्रयोगेषु लाघवे सौष्ठवेषु च॥ 1-131-14

सर्वेषामेव शिष्याणां बभूवाभ्यधिकोऽर्जुनः।

ऐन्द्रिमप्रतिमं द्रोण उपदेशेष्वमन्यत॥ 1-131-15

एवं सर्वकुमाराणामिष्वस्त्रं प्रत्यपादयत्।

कमण्डलुं च सर्वेषां प्रायच्छच्चिरकारणात्॥ 1-131-16

पुत्राय च ददौ कुम्भमविलम्बनकारणात्।

यावत्ते नोपगच्छन्ति तावदस्मै परां क्रियाम्॥ 1-131-17

द्रोण आचष्ट पुत्राय तत्कर्म जिष्णुरौहत।

ततः स वारुणास्त्रेण पूरयित्वा कमण्डलुम्॥ 1-131-18

सममाचार्यपुत्रेण गुरुमभ्येति फाल्गुनः।

आचार्यपुत्रात्तस्मात्तु विशेषोपचयेऽपृथक्॥ 1-131-19

न व्यहीयत मेधावी पार्थोऽप्यस्त्रविदां वरः।

अर्जुनः परमं यत्नमातिष्ठद्गुरुपूजने॥ 1-131-20

अस्त्रे च परमं योगं प्रियो द्रोणस्य चाभवत्।

तं दृष्ट्वा नित्यमुद्युक्तमिष्वस्त्रं प्रति फाल्गुनम्॥ 1-131-21

आहूय वचनं द्रोणो रहः सूदमभाषत।

अन्धकारेऽर्जुनायान्नं न देयं ते कदाचन॥ 1-131-22

न चाख्येयमिदं चापि मद्वाक्यं विजये त्वया।

ततः कदाचिद्भुञ्जाने प्रववौ वायुरर्जुने॥ 1-131-23

तेन तत्र प्रदीपः स दीप्यमानो विलोपितः।

भुङ्क्त एव तु कौन्तेयो नास्यादन्यत्र वर्तते॥ 1-131-24

हस्तस्तेजस्विनस्तस्य अनुग्रहणकारणात्।

तदभ्यासकृतं मत्वा रात्रावपि स पाण्डवः॥ 1-131-25

योग्यां चक्रे महाबाहुर्धनुषा पाण्डुनन्दनः।

तस्य ज्यातलनिर्घोषं द्रोणः शुश्राव भारत।

उपेत्य चैनमुत्थाय परिष्वज्येदमब्रवीत्॥ 1-131-26

द्रोण उवाच

प्रयतिष्ये तथा कर्तुं यथा नान्यो धनुर्धरः।

त्वत्समो भविता लोके सत्यमेतद्ब्रवीमि ते॥ 1-131-27

वैशम्पायन उवाच

ततो द्रोणोऽर्जुनं भूयो हयेषु च गजेषु च।

रथेषु भूमावपि च रणशिक्षामशिक्षयत्।

गदायुद्धेऽसिचर्यायां तोमरप्रासशक्तिषु॥ 1-131-28

द्रोणः सङ्कीर्णयुद्धे च शिक्षयामास कौरवान्।

तस्य तत्कौशलं श्रुत्वा धनुर्वेदजिघृक्षवः॥ 1-131-29

राजानो राजपुत्राश्च समाजग्मुः सहस्रशः।

तान्सर्वान्शिक्षयामास द्रोणः शस्त्रभृतां वरः।

ततो निषादराजस्य हिरण्यधनुषः सुतः॥ 1-131-30

एकलव्यो महाराज द्रोणमभ्याजगाम ह।

न स तं प्रतिजग्राह नैषादिरिति चिन्तयन्॥ 1-131-31

शिष्यं धनुषि धर्मज्ञस्तेषामेवान्ववेक्षया।

शिष्योऽसि मम नैषादे! प्रयोगे बलवत्तरः।

निवर्तस्व गृहानेव अनुज्ञातोऽसि नित्यशः॥

स तु द्रोणस्य शिरसा पादौ गृह्य परन्तपः॥ 1-131-32

अरण्यमनुसम्प्राप्य कृत्वा द्रोणं महीमयम्।

तस्मिन्नाचार्यवृत्तिं च परमामास्थितस्तदा॥ 1-131-33

इष्वस्त्रे योगमातस्थे परं नियममास्थितः।

परया श्रद्धयोपेतो योगेन परमेण च॥ 1-131-34

विमोक्षादानसन्धाने लघुत्वं परमाप सः।

लाघवं चास्त्रयोगं च न चिरात्प्रत्यपद्यत

अथ द्रोणाभ्यनुज्ञाताः कदाचित्कुरुपाण्डवाः॥ 1-131-35

रथैर्विनिर्ययुः सर्वे मृगयामरिमर्दन।

तत्रोपकरणं गृह्य नरः कश्चिद्यदृच्छया॥ 1-131-36

राजन्ननुजगामैकः श्वानमादाय पाण्डवान्।

तेषां विचरतां तत्र तत्तत्कर्मचिकीर्षया॥ 1-131-37

श्वा चरन्स वने मूढो नैषादिं प्रति जग्मिवान्।

स कृष्णं मलदिग्धाङ्गं कृष्णाजिनजटाधरम्॥ 1-131-38

नैषादिं श्वा न[स]मालक्ष्य भषंस्तस्थौ तदन्तिके।

तदा तस्याथ भव[ष]तः शुनः सप्त शरान्मुखे॥ 1-131-39

लाघवं दर्शयन्नस्त्रे मुमोच युगपद्यथा।

स तु श्वा शरपूर्णास्यः पाण्डवानाजगाम ह॥ 1-131-40

तं दृष्ट्वा पाण्डवा वीराः परं विस्मयमागताः।

लाघवं शब्दवेधित्वं दृष्ट्वा तत्परमं तदा॥ 1-131-41

प्रेक्ष्य तं व्रीडिताश्चासन्प्रशशंसुश्च सर्वशः।

तं ततोऽन्वेषमाणास्ते वने वननिवासिनम्॥ 1-131-42

ददृशुः पाण्डवा राजन्नस्यन्तमनिशं शरान्।

न चैनमभ्यजानंस्ते तदा विकृतदर्शनम्।

अथैनं परिपप्रच्छुः को भवान्कस्य वेत्युत॥ 1-131-43

एकलव्य उवाच

निषादाधिपतेर्वीरा हिरण्यधनुषः सुतम्।

द्रोणशिष्यं च मां वित्त धनुर्वेदकृतश्रमम्॥ 1-131-44

वैशम्पायन उवाच

ते तमाज्ञाय तत्त्वेन पुनरागम्य पाण्डवाः।

यथावृत्तं वने सर्वं द्रोणायाचख्युरद्भुतम्॥ 1-131-45

कौन्तेयस्त्वर्जुनो राजन्नेकलव्यमनुस्मरन्॥ 1-131-46

रहो द्रोणं समासाद्य प्रणयादिदमब्रवीत्॥ 1-131-46

अर्जुन उवाच

तदाहं परिरभ्यैकः प्रीतिपूर्वमिदं वचः।

भवतोक्तो न मे शिष्यस्त्वद्विशिष्टो भविष्यति॥ 1-131-47

अथ कस्मान्मद्विशिष्टो लोकादपि च वीर्यवान्।

अन्योऽस्ति भवतः शिष्यो निषादाधिपतेः सुतः॥ 1-131-48

वैशम्पायन उवाच

मुहूर्तमिव तं द्रोणश्चिन्तयित्वा विनिश्चयम्।

सव्यसाचिनमादाय नैषादिं प्रति जग्मिवान्।

ददर्श मलदिग्धाङ्गं जटिलं चीरवाससम्॥ 1-131-49

एकलव्यं धनुष्पाणिमस्यन्तमनिशं शरान्।

एकलव्यस्तु तं दृष्ट्वा द्रोणमायान्तमन्तिकात्॥ 1-131-50

अभिगम्योपसङ्गृह्य जगाम शिरसा महीम्।

पूजयित्वा ततो द्रोणं विधिवत्स निषादजः॥ 1-131-51

निवेद्य शिष्यमात्मानं तस्थौ प्राञ्जलिरग्रतः।

ततो द्रोणोऽब्रवीद्राजन्नेकलव्यमिदं वचः॥ 1-131-52

यदि शिष्योऽसि मे वीर वेतनं दीयतां मम।

एकलव्यस्तु तच्छ्रुत्वा प्रीयमाणोऽब्रवीदिदम्॥ 1-131-53

एकलव्य उवाच

किं प्रयच्छामि भगवन्नाज्ञापयतु मां गुरुः।

न हि किञ्चिददेयं मे गुरवे ब्रह्मवित्तम॥ 1-131-54

वैशम्पायन उवाच

तमब्रवीत्त्वयाङ्गुष्ठो दक्षिणो दीयतामिति।

एकलव्यस्तु तच्छ्रुत्वा वचो द्रोणस्य दारुणम्॥ 1-131-55

किं प्रयच्छामि भगवनाज्ञापयतु मां गुरुः।

न हि किंचिददेयं मे गुरवे ब्रह्मवित्तम॥

वैशंपायनः--

तमब्रवीत्त्वयाऽङ्गुष्ठो दक्षिणो दीयतामिति॥

एकलव्यस्तु तच्छ्रत्वा वचो द्रोणस्य दारुणम्।

प्रतिज्ञामात्मनो रक्षन्सत्ये च निरतस्सदा॥

प्रतिज्ञामात्मनो रक्षन्सत्ये च नियतः सदा।

तथैव हृष्टवदनस्तथैवादीनमानसः॥ 1-131-56

छित्त्वाविचार्य तं प्रादाद्द्रोणायाङ्गुष्ठमात्मनः।

(स सत्यसन्धं नैषादिं दृष्ट्वा प्रीतोऽब्रवीदिदम्।

एवं कर्तव्यमिति वा एकलव्यमभाषत॥)

ततः शरं तु नैषादिरङ्गुलीभिर्व्यकर्षत॥ 1-131-57

न तथा च स शीघ्रोऽभूद्यथा पूर्वं नराधिप।

ततोऽर्जुनः प्रीतमना बभूव विगतज्वरः॥ 1-131-58

द्रोणश्च सत्यवागासीन्नान्योऽभिभवितार्जुनम्।

द्रोणस्य तु तदा शिष्यौ गदायोग्यौ बभूवतुः॥ 1-131-59

दुर्योधनश्च भीमश्च सदा संरब्धमानसौ।

अश्वत्थामा रहस्येषु सर्वेष्वभ्यधिकोऽभवत्॥ 1-131-60

तथाति पुरुषानन्यान्त्सारुकौ यमजावुभौ।

युधिष्ठिरो रथश्रेष्ठः सर्वत्र तु धनञ्जयः॥ 1-131-61

प्रथितः सागरान्तायां रथयूथपयूथपः।

बुद्धियोगबलोत्साहैः सर्वास्त्रेषु च निष्ठितः॥ 1-131-62

अस्त्रे गुर्वनुरागे च विशिष्टोऽभवदर्जुनः।

तुल्येष्वस्त्रोपदेशेषु सौष्ठवेन च वीर्यवान्॥ 1-131-63

एकः सर्वकुमाराणां बभूवातिरथोऽर्जुनः।

प्राणाधिकं भीमसेनं कृतविद्यं धनञ्जयम्॥ 1-131-64

धार्तराष्ट्रा दुरात्मानो नामृष्यन्त परस्परम्।

तांस्तु सर्वान्समानीय सर्वविद्यास्त्रशिक्षितान्॥ 1-131-65

द्रोणः प्रहरणज्ञाने जिज्ञासुः पुरुषर्षभः।

कृत्रिमं भासमारोप्य वृक्षाग्रे शिल्पिभिः कृतम्।

अविज्ञातं कुमाराणां लक्ष्यभूतमुपादिशत्॥ 1-131-66

द्रोण उवाच

शीघ्रं भवन्तः सर्वेऽपि धनूंष्यादाय सर्वशः।

भासमेतं समुद्दिश्य तिष्ठध्वं सन्धितेषवः॥ 1-131-67

मद्वाक्यसमकालं तु शिरोऽस्य विनिपात्यताम्।

एकैकशो नियोक्ष्यामि तथा कुरुत पुत्रकाः॥ 1-131-68

वैशम्पायन उवाच

ततो युधिष्ठिरं पूर्वमुवाचाङ्गिरसां वरः।

सन्धत्स्व बाणं दुर्धष मद्वाक्यान्ते विमुञ्च तम्।

ततो युधिष्ठिरः पूर्वं धनुर्गृह्य परन्तपः॥ 1-131-69

तस्थौ भासं समुद्दिश्य गुरुवाक्यप्रचोदितः।

ततो विततधन्वानं द्रोणस्तं कुरुनन्दनम्॥ 1-131-70

स मुहूर्तादुवाचेदं वचनं भरतर्षभ।

पश्यैनं तं द्रुमाग्रस्थं भासं नरवरात्मज॥ 1-131-71

पश्यामीत्येवमाचार्यं प्रत्युवाच युधिष्ठिरः।

स मुहूर्तादिव पुनर्द्रोणस्तं प्रत्यभाषत॥ 1-131-72

द्रोण उवाच

पश्यस्येनं द्रुमाग्रस्थं भासं नरवरात्मज!।

पश्यामीत्येवमाचार्यं प्रत्युवाच युधिष्ठिरः॥

अथ वृक्षमिमं मां वा भ्रातॄन्वापि प्रपश्यसि।

तमुवाच स कौन्तेयः पश्याम्येनं वनस्पतिम्॥ 1-131-73

भवन्तं च तथा भ्रातॄन्भासं चेति पुनः पुनः।

तमुवाचापसर्पेति द्रोणोऽप्रीतमना इव॥ 1-131-74

नैतच्छक्यं त्वया वेद्धुं लक्ष्यमित्येव कुत्सयन्।

ततो दुर्योधनादींस्तान्धार्तराष्ट्रान्महायशाः॥ 1-131-75

तेनैव क्रमयोगेन जिज्ञासुः पर्यपृच्छत।

अन्यांश्च शिष्यान्भीमादीन्राज्ञश्चैवान्यदेशजान्।

तथा च सर्वे तत्सर्वं पश्याम इति कुत्सिताः॥ 1-131-76

इति श्रीमहाभारते आदिपर्वणि सम्भवपर्वणि द्रोणशिष्यपरीक्षायामेकत्रिंशदधिकशततमोऽध्यायः॥ 131॥