Adiparva Adhyaya 129 (आदिपर्वणि अध्यायः १२९)

From Dharmawiki
Revision as of 19:29, 31 July 2019 by Tsvora (talk | contribs)
Jump to navigation Jump to search


जनमेजय उवाच
कृपस्यापि मम ब्रह्मन्सम्भवं वक्तुमर्हसि।
शरस्तम्बात्कथं जज्ञे कथं वास्त्राण्यवाप्तवान्॥ 1-129-1
वैशम्पायन उवाच
महर्षेर्गौतमस्यासीच्छरद्वान्नाम गौतमः।
पुत्रः किल महाराज जातः सह शरैर्विभो॥ 1-129-2
न तस्य वेदाध्ययने तथा बुद्धिरजायत।
यथास्य बुद्धिरभवद्धनुर्वेदे परन्तप॥ 1-129-3
अधिजग्मुर्यथा वेदांस्तपसा ब्रह्मचारिणः।
तथा स तपसोपेतः सर्वाण्यस्त्राण्यवाप ह॥ 1-129-4
धनुर्वेदपरत्वाच्च तपसा विपुलेन च।
भृशं सन्तापयामास देवराजं स गौतमः॥ 1-129-5
ततो जानपदीं नाम देवकन्यां सुरेश्वरः।
प्राहिणोत्तपसो विघ्नं कुरु तस्येति कौरव॥ 1-129-6
सा हि गत्वाऽऽश्रमं तस्य रमणीयं शरद्वतः।
धनुर्बाणधरं बाला लोभयामास गौतमम्॥ 1-129-7
तामेकवसनां दृष्ट्वा गौतमोऽप्सरसं वने।
लोकेऽप्रतिमसंस्थानां प्रोत्फुल्लनयनोऽभवत्॥ 1-129-8
धनुश्च हि शरास्तस्य कराभ्यामपतन्भुवि।
वेपथुश्चापि तां दृष्ट्वा शरीरे समजायत॥ 1-129-9
स तु ज्ञानगरीयस्त्वात्तपसश्च समर्थनात्।
अवतस्थे महाप्राज्ञो धैर्येण परमेण ह॥ 1-129-10
यस्तस्य सहसा राजन्विकारः समदृश्यत।
तेन सुस्राव रेतोऽस्य स च तन्नान्वबुध्यत॥ 1-129-11
धनुश्च सशरं त्यक्त्वा तथा कृष्णाजिनानि च।
स विहायाश्रमं तं च तां चैवाप्सरसं मुनिः॥ 1-129-12
जगाम रेतस्तत्तस्य शरस्तम्बे पपात च।
शरस्तम्बे च पतितं द्विधा तदभवन्नृप॥ 1-129-13
तस्याथ मिथुनं जज्ञे गौतमस्य शरद्वतः।
महर्षेर्गौतमस्यास्य आश्रमस्य समीपतः।
मृगयां चरतो राज्ञः शन्तनोस्तु यदृच्छया॥ 1-129-14
कश्चित्सेनाचरोऽरण्ये मिथुनं तदपश्यत।
धनुश्च सशरं दृष्ट्वा तथा कृष्णाजिनानि च॥ 1-129-15
ज्ञात्वा द्विजस्य चापत्ये धनुर्वेदान्तगस्य ह।
स राज्ञे दर्शयामास मिथुनं सशरं धनुः॥ 1-129-16
स तदादाय मिथुनं राजा च कृपयान्वितः।
आजगाम गृहानेव मम पुत्राविति ब्रुवन्॥ 1-129-17
ततः संवर्धयामास संस्कारैश्चाप्ययोजयत्।
प्रातीपेयो नरश्रेष्ठो मिथुनं गौतमस्य तत्॥ 1-129-18
गौतमोऽपि ततोऽभ्येत्य धनुर्वेदपरोऽभवत्।
कृपया यन्मया बालाविमौ संवर्धिताविति॥ 1-129-19
तस्मात्तयोर्नाम चक्रे तदेव स महीपतिः।
तस्मात्कृप इति ख्यातः कृपी कन्या च साऽभवत्।
गोपितौ गौतमस्तत्र तपसा समविन्दत॥ 1-129-20
आगत्य तस्मै गोत्रादि सर्वमाख्यातवांस्तदा।
कृपोऽपि च तदा राजन्धनुर्वेदपरोऽभवत्
चतुर्विधं धनुर्वेदं शास्त्राणि विविधानि च॥ 1-129-21
निखिलेनास्य तत्सर्वं गुह्यमाख्यातवांस्तदा।
सोऽचिरेणैव कालेन परमाचार्यतां गतः॥ 1-129-22
कृपमाहूय गाङ्गेयस्तव शिष्या इति ब्रुवन्।
पौत्रान्परिसमादाय कृपमाराधयत्तदा॥
ततोऽधिजग्मुः सर्वे ते धनुर्वेदं महारथाः।
धृतराष्ट्रात्मजाश्चैव पाण्डवाः सह यादवैः।
वृष्णयश्च नृपाश्चान्ये नानादेशसमागताः॥ 1-129-23
वैशम्पायन उवाच
विशेषार्थी ततो भीष्मः पौत्राणां विनयेप्सया।
कृपाचार्यमासाद्य परमास्त्रज्ञतां गतः।
इष्वस्त्रज्ञान्पर्यपृच्छदाचार्यान्वीर्यसम्मतान्।
नाल्पधीर्नामहाभागस्तथानानास्त्रकोविदः॥ 1-129-24
नादेवसत्त्वो विनयेत्कुरूनस्त्रे महाबलान्।
इति सञ्चिन्त्य गाङ्गेयस्तदा भरतसत्तमः॥ 1-129-25
द्रोणाय वेदविदुषे भारद्वाजाय धीमते।
पाण्डवान्कौरवांश्चैव ददौ शिष्यान्नरर्षभ॥ 1-129-26
शास्त्रतः पूजितश्चैव सम्यक्तेन महात्मना।
स भीष्मेण महाभागस्तुष्टोऽस्त्रविदुषां वरः॥ 1-129-27
प्रतिजग्राह तान्सर्वान्शिष्यत्वेन महायशाः।
शिक्षयामास च द्रोणो धनुर्वेदमशेषतः॥ 1-129-28
तेऽचिरेणैव कालेन सर्वशस्त्रविशारदाः।
बभूवुः कौरवा राजन्पाण्डवाश्चामितौजसः॥ 1-129-29
जनमेजय उवाच
कथं समभवद्द्रोणः कथं चास्त्राण्यवाप्तवान्।
कथं चागात्कुरून्ब्रह्मन्कस्य पुत्रः स वीर्यवान्॥ 1-129-30
कथं चास्य सुतो जातः सोऽश्वत्थामास्त्रवित्तमः।
एतदिच्छाम्यहं श्रोतुं विस्तरेण प्रकीर्तय॥ 1-129-31
वैशम्पायन उवाच
गङ्गाद्वारं प्रति महान्बभूव भगवानृषिः।
भरद्वाज इति ख्यातः सततं संशितव्रतः॥ 1-129-32
सोऽभिषेक्तुं ततो गङ्गां पूर्वमेवागमन्नदीम्।
महर्षिभिर्भरद्वाजो हविर्धाने चरन्पुरा॥ 1-129-33
ददर्शाप्सरसं साक्षाद्घृताचीमाप्लुतामृषिः।
रूपयौवनसम्पन्नां मददृप्तां मदालसाम्॥ 1-129-34
तस्याः पुनर्नदीतीरे वसनं पर्यवर्तत।
व्यपकृष्टाम्बरां दृष्ट्वा तामृषिश्चक्रमे ततः॥ 1-129-35
तत्र संसक्तमनसो भरद्वाजस्य धीमतः।
ततोऽस्य रेतश्चस्कन्द तदृषिर्दोण आदधे।
ततः समभवद्द्रोणः कलशे तस्य धीमतः।
अध्यगीष्ट स वेदांश्च वेदाङ्गानि च सर्वशः॥ 1-129-37
अग्निवेशं महाभागं भरद्वाजः प्रतापवान्।
प्रत्यपादयदाग्नेयमस्त्रमस्त्रविदां वरः॥ 1-129-38
अग्नेस्तु जातः स मुनिस्ततो भरतसत्तम।
भारद्वाजं तदाग्नेयं महास्त्रं प्रत्यपादयत्॥ 1-129-39
भरद्वाजसखा चासीत्पृषतो नाम पार्थिवः।
तस्यापि द्रुपदो नाम तदा समभवत्सुतः॥ 1-129-40
स नित्यमाश्रमं गत्वा द्रोणेन सह पार्थिवः।
चिक्रीडाध्ययनं चैव चकार क्षत्रियर्षभः॥ 1-129-41
ततो व्यतीते पृषते स राजा द्रुपदोऽभवत्।
पञ्चालेषु महाबाहुरुत्तरेषु नरेश्वर॥ 1-129-42
भरद्वाजोऽपि भगवानारुरोह दिवं तदा।
तत्रैव च वसन्द्रोणस्तपस्तेपे महातपाः॥ 1-129-43
वेदवेदाङ्गविद्वान्स तपसा दग्धकिल्बिषः।
ततः पितृनियुक्तात्मा पुत्रलोभान्महायशाः॥ 1-129-44
शारद्वतीं ततो भार्यां कृपीं द्रोणोऽन्वविन्दत।
अग्निहोत्रे च धर्मे च दमे च सततं रताम्॥ 1-129-45
अलभद्गौतमी पुत्रमश्वत्थामानमेव च ।
स जातमात्रो व्यनदद्यथैवोच्चैःश्रवा हयः॥ 1-129-46
तच्छ्रुत्वान्तर्हितं भूतमन्तरिक्षस्थमब्रवीत्।
अश्वस्येवास्य यत्स्थाम नदतः प्रदिशो गतम्॥ 1-129-47
अश्वत्थामैव बालोऽयं तस्मान्नाम्ना भविष्यति।
सुतेन तेन सुप्रीतो भारद्वाजस्ततोऽभवत्॥ 1-129-48
तत्रैव च वसन्धीमान्धनुर्वेदपरोऽभवत्।
स शुश्राव महात्मानं जामदग्न्यं परन्तपम्॥ 1-129-49
सर्वज्ञानविदं विप्रं सर्वशस्त्रभृतां वरम्।
ब्राह्मणेभ्यस्तदा राजन्दित्सन्तं वसु सर्वशः॥ 1-129-50
स रामस्य धनुर्वेदं दिव्यान्यस्त्राणि चैव हि[ह]।
श्रुत्वा तेषु मनश्चक्रे नीतिशास्त्रे तथैव च॥ 1-129-51
ततः स व्रतिभिः शिष्यैस्तपोयुक्तैर्महातपाः।
वृतः प्रायान्महाबाहुर्महेन्द्रं पर्वतोत्तमम्॥ 1-129-52
ततो महेन्द्रमासाद्य भारद्वाजो महातपाः।
क्षान्तं दान्तममित्रघ्नमपश्यद्भृगूनन्दनम्॥ 1-129-53
ततो द्रोणो वृतः शिष्यैरुपगम्य भृगुद्वहम्।
आचख्यावात्मनो नाम जन्म चाङ्गिरसः कुले॥ 1-129-54
निवेद्य शिरसा भूमौ पादौ चैवाभ्यवादयत्।
ततस्तं सर्वमुत्सृज्य वनं जिगमिषुं तदा॥ 1-129-55
जामदग्न्यं महात्मानं भारद्वाजोऽब्रवीदिदम्।
भरद्वाजात्समुत्पन्नं तथा त्वं मामयोनिजम्॥ 1-129-56
आगतं वित्तकामं मां विद्धि द्रोणं द्विजोत्तम[द्विजर्षभ]।
तमब्रवीन्महात्मा स सर्वक्षत्रियमर्दनः॥ 1-129-57
स्वागतं ते द्विजश्रेष्ठ यदिच्छसि वदस्व मे।
एवमुक्तस्तु रामेण भारद्वाजोऽब्रवीद्वचः॥ 1-129-58
आगतं वित्तकामं मां विद्धि द्रोणं द्विजर्षभ।
रामं प्रहरतां श्रेष्ठं दित्सन्तं विविधं वसु।
अहं धनमनन्तं हि प्रार्थये विपुलव्रत॥ 1-129-59
राम उवाच
हिरण्यं मम यच्चान्यद्वसु किञ्चिदिह स्थितम्।
ब्राह्मणेभ्यो मया दत्तं सर्वमेतत्तपोधन॥ 1-129-60
तथैवेयं धरा देवी सागरान्ता सपत्तना।
कश्यपाय मया दत्ता कृत्स्ना नगरमालिनी॥ 1-129-61
शरीरमात्रमेवाद्य ममेदमवशेषितम्।
अस्त्राणि च महार्हाणि शस्त्राणि विविधानि च॥ 1-129-62
अस्त्राणि वा शरीरं वा वरयैतन्मयोद्यतम्।
वृणीष्व किं प्रयच्छामि तुभ्यं द्रोण वदाशु तत्॥ 1-129-63
द्रोण उवाच
अस्त्राणि मे समग्राणि ससंहाराणि भार्गव।
सप्रयोगरहस्यानि दातुमर्हस्यशेषतः॥ 1-129-64
तथेत्युक्त्वा ततस्तस्मै प्रादादस्त्राणि भार्गवः।
सरहस्यव्रतं चैव धनुर्वेदमशेषतः॥ 1-129-65
प्रतिगृह्य तु तत्सर्वं कृतास्त्रो द्विजसत्तमः।
प्रियं सखायं सुप्रीतो जगाम द्रुपदं प्रति॥ 1-129-66
इति श्रीमहाभारते आदिपर्वणि सम्भवपर्वणि द्रोणस्य भार्गवादस्त्रप्राप्तौ ऊनत्रिंशदधिकशततमोऽध्यायः॥ 129॥
 Kripacharya  Drona   Ashwathama
  genesis  origin  birth  
Parshurama  weapons  acquire weapons
 कृपाचार्य  द्रोण अश्वत्थामा उत्पत्ति
परशुराम अस्त्र-शस्त्र प्राप्ति
अस्त्र-शास्त्र प्राप्ति