Difference between revisions of "Adiparva Adhyaya 127 (आदिपर्वणि अध्यायः १२७)"

From Dharmawiki
Jump to: navigation, search
(slokas)
 
(No difference)

Latest revision as of 16:02, 11 July 2019

वैशम्पायन उवाच

ततः कुन्ती च राजा च भीष्मश्च सह बन्धुभिः।

ददुः श्राद्धं तदा पाण्डोः स्वधामृतमयं तदा॥ 1-127-1

कुरूंश्च विप्रमुख्यांश्च भोजयित्वा सहस्रशः।

रत्नौघान्विप्रमुख्येभ्यो दत्त्वा ग्रामवरांस्तथा॥ 1-127-2

कृतशौचांस्ततस्तांस्तु पाण्डवान्भरतर्षभान्।

आदाय विविशुः सर्वे पुरं वारणसाह्वयम्॥ 1-127-3

सततं स्मानुशोचन्तस्तमेव भरतर्षभम्।

पौरजानपदाः सर्वे मृतं स्वमिव बान्धवम्॥ 1-127-4

श्राद्धावसाने तु तदा दृष्ट्वा तं दुःखितं जनम्।

सम्मूढां दुःखशोकार्तां व्यासो मातरमब्रवीत्॥ 1-127-5

अतिक्रान्तसुखाः कालाः पर्युपस्थितदारुणाः।

श्वः श्वः पापिष्ठदिवसाः पृथिवी गतयौवना॥ 1-127-6

बहुमायासमाकीर्णो नानादोषसमाकुलः।

लुप्तधर्मक्रियाचारो घोरः कालो भविष्यति॥ 1-127-7

कुरूणामनयाच्चापि पृथिवी न भविष्यति।

गच्छ त्वं योगमास्थाय युक्ता वस तपोवने॥ 1-127-8

मा द्राक्षीस्त्वं कुलस्यास्य घोरं सङ्क्षयमात्मनः।

तथेति समनुज्ञाय सा प्रविश्याब्रवीत्स्नुषाम्॥ 1-127-9

अम्बिके तव पौत्रस्य दुर्नयात्किल भारताः।

सानुबन्धा विनङ्क्ष्यति पौराश्चैवेति नः श्रुतम्॥ 1-127-10

तत्कौसल्यामिमामार्तां पुत्रशोकाभिपीडिताम्।

वनमादाय भद्रं ते गच्छामि यदि मन्यसे॥ 1-127-11

तथेत्युक्ता त्वम्बिकया भीष्ममामन्त्र्य सुव्रता।

वनं ययौ सत्यवती स्नुषाभ्यां सह भारत॥ 1-127-12

ताः सुघोरं तपस्तप्त्वा देव्यो भरतसत्तम।

देहं त्यक्त्वा महाराज गतिमिष्टां ययुस्तदा॥ 1-127-13

वैशम्पायन उवाच

अथाप्तवन्तो वेदोक्तान्संस्कारान्पाण्डवास्तदा।

संव्यवर्धन्त भोगांस्ते भुञ्जानाः पितृवेश्मनि॥ 1-127-14

धार्तराष्ट्रैश्च सहिताः क्रीडन्तो मुदिताः सुखम्।

बालक्रीडासु सर्वासु विशिष्टास्तेजसाभवन्॥ 1-127-15

जवे लक्ष्याभिहरणे भोज्ये पांसुविकर्षणे।

धार्तराष्ट्रान्भीमसेनः सर्वान्स परिमर्दति॥ 1-127-16

हर्षात्प्रक्रीडमानांस्तान्गृह्य राजन्निलीयते।

शिरःसु विनिगृह्यैतान्योधयामास पाण्डवैः॥ 1-127-17

शतमेकोत्तरं तेषां कुमाराणां महौजसाम्।

एक एव निगृह्णाति नातिकृच्छ्राद्वृकोदरः॥ 1-127-18

कचेषु च निगृह्यैनान्विनिहत्य बलाद्बली।

चकर्षं क्रोशतो भूमौ घृष्टजानुशिरोंऽसकान्॥ 1-127-19

दश बालाञ्जले क्रीडन्भुजाभ्यां परिगृह्य सः।

आस्ते स्म सलिले मग्नो मृतकल्पान्विमुञ्चति॥ 1-127-20

फलानि वृक्षमारुह्य विचिन्वन्ति च ते तदा।

तदा पादप्रहारेण भीमः कम्पयते द्रुमान्॥ 1-127-21

प्रहारवेगाभिहता द्रुमा व्याघूर्णितास्ततः।

सफलाः प्रपतन्ति स्म द्रुतं त्रस्ताः कुमारकाः॥ 1-127-22

न ते नियुद्धे न जवे न योग्यास्तु कदाचन।

कुमारा उत्तरं चक्रुः स्पर्धमाना वृकोदरम्॥ 1-127-23

एवं स धार्तराष्ट्रांश्च स्पर्धमानो वृकोदरः।

अप्रियेऽतिष्ठदत्यन्तं बाल्यान्न द्रोहचेतसा॥ 1-127-24

ततो बलमतिख्यातं धार्तराष्ट्रः प्रतापवान्।

भीमसेनस्य तज्ज्ञात्वा दुष्टभावमदर्शयत्॥ 1-127-25

तस्य धर्मादपेतस्य पापानि परिपश्यतः।

मोहादैश्वर्यलोभाच्च पापा मतिरजायत॥ 1-127-26

अयं बलवतां श्रेष्ठः कुन्तीपुत्रो वृकोदरः।

मध्यमः पाण्डुपुत्राणां निकृत्या सन्निगृह्यताम्॥ 1-127-27

प्राणवान्विक्रमी चैव शौर्येण महतान्वितः।

स्पर्धते चापि सहितानस्मानेको वृकोदरः॥ 1-127-28

तं तु सुप्तं पुरोद्याने गङ्गायां प्रक्षिपामहे।

अथ तस्मादवरजं श्रेष्ठं चैव युधिष्ठिरम्॥ 1-127-29

प्रसह्य बन्धने बद्ध्वा प्रशासिष्ये वसुन्धराम्।

एवं स निश्चयं पापः कृत्वा दुर्योधनस्तदा॥ 1-127-30

नित्यमेवान्तरप्रेक्षी भीमस्यासीन्महात्मनः।

ततो जलविहारार्थं कारयामास भारत॥ 1-127-31

चैलकम्बलवेश्मानि विचित्राणि महान्ति च।

सर्वकामैः सुपूर्णानि पताकोच्छ्रायवन्ति च॥ 1-127-32

तत्र सञ्जनयामास नानागाराण्यनेकशः।

उदकक्रीडनं नाम कारयामास भारत॥ 1-127-33

प्रमाणकोट्यां तं देशं स्थलं किञ्चिदुपेत्य ह।

भक्ष्यं भोज्यं च पेयं च चोष्यं लेह्यमथापि च॥ 1-127-34

उपपादितं नरैस्तत्र कुशलैः सूदकर्मणि।

न्यवेदयंस्तत्पुरुषा धार्तराष्ट्राय वै तदा॥ 1-127-35

ततो दुर्योधनस्तत्र पाण्डवानाह दुर्मतिः।

गङ्गां चैवानुयास्याम उद्यानवनशोभिताम्॥ 1-127-36

सहिता भ्रातरः सर्वे जलक्रीडामवाप्नुमः।

एवमस्त्विति तं चापि प्रत्युवाच युधिष्ठिरः॥ 1-127-37

ते रथैर्नगराकारैर्देशजैश्च गजोत्तमैः।

निर्युयुर्नगराच्छूराः कौरवाः पाण्डवैः सह॥ 1-127-38

उद्यानवनमासाद्य विसृज्य च महाजनम्।

विशन्ति स्म तदा वीराः सिंहा इव गिरेर्गुहाम्॥ 1-127-39

उद्यानमभिपश्यन्तो भ्रातरः सर्व एव ते।

उपस्थानगृहैः शुभ्रैर्वलभीभिश्च शोभितम्॥ 1-127-40

गवाक्षकैस्तथा जालैर्यन्त्रैः साञ्चारिकैरपि।

सम्मार्जितं सौधकारैश्चित्रकारैश्च चित्रितम्॥ 1-127-41

दीर्घिकाभिश्च पूर्णाभिस्तथा पुष्करिणीभिः[पद्माकरैरपि]।

जलं तच्छुशुभे छन्नं फुल्लैर्जलरुहैस्तथा॥ 1-127-42

उपच्छन्ना वसुमती तथा पुष्पैर्यथर्तुकैः।

तत्रोपविष्टास्ते सर्वे पाण्डवाः कौरवाश्च ह॥ 1-127-43

उपपन्नान्बहून्कामांस्ते भुञ्जन्ति ततस्ततः।

अथोद्यानवरे तस्मिंस्तथा क्रीडागताश्च ते॥ 1-127-44

परस्परस्य वक्त्रेभ्यो ददुर्भक्ष्यांस्ततस्ततः।

ततो दुर्योधनः पापस्तद्भक्ष्ये कालकूटकम्॥ 1-127-45

विषं प्रक्षेपयामास भीमसेनजिघांसया।

स्वयमुत्थाय चैवाथ हृदयेन क्षुरोपमः॥ 1-127-46

स वाचामृतकल्पश्च भ्रातृवच्च सुहृद्यथा।

स्वयं प्रक्षिपते भक्ष्यं बहु भीमस्य पापकृत्॥ 1-127-47

प्रतीच्छितं स्म भीमेन तं वै दोषमजानता।

ततो दुर्योधनस्तत्र हृदयेन हसन्निव॥ 1-127-48

कृतकृत्यमिवात्मानं मन्यते पुरुषाधमः।

ततस्ते सहिताः सर्वे जलक्रीडामकुर्वत॥ 1-127-49

पाण्डवा धार्तराष्ट्राश्च तदा मुदितमानसाः।

क्रीडावसाने ते सर्वे शुचिवस्त्राः स्वलङ्कृताः॥ 1-127-50

दिवसान्ते परिश्रान्ता विहृत्य च कुरूद्वहाः।

विहारावसथेष्वेव वीरा वासमरोचयन्॥ 1-127-51

खिन्नस्तु बलवान्भीमोव्यायम्याभ्यधिकं तदा।

वाहयित्वा कुमारांस्ताञ्जलक्रीडागतांस्तदा॥ 1-127-52

प्रमाणकोट्यां वासार्थी सुष्वापावाप्य तत्स्थलम्।

शीतं वातं समासाद्य श्रान्तो मदविमोहितः॥ 1-127-53

विषेण च परीताङ्गो निश्चेष्टः पाण्डुनन्दनः।

ततो बद्ध्वा लतापाशैर्भीमं दुर्योधनः स्वयम्॥ 1-127-54

मृतकल्पं तदा वीरं स्थलाज्जलमपातयत्।

स निःसङ्गो जलस्यान्तमथ वै पाण्डवोऽविशत्॥ 1-127-55

आक्रामन्नागभवने तदा नागकुमारकान्।

ततः समेत्य बहुभिस्तदा नागैर्महाविषैः॥ 1-127-56

अदश्यत भृशं भीमो महादंष्ट्रैर्विषोल्बणैः।

ततोऽस्य दश्यमानस्य तद्विषं कालकूटकम्॥ 1-127-57

हृतं[हतं] सर्पविषेणैव स्थावरं जङ्गमेन तु।

दंष्ट्राश्च दंष्ट्रिणां तेषां मर्मस्वपि निपातिताः॥ 1-127-58

त्वचं नैवास्य बिभिदुः सारत्वात्पृथुवक्षसः।

ततः प्रबुद्धः कौन्तेयः सर्वं सञ्छिद्य बन्धनम्॥ 1-127-59

पोथयामास तान्सर्वान्केचिद्भीताः प्रदुद्रुवुः।

हतावशेषा भीमेन सर्वे वासुकिमभ्ययुः॥ 1-127-60

ऊचुश्च सर्पराजानं वासुकिं वासवोपमम्।

अयं नरो वै नागेन्द्र ह्यप्सु बद्ध्वा प्रवेशितः॥ 1-127-61

यथा च नो मतिर्वीर विषपीतो भविष्यति।

निश्चेष्टोऽस्माननुप्राप्तः स च दष्टोऽन्वबुध्यत॥ 1-127-62

ससंज्ञश्चापि संवृत्तश्छित्त्वा बन्धनमाशु नः।

पोथयन्तं महाबाहुं त्वं वै तं ज्ञातुमर्हसि॥ 1-127-63

ततो वासुकिरभ्येत्य नागैरनुगतस्तदा।

पश्यति स्म महाबाहुं भीमं भीमपराक्रमम्॥ 1-127-64

आर्यकेण च दृष्टः स पृथाया आर्यकेण च।

तदा दौहित्रदौहित्रः परिष्वक्तः सुपीडितम्॥ 1-127-65

सुप्रीतश्चाभवत्तस्य वासुकिः स महायशाः।

अब्रवीत्तं च नागेन्द्रः किमस्य क्रियतां प्रियम्॥ 1-127-66

धनौघो रत्ननिचयो वसु चास्य प्रदीयताम्।

एवमुक्तस्तदा नागो वासुकिं प्रत्यभाषत॥ 1-127-67

यदि नागेन्द्र तुष्टोऽसि किमस्य धनसञ्चयैः।

रसं पिबेत्कुमारोऽयं त्वयि प्रीते महाबलः॥ 1-127-68

बलं नागसहस्रस्य यस्मिन्कुण्डे प्रतिष्ठितम्।

यावत्पिबति बालोऽयं तावदस्मै प्रदीयताम्॥ 1-127-69

एवमस्त्विति तं नागं वासुकिः प्रत्यभाषत।

ततो भीमस्तदा नागैः कृतस्वस्त्ययनः शुचिः॥ 1-127-70

प्राङ्मुखश्चोपविष्टश्च रसं पिबति पाण्डवः।

एकोच्छ्वासात्ततः कुण्डं पिबति स्म महाबलः॥ 1-127-71

एवमष्टौ स कुण्डानि ह्यपिबत्पाण्डुनन्दनः।

ततस्तु शयने दिव्ये नागदत्ते महाभुजः।

अशेत भीमसेनस्तु यथासुखमरिन्दमः॥ 1-127-72

इति श्रीमहाभारते आदिपर्वणि सम्भवपर्वणि भीमसेनरसपाने सप्तविंशत्यधिकशततमोऽध्यायः॥ 127॥